मार्कण्डेयपुराणम् - अष्टचत्वारिंशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
क्रौष्टुकिरुवाच
समासात् कथिता सृष्टिः सम्यग् भगवता मम ।
देवादीनां भवं ब्रह्मन् विस्तरात्तु ब्रवीहि मे ॥१॥
मार्कण्डेय उवाच
कुशलाकुशलैर्ब्रह्मन् ! भाविता पूर्वकमर्मभिः ।
ख्याता तथा ह्यनिर्मुक्ताः प्रलये ह्यु पसंहृताः ॥२॥
देवाद्याः स्थावरान्ताश्च प्रजा ब्रह्मंश्चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तदा ॥३॥
ततो देवासुरान् पितॄन् मानुषांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥४॥
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर्जघनात् पूर्वमसुरा जज्ञिरे ततः ॥५॥
उत्ससर्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् ।
सापविद्धा तनुस्तेन सद्यो रात्रिरजायत ॥६॥
अन्यां तनुमुपादाय सिसृक्षुः प्रीतिमाप सः ।
सत्त्वोद्रेकास्ततो देवा मुखतस्तस्य जज्ञिरे ॥७॥
उत्ससर्ज च भूतेशस्तनुं तामप्यसौ विभुः ।
सा चापविद्धा दिवसं सत्त्वप्रायमजायत् ॥८॥
सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥९॥
सृष्ट्वा पितॄनुत्ससर्ज तनुं तामपि स प्रभुः ।
सा चोत्सृष्टाभवत् सन्ध्या दिवननक्तान्तरस्थिता ॥१०॥
रजोमात्रात्मिकामन्यां तनुं भेजेऽथ स प्रभुः ।
ततो मनुष्याः सम्भूता रजोमात्रासमुद्भवाः ॥११॥
सृष्ट्वा मनुष्यान् स विभुरुत्ससर्ज तनुं ततः ।
ज्योत्स्ना समभवत् सा च नक्तान्तेऽहर्मुखे च या ॥१२॥
इत्येतास्तनवस्तस्य देवदेवस्य धीमतः ।
ख्याता रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च वै द्विज ॥१३॥
ज्योत्स्तना सन्ध्या तथैवाह---सत्त्वमात्रात्मकं त्रयम् ।
तमोमात्रात्मिका रात्रिः सा वै तस्मात् त्रियामिका ॥१४॥
तस्माद् देवा दिवा रात्रावसुरास्तु बलान्विताः ।
ज्योत्स्नागमे च मनुजाः सन्ध्यायां पितरस्तथा ॥१५॥
भवन्ति बलिनोऽधृष्या विपक्षाणां न संशयः ।
तद्विपर्ययमासाद्य प्रयान्ति च विपर्ययम् ॥१६॥
ज्योत्स्नो रात्र्यहनी सन्ध्या चत्वार्येतानि वै प्रभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपश्रितानि तु ॥१७॥
चत्वार्येतान्यथोत्पाद्य तनुमन्यां प्रजापतिः ।
रजस्तमोमयीं रात्रौ जगृहे क्षुत्तृडन्वितः ॥१८॥
तदन्धकारे क्षुत्क्षामानसृजद् भगवानजः ।
विरूपान् श्मश्रुलानत्तुमारब्धास्ते च तां तनुम् ॥१९॥
रक्षाम इति तेभ्योऽन्ये य ऊचुस्ते तु राक्षसाः ।
खादाम इति ये चोचुस्ते यक्षा यक्षणात् द्विज ॥२०॥
तान् दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्यन्त वेधसः ।
समारोहणहीनाश्च शिरसो ब्रह्मणस्तु ते ॥२१॥
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे ॥२२॥
वर्णेन कपिलेनोग्रास्ते भूताः पिशिताशनाः ।
ध्यायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः ॥२३॥
जज्ञिरे पिबतो वाचं गन्धर्वास्तेन ते स्मृताः ।
अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः ॥२४॥
ततः स्वदेहतोऽन्यानि वयांसि पशवोऽसृजत् ।
मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत् ॥२५॥
गावश्चैवोदराद् ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।
पद्भ्याञ्चाश्वान् स मातङ्गान् रासबान् शशकान् मृगान् ॥२६॥
उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥२७॥
एवं पश्वोषधीः सृष्ट्वा ह्ययजच्चाध्वरे विभुः ।
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा ॥२८॥
गौरजः पुरुषो मेषो अश्वाश्वतरगर्दभाः ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोध मे ॥२९॥
श्वापदं द्विखुरं हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥३०॥
गायत्रीञ्च ऋचञ्चैव त्रिवृत् सोमं रथन्तरम् ।
अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमान्मुखात् ॥३१॥
यजूंषि त्रैष्टुभं धन्दः स्तोमं पञ्चदशन्तथा ।
बृहत् साम तथोकथञ्च दक्षिणादसृजन्मुखात् ॥३२॥
सामानि जगतीच्छन्दः स्तोमं पञ्चदशन्तथा ।
वैरूपमतिरात्रञ्च निर्ममे पश्चिमान्मुखात् ॥३३॥
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥३४॥
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ।
वयांसि च ससर्जादौ कल्पस्य भगवान् विभुः ॥३५॥
उच्चावचानि भूतानि गात्रेभ्यस्तलस्य जज्ञिरे ।
सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः ॥३६॥
ततोऽसृजत् स भूतानि स्थावराणि चराणि च ।
यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसाङ्गणान् ॥३७॥
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् ॥३८॥
तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥३९॥
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥४०॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगञ्च धातैव व्यदधात् स्वयम् ॥४१॥
नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः ॥४२॥
ऋषीणां नामधेयानि याश्च देवेषु सृष्टयः ।
शर्वर्यन्ते प्रसूतानामन्येषाञ्च ददाति सः ॥४३॥
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥४४॥
एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः ।
शर्वर्यन्ते प्रबुद्धस्य कल्पे कल्पे भवन्ति वै ॥४५॥
इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकारणनामाष्टचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : March 24, 2023
TOP