संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुरशीतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुरशीतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुरशीतितमोऽध्यायः Translation - भाषांतर ऋषिरुवाचततः सुरगणाः सर्वे देव्या इन्द्रपुरोगमाः ।स्तुतिमारेभिरे कर्तुं निहते महिषासुरे ॥१॥शक्रादयः सुरगणा निहतेऽतिवीर्येतस्मिन् दुरात्मनि सुरारिबले च देव्या ।तां तुष्टुवुः प्रणतिनम्रशिरोधरांसावाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥२॥देवा ऊचुःदेव्या यया ततमिदं जगदात्मशक्त्यानिः शेषदेवगणशक्तिसमूहमूर्त्या ।तामम्बिकामखिलदेवमर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥३॥यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च नहि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभयस्य मतिं करोतु ॥४॥या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीःपापात्मनां कृतधियां हृदयेषु बुद्धिः ।श्रद्धां सतां कुलजनप्रभवस्य लज्जातां त्वां नताः स्म परिपालय देवि विश्वम् ॥५॥किं वर्णयाम तव रूपमचिन्त्यमेतत्किं चातिवीर्यमसुरक्षयकारि भूरि ।किं चाहवेषु चरितानि तवाद्भुतानिसर्वेषु देव्यसुरदेवगणादिकेषु ॥६॥हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा ।सर्वाश्रयाखिलमिदं जगदंशभूतम्अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥७॥यस्याः समस्तसुरता समुदीरणेनतृप्तिं प्रयान्ति सकलेषु मखेषु देवि ।स्वाहासि वै पितृगणस्य च तृप्तिहेतुर्उच्चार्यसे त्वमत एव जनैः स्वधा च ॥८॥या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वम्अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्यासि सा भगवती परमा हि देवि ॥९॥शब्दात्मिका सुविमलर्ग्यजुषां निधानम्उद्गीथरम्यपदपाठवतां च साम्नाम् ।देवी त्रयी भगवती भवभावनायवार्ता च सर्वजगतां परमार्तिहन्त्री ॥१०॥मेधासि देवि विदिताखिलशास्त्रसारादुर्गासि दुर्गभवसागरनौरसङ्गा ।श्रीः कैटभारिहृदयैककृताधिवासागौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥ईषत्सहासममलं परिपूर्णचन्द्र-बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।अत्यद्भुतं प्रहृतमात्तरुषा तथापिवक्त्रं विलोक्य सहसा महिषासुरेण ॥१२॥दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम्उद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।प्राणान्मुमोच महीषस्तदतीव चित्रंकैर्जीव्यते हि कुपितान्तकदर्शनेन ॥१३॥देवि प्रसीद परमा भवती भवायसद्यो विनाशयसि कोपवती कुलानि ।विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥ते संमता जनपदेषु धनानि तेषांतेषां यशांसि न च सीदति धर्मवर्गः ।धन्यास्त एव निभृतात्मजभृत्यदारायेषां सदाभ्युदयदा भवती प्रसन्ना ॥१५॥धर्म्याणि देवि सकलानि सदैव कर्माण्य्अत्यादृतः प्रतिदिनं सुकृती करोति ।स्वर्गं प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥१६॥दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि ।दारिद्र्यदुःखभयहारिणि का त्वदन्यासर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥१७॥एभिर्हतैर्जगदुपैति सुखं तथैतेकुर्वन्तु नाम नरकाय चिराय पापम् ।संग्राममृत्युमधिगम्य दिवं प्रयान्तुमत्वेति नूनमहितान् विनिहंसि देवि ॥१८॥दृष्ट्वैव किं न भवती प्रकरोति भस्मसर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूताइत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी ॥१९॥खड्गप्रभानिकरविस्फुरणैस्तथोग्रैःशूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।यन्नागता विलयमंशुमदिन्दुखण्ड-योग्याननं तव विलोकयतां तदेतत् ॥२०॥दुर्वृत्तवृत्तशमनं तव देवि शीलंरूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।वीर्यं च हन्तृ हृतदेवपराक्रमाणांवैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥२१॥केनोपमा भवतु तेऽस्य पराक्रमस्यरूपं च शत्रुभयकार्यतिहारि कुत्र ।चित्ते कृपा समरनिष्ठुरता च दृष्टात्वय्येव देवि वरदे भुवनत्रयेऽपि ॥२२॥त्रैलोक्यमेतदखिलं रिपुनाशनेनत्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।नीता दिवं रिपुगणा भयमप्यपास्तम्अस्माकमुन्मदसुरारिभवं नमस्ते ॥२३॥शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥२४॥प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ॥२६॥खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥२७॥ऋषीरुवाचएवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥२८॥भक्त्या समस्तैस्त्रिदशार्दिव्यैर्धूपैस्तु धूपिता ।प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥२९॥देव्युवाचव्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ।ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता ॥३०॥कर्तव्यमपरं यच्च दुष्करं तन्न विद्महे ।इत्याकर्ण्ये वचो देव्याः प्रत्यूचुस्ते दिवौकसः ॥३१॥देवा ऊचुःभगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।यदयं निहतः शत्रुरस्माकं महिषासुरः ॥३२॥यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ।संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ॥३३॥यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।तस्य वित्तर्धिविभवैर्धनदारादिसम्पदाम् ।वृद्धयेऽस्मात्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥३४॥ऋषिरुवाचइति प्रसादिता देवैर्जगतोर्ऽथे तथाऽत्मनः ।तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥३५॥इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥३६॥पुनश्च गौरीदेहात् सा समुद्भूता यथाभवत् ।वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥३७॥रक्षणाय च लोकानां देवानामुपकारिणी ।तच्छृणुष्व मयाऽख्यातं यथावत्कथयामि ते ॥३८॥इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये चतुरशीतितमोऽद्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP