संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चाशीतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चाशीतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चाशीतितमोऽध्यायः Translation - भाषांतर ऋषिरुवाचपुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥१॥तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥२॥तावेव पवनर्धि च चक्रतुर्वह्निकर्म च ।अन्येषाञ्चाधिकारान् स स्वयमेवाधितिष्ठति ।ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥३॥हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥४॥तयास्माकं वरो दत्तो यथाऽपत्सु स्मृताखिलाः ।भवतां नाशयिष्यामि तत्क्षणात् परमापदः ॥५॥इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ।जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥६॥देवा ऊचुःनमो देव्यै महादेव्यै शिवायै सततं नमः ।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥७॥रौद्रायै नमो नित्यायौ गौर्यै धात्र्यै नमो नमः ।नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥८॥द्योत्स्त्रायै चेन्दुरूपिण्यै सुखायै सततं नमः ।कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ॥९॥नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥१०॥अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।मनो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥११॥या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै मनो नमः ॥१५॥या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥या देवी सर्वभूतेषु च्छायारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥या देवी सर्वभूतेषु धृतिरूपेण संस्थिता ।तमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२७॥या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२९॥या देवी सर्वभूतेषु दयारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३०॥या देवी सर्वभूतेषु नीतिरूपेणं संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३१॥या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३२॥या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३३॥या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३४॥या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३५॥इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥३६॥चितिरूपेण या कृत्स्त्रमेतद् व्याप्य स्थिता जगत् ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥३७॥स्तु ता सुरैः पूर्वमभीष्टसंश्रयात्तथासुरेन्द्रेण दिनेषु सेविता ।करोतु सा नः शुभहेतुरीश्वरीशुभानि भद्राण्यभिहन्तु चापदः ॥३८॥या साम्प्रतं चोद्धतदैत्यतापितैर्अस्माभिरीशा च सुरैर्नमस्यते ।या च स्मृता तत्क्षणमेव हन्ति नःसर्वापदो भक्तिविनम्कमूर्तिभिः ॥३९॥ऋषिरूवाचएवं स्तवादियुक्तानां देवानां तत्र पार्वती ।स्त्रातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥४०॥साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥४१॥स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः ।देवैः समेतैः समरे निशुम्भेन पराजितैः ॥४२॥शरीरकोशाद्यत्तस्याः पार्वत्या निः सृताम्बिका ।कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥४३॥तस्यां विनिर्गतायां तु कृष्णाभूत् सापि पार्वती ।कालिकेति समाख्याता हिमाचलकृताश्रया ॥४४॥ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥४५॥ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥४६॥नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥४७॥स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥४८॥यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ।त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥४९॥ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।पारिजाततरुश्चायं तथैवोच्चैः श्रवा हयः ॥५०॥विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥५१॥निधिरेष महापद्मः समानीतो धनेश्वरात् ।किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥५२॥छत्रं ते वारुणं गेहे काञ्चनस्त्रावि तिष्ठति ।तथायं स्यन्तनवरो यः पुरासीत् प्रजापतेः ॥५३॥मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥५४॥निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः ।वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥५५॥एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥५६॥ऋषिरुवाचनिशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।प्रेषयामास सुग्रीवं दूतं देव्या महासुरः ॥५७॥शुम्भ उवाचइति चेति च वक्तव्या सा गत्वा वचनान्मम ।यथा चाभ्येति संप्रीत्या तथा कार्यं त्वया लघु ॥५८॥स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥५९॥दूत उवाचदेवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः ।दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥६०॥अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥६१॥मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥६२॥त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम् ॥६३॥क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥६४॥यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।रत्नभूतानि भूतानि तानि मय्येव शोभने ॥६५॥स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥६६॥मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥६७॥परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥६८॥ऋषिरुवाचइत्युक्ता सा तदा देवी गम्भीरान्तः स्मिता जगौ ।दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥६९॥देव्युवाचसत्यमुक्तत्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।त्रैलोक्याधिपतिः सुम्भो निशुम्भश्चापि तादृशः ॥७०॥किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।श्रूयतामल्पबुद्धित्वात् प्रतिज्ञा या कृता पुरा ॥७१॥यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥७२॥तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः ।मां जित्वा किं चिरेणात्र पाणि गृह्णातु मे लघु ॥७३॥दूत उवाचअवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥७४॥अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।तिष्ठन्ति संमुखे देवि किं पुनः स्त्री त्वमेकिका ॥७५॥इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि संमुखम् ॥७६॥सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥७७॥देव्युवाचएवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान् ।किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥७८॥स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् ॥७९॥इति श्रीमार्कण्डेयपुराणेठसावर्णिके मन्वन्तरेऽ देवीमाहात्म्ये पञ्चाशीतितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP