मार्कण्डेयपुराणम् - त्रयोदशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
पुत्र उवाच
अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे ।
समतीते गवां रोधं निपाने कृतवान् पुरा ॥१॥
विपाकात् कर्मणस्तस्य नरकं भृशदारुणम् ।
सम्प्राप्तोऽग्निशिखाघोरमयोमुखखगाकुलम् ॥२॥
यन्त्रपीडनगात्रासृक्-प्रवाहोद्भूतकर्दमम् ।
विशस्यमानदुष्कर्मि-तन्निपातरवाकुलम् ॥३॥
पात्यमानस्य मे तत्र साग्रं वर्षशतं गतम् ।
महातापार्तितप्तस्य तृष्णादाहान्वितस्य च ॥४॥
तत्राह्लादकरः सद्यः पवनः सुखशीतलः ।
करम्भ-बालुकाकुम्भ-मध्यस्थो मे समागतः ॥५॥
तत्सम्पर्कादशेषाणां नाभवद्यातना नृणाम् ।
मम चापि यथा स्वर्गे स्वर्गिणां निर्वृतिः परा ॥६॥
किमेतदिति चाह्लाद-विस्तारस्तिमितेक्षणैः ।
दृष्टमस्माभिरासन्नं नररत्नमनत्तमम् ॥७॥
याम्यश्च पुरुषो घोरो दण्डहस्तोऽशनिप्रभः ।
पुरतो दर्शयन् मार्गमिति एहीति वगथ ॥८॥
पुरुषः स तदा दृष्ट्वा यातनाशतसंकुलम् ।
नरकं प्राह तं याम्यं किङ्करं कृपयान्वितः ॥९॥
पुरुष उवाच
भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम् ।
येनेदं यातनाभीम् प्राप्तोऽस्मि नरकं परम् ॥१०॥
विपश्चिदिति विख्यातो जनकानामहं कुले ।
जातो विदेहविषये सम्यङ्मनुजपालकः ॥११॥
यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही ।
नोत्सृष्टश्चैव संग्रामो नातिथिर्विमुखो गतः ॥१२॥
पितृ-देवर्षि-भृत्याश्च न चापचरिता मया ।
कृता स्पृहा च न मया परस्त्रीविभवादिषु ॥१३॥
पर्वकालेषु पितरस्तिथिकालेषु देवताः ।
पुरुषं स्वयमायान्ति निपानमिव धेनवः ॥१४॥
यतस्ते विमुखा यान्ति निश्वस्य गृहमेधिनः ।
तस्मादिष्टश्च पूर्तश्च धमौ द्वावपि नश्यतः ॥१५॥
पितृनिश्वासविध्वस्तं सप्तजन्मार्जितं शुभम् ।
त्रिजन्मप्रभवं दैवो निश्वासो हन्त्यसंशयम् ॥१६॥
तस्माद् दैवे च पित्र्ये च नित्यमेवोद्यतोऽभवम् ।
सोऽहं कथमिमं प्राप्तो नरङ्क भृशदारुणम् ॥१७॥
इति श्रीमार्कण्डेयपुराणे पिता-पुत्रसंवादो नाम त्रयोदशोऽध्यायः
N/A
References : N/A
Last Updated : March 17, 2023
TOP