संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्विसप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्विसप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्विसप्ततितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः ।समेतं भार्यया चैव शीलवत्या मुदान्वितम् ॥१॥ब्राह्मण उवाचराजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः ।धर्मज्ञनेह भवता भार्यामानयता मम ॥२॥राजोवाचकृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् ।वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि ॥३॥ब्राह्मण उवाचनरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि ।अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया ।क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया ॥४॥राजोवाचन भक्षिता मे दयिता श्वापदैः सा हि जीवति ।अविदूषितचारित्रा कथमेतत्करोम्यहम् ॥५॥ब्राह्मण उवाचयदि जीवति ते भार्या न चैव व्यभिचारिणी ।तदपत्नीकताजन्म किं पापं क्रियते त्वया ॥६॥राजोवाचआनीतापि हि सा विप्र ! प्रतिकूला सदैव मे ।दुः खाय न सुखायालं तस्या मैत्री न वै मयि ।तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी ॥७॥ब्राह्मण उवाचतव संप्रीतये तस्या वरेष्टिरुपकारिणी ।क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम् ॥८॥अप्रीतयोः प्रीतिकरो सा हि संजननी परम् ।भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम् ॥९॥यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते ।तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति ॥१०॥मार्कण्डेय उवाचइत्युक्तः स तु सम्भारानशेषानवनीपतिः ।आनिनाय चकारेष्टिं स च तां द्विजसत्तमः ॥११॥सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः ।तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै ॥१२॥यदारोपितमैत्रीन्ताममन्यत महामुनिः ।स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम् ॥१३॥आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् ।भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः ॥१४॥मार्कण्डेय उवाचइत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा ।सस्मार तं महावीर्यं सत्यसन्धं निशाचरम् ॥१५॥स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् ।किं करोमीति सोऽप्याह प्रणिपत्य महामुने ॥१६॥ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते ।गत्वा पातालमादाय राजपत्नीमुपाययौ ॥१७॥आनीता चातिहार्देन सा ददर्श तदा पतिम् ।उवाच च प्रसीदेति भूयोभूयो मुदान्विता ॥१८॥ततः स राजा रभसा परिष्वज्याह मानिनीम् ।प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम् ॥१९॥पत्न्युवाचयदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः ।तदेतदभियाचे त्वां तत् कुरुष्व ममार्हणम् ॥२०॥राजोवाचनिः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् ।तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा ॥२१॥पत्न्युवाचमदर्थं तेन नागेन सुता शप्ता सखी मम ।मूका भविष्यसीत्याह सा च मूकत्वमागता ॥२२॥तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् ।वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम ॥२३॥मार्कण्डेय उवाचततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया ।तन्मूकतापनोदाय स च तं प्राह पार्थिवम् ॥२४॥ब्राह्मण उवाचभूप ! सारस्वतीमिष्टिं करोमि वचनात्तव ।पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात् ॥२५॥मार्कण्डेय उवाचइष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः ।सारस्वतानि सूक्तानि जजाप च समाहितः ॥२६॥ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले ।उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः ॥२७॥इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् ।ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा ॥२८॥तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः ।उवाच मधुरं नागी कृतासनपरिग्रहा ॥२९॥उपकारः कृतो वीर ! भवता यो ममाधुना ।तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत् ॥३०॥तव पुत्रो महावीर्यो भविष्यति नराधिप ।तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति ॥३१॥सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः ।मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः ॥३२॥मार्कण्डेय उवाचइति दत्वा वरं तस्मै नागराजसुता ततः ।सखीं तां संपरिष्वज्य पातालमगमन्मुने ॥३३॥तत्र तस्य तया सार्धं रमतः पृथिवीपतेः ।जगाम कालः सुमहान् प्रजाः पालयतस्तथा ॥३४॥ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः ।पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः ॥३५॥तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि ।देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥३६॥तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च ।औत्तमश्चेति मुनयो नाम चक्रुः समागताः ॥३७॥जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे ।उत्तमावयवस्तेन औत्तमोऽयं भविष्यति ॥३८॥मार्कण्डेय उवाचउत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः ।मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम ॥३९॥उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च ।नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति ॥४०॥इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन ।वियोगो नास्य भविता शृण्वतः पठतोऽपि वा ॥४१॥तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय ।श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः ॥४२॥इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP