मार्कण्डेयपुराणम् - षड्विंशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
जड उवाच
वर्धमानं सुतं सा तु राजपत्नी दिने दिने ।
तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥१॥
यथायथं बलं लेभे यथा लेभे मतिं पितुः ।
तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः ॥२॥
इत्थं तया स तनयो जन्मप्रभृति बोधितः ।
चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ॥३॥
द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता ।
सुबाहुरयमित्युक्ते सा जाहस मदालसा ॥४॥
तमप्येवं यथापूर्वं बालमुल्लापनादिना ।
प्राह बाल्यात् स च प्राप तथा बोधं माहमतिः ॥५॥
तृतीयं तनयं जातं स राजा शत्रुमर्दनम् ।
यदाह तेन सा सुभ्रुर्जहासातिचिरं पुनः ॥६॥
तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः ।
क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम् ॥७॥
चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः ।
ददर्श तां शुभाचारामीषद्धासां मदालसाम् ।
तामाह राजा हसतीं किञ्चित् कौतूहलान्वितः ॥८॥
राजोवाच
क्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् ।
विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः ॥९॥
शोभनानीति नामानि मया मन्ये कृतानि वै ।
योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च ॥१०॥
असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् ।
तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे ॥११॥
मदालसौवाच
मयाज्ञा भवतः कार्या महाराज ! यथात्थ माम् ।
तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते ॥१२॥
अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति ।
कनीयानेष ते पुत्रो मतिमांश्च भविष्यति ॥१३॥
तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः ।
अलर्क इत्यसम्बद्धं प्रहस्येदमथाब्रवीत् ॥१४॥
राजोवाच
भवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे ।
किमीदृशमसम्बद्धमर्थः कोऽस्य मदालसे ॥१५॥
मदालसोवाच
कल्पनेयं महाराज ! कृता सा व्यावहारिको ।
त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम् ॥१६॥
वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः ।
क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरन्तु या ॥१७॥
सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः ।
ततो विक्रान्तसंज्ञेयं मता मम निरर्थिका ॥१८॥
सुबाहुरिति या संज्ञा कृतान्यस्य सुतस्य ते ।
निरर्था साप्यमूर्तत्वात् पुरुषस्य महीपते ॥१९॥
पुत्रस्य यद् कृतं नाम तृतीयस्यारिमर्दनः ।
मन्ये तदप्यसम्बद्धं शृणु चाप्यत्र कारणम् ॥२०॥
एक एव शरीरेषु सर्वेषु पुरुषो यदा ।
तदास्य राजन् ! क शत्रुः को वा मित्रमिहेष्यते ॥२१॥
भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् ।
क्रोधादीनां पृथग्भावात् कल्पनेयं निरर्थिका ॥२२॥
यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते ।
नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम् ॥२३॥
जड उवाच
एवमुक्तस्तया साधु महीष्या स महीपतिः ।
तथेत्याह महाबुद्धिर्दयितां तथ्यवादिनीम् ॥२४॥
तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा ।
प्रोवाच बोधजननं तामुवाच स पार्थिवः ॥२५॥
करोषि किमिदं मूढे ! ममाभावाय सन्ततेः ।
दुष्टावबोधदानेन यथापूर्वं सुतेषु मे ॥२६॥
यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम ।
तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय ॥२७॥
कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति ।
पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति ॥२८॥
पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः ।
तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः ॥२९॥
सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् ।
पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः ॥३०॥
सदाप्यायते सुभ्रु ! तद्वद्देवातिथोनपि ।
देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः ॥३१॥
वयोभिः कृमिकीटैश्च नर एवोपजीव्यते ।
तस्मात् तन्वड्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः ॥३२॥
ऐहिकामुष्मिकफलं तत् सम्यक् प्रतिपादय ॥३३॥
जड उवाच
तेनैवमुक्ता सा भर्त्रा वरनारी मदालसा ।
अलर्कं नाम तनयमुवाचोल्लापवादिनी ॥३४॥
पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः ।
मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥३५॥
धन्योऽसि रे यो वसुधामशत्रुर् एकश्चिरं पालयितासि पुत्र ।
तत्पालनादस्तु सुखोपभोगो धर्मात् फलं प्राप्स्यसि चामरत्वम् ॥३६॥
धरामरान् पर्वसु तर्पयेथाः समीहितं बन्धुषु पूरयेथाः ।
हितं परस्मै हृदि चिन्तयेथाः मनः परस्त्रीषु निवर्तयेथाः ॥३७॥
यज्ञौरनेकैर्विबुधानजस्त्रम् अर्थैर्द्विजान् प्रीणय संश्रितांश्च ।
स्त्रियश्च कामैरतुलैश्चिराय युद्धैश्चारींस्तोषयितासि वीर ॥३८॥
बालो मनो नन्दय बान्धवानां गुरोस्तथाज्ञानकरणैः कुमारः ।
स्त्रीणां युवा सत्कुलभूषणानां वृद्धो वने वत्स ! वनेचराणाम् ॥३९॥
राज्यं कुर्वन् सुहृदो नन्दयेथाः साधून् रक्षंस्तात ! यज्ञैर्यजेथाः ।
दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः ॥४०॥
इति श्रीमार्कण्डेयपुराणे पुत्रानुशासनं नाम षड्विंशोऽध्यायः
27(4)
सप्तविंशोऽध्यायः
जड उवाच
एवमुल्लाप्यमानस्तु स तु मात्रा दिने दिने ।
ववृधे वयसा बालो बुद्ध्या चालर्कसंज्ञितः ॥१॥
स कौमारकमासाद्य ऋतध्वजसुतस्ततः ।
कृतोपनयनः प्राज्ञः प्रणिपत्याह मातरम् ॥२॥
मया यदत्र कर्तव्यमैहिकामुष्मिकाय वै ।
सुखाय वद तत् सर्वं प्रश्रयावनतस्य मे ॥३॥
मदालसोवाच
वत्स ! राज्येऽभिषिक्तेन प्रजारञ्जनमादितः ।
कर्तव्यमविरोधेन स्वधर्मस्य महीभृता ॥४॥
व्यसनानि परित्यज्य सप्त मूलहराणि वै ।
आत्मा रिपुभ्यः संरक्ष्यो बहिर्मन्त्रविनिर्गमात् ॥५॥
अष्टधा नाशमाप्नोति सुचक्रात् स्यन्दनाद्यथा ।
तथा राजाप्यसन्दिग्धं बहिर्मन्त्रविनिर्गमात् ॥६॥
दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।
चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः ॥७॥
विश्वासो न तु कर्तव्यो राज्ञा मित्राप्तबन्धुषु ।
कार्ययोगादमित्रेऽपि विश्वसीत नराधिपः ॥८॥
स्थानवृद्धिक्षयज्ञेन षाड्गुण्यगुणितात्माना ।
भवितव्यं नरेन्द्रेण न कामवशवर्तिना ॥९॥
प्रागात्मा मन्त्रिणश्चैव ततो भृत्या महीभृता ।
जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः ॥१०॥
यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।
सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते ॥११॥
तस्मात् कामादयः पूर्वं जेयाः पुत्र ! महीभुजा ।
तज्जये हि जयोऽवश्यं राजा नश्यति तैर्जितः ॥१२॥
कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
हर्षश्च शत्रवो ह्येते विनाशाय महीभृताम् ॥१३॥
कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।
निवर्तयेत्तथा क्रोधादनुह्रादं हतात्मजम् ॥१४॥
हतमैलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् ।
मानादनायुषापुत्रं बलिं हर्षात् पुरञ्जयम् ॥१५॥
एभिर्जितैर्जितं सर्वं मरुत्तेन महात्मना ।
स्मृत्वा विवर्जयेदेतान् दोषान् स्वीयान्महीपतिः ॥१६॥
काककोकिलभृङ्गाणां मृगव्यालशिखण्डिनाम् ।
हंसकुक्कुटलोहानां शिक्षेत चरित नृपः ॥१७॥
कीटकस्य क्रियां कुर्यात् विपक्षे मनुजेश्वरः ।
चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत् ॥१८॥
ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः ।
चन्द्रसूर्यस्वरूपेण नीत्यर्थे पृथिवीक्षिता ॥१९॥
बन्धकीपद्मशरभशूलिकागुर्विणीस्तनात् ।
प्रज्ञा नृपेण चादेया तथा गोपालयोषितः ॥२०॥
शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ।
रूपाणि पञ्च कुर्वोत महीपालनकर्मणि ॥२१॥
यथेन्द्रश्चतुरो मासान् तोयोत्सर्गेण भूगतम् ।
आप्याययेत्तथा लोकं परिहारैर्महीपतिः ॥२२॥
मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः ॥२३॥
यथा यमः प्रियद्वेष्ये प्राप्तकाले नियच्छति ।
तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत् ॥२४॥
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वत्तास्तच्छशिव्रतम् ॥२५॥
मारुतः सर्वभूतेषु निगूढश्चरते यथा ।
एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु ॥२६॥
न लोभाद्वा न कामाद्वा नार्थाद्वा यस्य मानसम् ।
यथान्यैः कृष्यते वत्स ! स राजा स्वर्गमृच्छति ॥२७॥
उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् ।
यः करोति निजे धर्मे स राजा स्वर्गमृच्छति ॥२८॥
वर्णधर्मा न सीदन्ति यस्य राज्ये तथाश्रमाः ।
वत्स ! तस्य सुखं प्रेत्य परत्रेह च शाश्वतम् ॥२९॥
एतद्राज्ञः परं कृत्यं तथैतत् सिद्धिकारकम् ।
स्वधर्मस्थापनं नृणां चाल्यन्ते ये कुबुद्धिभिः ॥३०॥
पालनेनैव भूतानां कृतकृत्यो महीपतिः ।
सम्यक् पालयिता भागं धर्मस्याप्नोति यत्नतः ॥३१॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तविंशोऽध्यायः
N/A
References : N/A
Last Updated : March 21, 2023
TOP