संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षडधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षडधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षडधिकशततमोऽध्यायः Translation - भाषांतर भानुस्तववर्णनम्क्रौष्टुकिरुवाचभगवन्कथितः सम्यग्भानोः सन्ततिसम्भवः ।माहात्म्यमादिदेवस्य स्वरूपं चातिविस्तरात् ॥१॥भूयोऽपि भास्वतः सम्यङ्माहात्म्यं मुनिसत्तम ।श्रोतुमिच्छाम्यहं तन्मे प्रसन्नो वक्तुमर्हसि ॥२॥मार्कण्डेय उवाचश्रूयतामादिदेवस्य माहात्म्यं कथयामि ते ।विवस्वतो यच्चकार पूर्वमाराधितो जनैः ॥३॥दमस्य पुत्रो विख्यातो राजाभूद्राज्यवर्धनः ।स सम्यक्पालनं चक्रे पृथिव्या पृथिवीपतिः ॥४॥धर्मतः पाल्यमानं तु तेन राष्ट्रं महात्मना ।ववृधेऽनुदिनं विप्र जनेन च धनेन च ॥५॥हृष्टपुष्टमतीवासीत्तस्मिन्राजन्यशेषतः ।निर्भयः सकलश्चोर्व्यां पौरजानपदो जनः ॥६॥नोपसर्गो न च व्याधिर्न च व्यालोद्भवं भयम् ।न चावृष्टिभयं तत्र दमपुत्रे महीपतौ ॥७॥स ईजे च महायज्ञैर्ददौ दानानि चार्थिनाम् ।सुधर्मस्याविरोधेन बुभुजे विषयानपि ॥८॥तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।सप्त वर्षसहस्राणि जग्मुरेकमहर्यथा ॥९॥विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः ।तस्य पत्नी बभूवाथ मानिनी नाम मानिनी ॥१०॥कदाचित्तस्य सा सुभ्रुः शिरसोऽभ्यञ्जनादृता ।पश्यतो राजलोकस्य मुमोचाश्रूणि मानिनी ॥११॥तदश्रुबिन्दवो गात्रे यदा तस्य महीपतेः ।तदा वीक्ष्याश्रुवदनां तामपृच्छत मानिनीम् ॥१२॥निःशब्दमश्रुमोक्षेण रुदन्तीं तां विलोक्य वै ।किमेतदिति पप्रच्छ मानिनीं राज्यवर्धनः ॥१३॥पृष्टा सा तु ततस्तेन भर्त्रा प्राह मनस्विनी ।न किञ्चिदिति तां भूयः पप्रच्छ स महीपतिः ॥१४॥बहुशः पृच्छतस्तस्य भूभृतः सा सुमध्यमा ।(न किञ्चिदिति होवाच सा भूयो राज्यवर्धनम् ॥किमेतदिति पप्रच्छ मानिनीं पार्थिवः पुनः ।बहुशः प्रेरिता तेन सा भर्त्रा तत्र भामिनी ॥)दर्शयामास पलितं केशभारान्तरोद्भवम् ॥१५॥एतत्पश्येति भूपाल किमन्यन्मन्युकारणम् ।ममातिमन्दभाग्याया जहासाथ नृपस्ततः ॥१६॥स विहस्याह तां पत्नीं शृण्वतां सर्वभूभृताम् ।पौराणां च महीपाला ये तत्रासन्समावृताः ॥१७॥शोकेनालं विशालाक्षि रोदितव्यं न ते शुभे ।जन्मर्द्धिपरिणामाद्या विकाराः सर्वजन्तुषु ॥१८॥अधीताः सकला वेदा इष्टा यज्ञाः सहस्रशः ।दत्तं द्विजानां पुत्राश्च समुत्पन्ना वरानने ॥१९॥भुक्ता भोगस्त्वया सार्द्धं ये मर्त्यैरतिदुर्लभाः ।सभ्यञ्च पालिता पृथ्वी शौर्यं युद्धेष्वनुष्ठितम् ॥२०॥मित्रैः सहेष्टैर्हसितं विहृतं च वनान्तरे ।किमन्यत्र कृतं भद्रे पलितेभ्यो बिभेषि यत् ॥२१॥भवन्तु केशाः पलिता वलयः सन्तु मे शुभे ।शैथिल्यमेतु मे कायः कृतकृत्योऽस्मि मानिनि ॥२२॥मूर्ध्नि यद्दर्शितं भद्रे भवत्या पलितं मम ।चिकित्सामेव तस्याहं करोमि वनसंश्रयात् ॥२३॥बाल्ये बालक्रियापूर्वं तद्वत्कौमारके च या ।यौवने चापि या योग्या वार्द्धके वनसंश्रया ॥२४॥एवं मत्पूर्वजैर्भद्रे कृतं त्वत्पूर्वजैश्च यत् ।अतो न तेऽश्रुपातस्य किञ्चित्पश्यामि कारणम् ॥२५॥अलं ते मन्युना भद्रे नन्वभ्युदयकारि मे ।दर्शनं पलितस्यास्य मा रोदीर्निष्प्रयोजनम् ॥२६॥मार्कण्डेय उवाचततः प्रणम्य तं भूपाः पौराश्चैव समीपगाः ।साम्ना प्रोचुर्महीपाला महर्षे राज्यवर्धनम् ॥२७॥न रोदितव्यमनया तव पत्न्या नराधिप ।रोदितव्यमिहास्माभिरथवा सर्वजन्तुभिः ॥२८॥त्वं ब्रवीषि यथा नाथ वनवासाश्रितं वचः ।पतन्ति तेन नः प्राणा लालितानां त्वया नृप ॥२९॥सर्वे यास्यामहे भूप यदि याति भवान्वनम् ।ततोऽशेषक्रियाहानिः सर्वपृथ्वीनिवासिनाम् ॥३०॥भविष्यति न सन्देहस्त्वयि नाथ वनाश्रमे ।सा च धर्मोपघाताय यदि तत्प्रविमुच्यताम् ॥३१॥सप्त वर्षसहस्राणि त्वयेयं पालिता मही ।तत्समुत्थं महापुण्यमालोकय नराधिप ॥३२॥वने वसन्महाराज त्वं करिष्यसि यत्तपः ।तन्महीपालनस्यास्य कलां नार्हन्ति षोडशीम् ॥३३॥राजोवाचसप्त वर्षसहस्राणि मयेयं पालिता मही ।इदानीं वनवासस्य मम कालोऽयमागतः ॥३४॥ममापत्यानि जातानि दृष्ट्वा मेऽपत्यसन्ततीः ।स्वल्पैरेवमहोभिर्मे ह्यन्तको न सहिष्यति ॥३५॥यदेतत्पलितं मूर्ध्नि तद्विजानीत नागराः ।दूतभूतमनार्यस्य मृत्योरत्युग्रकर्मणः ॥३६॥सोऽहं राज्ये सुतं कृत्वा भोगांस्त्यक्त्वा वनाश्रयः ।तपस्तप्स्ये समायान्ति न यावद्यमसैनिकाः ॥३७॥मार्कण्डेय उवाचततो यियासुः स वनं दैवज्ञानवनीपतिः ।पुत्रराज्याऽभिषेकाय दिनलग्नान्यपृच्छत ॥३८॥श्रुत्वा च ते तु नृपतेर्वचो व्याकुलचेतसः ।दिनं लग्नं च होराश्च न विदुः शास्त्रदृष्टयः ॥३९॥ऊचुश्च तं महीपालं दैवज्ञा बाष्पगद्गदम् ।ज्ञानानि नः प्रणष्टानि श्रुत्वैतत्ते वचो नृप ॥४०॥ततोऽन्यनगरेभ्यश्च भृत्यै राष्ट्रेभ्य एव च ।ततस्तस्माच्च नगरात्प्राचुर्येणाभ्युपागमन् ॥४१॥समुत्पत्य महीपालं तं यियासुं मुने वनम् ।प्रकम्पिशिरसो भूत्वा प्रोचुर्ब्राह्मणसत्तमाः ॥४२॥प्रसीद पाहि नो राजन्पालिताः स्म यथा पुरा ।सीदिष्यत्यखिलो लोकस्त्वयि भूप वनाश्रये ॥४३॥त्वं कुरुष्व तथा राजन्यथा नो सीदते जगत् ।यावज्जीवामहे वीर स्वल्पकालमिमे वयम् ॥नेच्छामश्च भवच्छून्यं द्रष्टुं सिंहासनं विभो ॥४४॥मार्कण्डेय उवाचइत्येवं तैस्तथान्यैश्च द्विजैः पौरपुरःसरैः ।भूपैर्भृत्यैरमात्यैश्च राजा प्रोक्तः पुनः पुनः ॥४५॥वनवासविनिर्बन्धं नोपसंहरते यदा ।क्षमिष्यत्यन्तको नेति ददौ स च तदोत्तरम् ॥४६॥ततोऽमात्याश्च भूपाश्च पौरवृद्धास्तथा द्विजाः ।समेत्य मन्त्रयामासुः किमत्र क्रियतामिति ॥४७॥तेषां मन्त्रयतां विप्र निश्चयोऽयमजायत ।अनुरागवतां तत्र महीपालेऽतिधार्मिके ॥४८॥सम्यग्ध्यानपरा भूत्वा प्रार्थयामः समाहिताः ।तपसाराध्य भास्वन्तमायुरस्य महीपतेः ॥४९॥तत्रैकनिश्चयाः कार्ये केचिद्गेहे च भास्करम् ।सम्यगर्घोपचाराद्यैरुपहारैरपूजयन् ॥५०॥अपरे मौनिनो भूत्वा ऋग्जापेन तथापरे ।यजुषामथ साम्नां च तोषयाञ्चक्रिरे रविम् ॥५१॥अपरे च निराहारा नदीपुलिनशायिनः ।तपांसि चक्रुरिच्छंतो भास्कराराधनं द्विजाः ॥५२॥अग्निहोत्रपराश्चान्ये रविसूक्तान्यहर्निशम् ।जेपुस्तत्रापरे तस्थुर्भास्करे न्यस्तदृष्टयः ॥५३॥इत्येवमतिनिर्बन्धं भास्कराराधनं प्रति ।बहुप्रकारं चक्रुस्ते तं तं विधिमुपाश्रिताः ॥५४॥तथा तु यततां तेषां भास्कराराधनं प्रति ।सुदामा नाम गन्धर्व उपगम्येदमब्रवीत् ॥५५॥यद्याराधनमिष्टं वो भास्करस्य द्विजातयः ।तदेतत्क्रियतां येन भानुः प्रीतिमुपैष्यति ॥५६॥तस्माद्गुरुविशालाख्यं वनं सिद्धनिषेवितम् ।कामरूपे महाशैले गम्यतां तत्र वै लघु ॥५७॥तस्मिन्नाराधनं भानोः क्रियतां सुसमाहितैः ।सिद्धक्षेत्रं हितं तत्र सर्वकामानवाप्स्यथ ॥५८॥मार्कण्डेय उवाचइति ते तद्वचः श्रुत्वा गत्वा तत्काननं द्विजाः ।ददृशुर्भास्वतस्तत्र पुण्यमायतनं शुभम् ॥५९॥तत्र ते नियताहारा वर्णा विप्रादयो द्विज ।धूपपुष्पोपहाराढ्या पूजां चक्रुरतन्द्रिताः ॥६०॥पुष्पानुलेपनाद्यैश्च धूपगन्धादिकैस्तथा ।जपहोमान्नदानाद्यं पूजनं ते समाहिताः ॥कुर्वन्तस्तुष्टुवुर्ब्रह्मन्विवस्वन्तं द्विजातयः ॥६१॥ब्राह्मणा ऊचुःदेवदानवयक्षाणां ग्रहाणां ज्योतिषामपि ।तेजसाभ्यधिकं देवं व्रजाम शरणं रविम् ॥६२॥दिवि स्थितं च देवेशं द्योतयन्तं समन्ततः ।वसुधामन्तरिक्षं च व्याप्नुवन्तं मरीचिभिः ॥६३॥आदित्यं भास्करं भानुं सवितारं दिवाकरम् ।पूषाणमर्यमाणं च स्वर्भानुं दीप्तदीधितिम् ॥६४॥चतुर्युगान्तकालाग्निदुष्प्रेक्ष्यं प्रलयान्तगम् ।योगीश्वरमनन्तं च रक्तं पीतं सितासितम् ॥६५॥ऋषीणामग्निहोत्रेषु यज्ञदेवेष्ववस्थितम् ।व्रजाम शरणं देवं तेजोराशिं तमच्युतम् ॥अक्षरं परमं गुह्यं मोक्षद्वारमनुत्तमम् ॥६६॥छन्दोभिरश्वरूपैश्च सकृद्युक्तैर्विहङ्गमम् ।उदयास्तमने युक्तं सदा मेरोः प्रदक्षिणे ॥६७॥अनृतं च ऋतं चैव पुण्यतीर्थं पृथग्विधम् ।विश्वस्थितिचिन्त्यं च प्रपन्नाः स्म प्रभाकरम् ॥६८॥यो ब्रह्मा यो महादेवो यो विष्णुर्यः प्रजापतिः ।वायुराकाशमापश्च पृथिवीगिरिसागराः ॥६९॥ग्रहनक्षत्रचन्द्राद्या वानस्पत्यं द्रुमौषधम् ।व्यक्ताव्यक्तेषु भूतेषु धर्माधर्मप्रवर्त्तकः ॥७०॥ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः ।त्रिधा यस्य स्वरूपं तु भानोर्भास्वान्प्रसीदतु ॥७१॥यस्य सर्वमयस्येदमङ्गभूतं जगत्प्रभोः ।स नः प्रसीदतां भास्वाञ्जगतां यश्च जीवनम् ॥७२॥यस्यैकमक्षरं रूपं प्रभामण्डलदुर्दृशम् ।द्वितीयमैन्दवं सौम्यं स नो भास्वान्प्रसीदतु ॥७३॥ताभ्यां च तस्य रूपाभ्यामिदं विश्वं विनिर्मितम् ।अग्नीषोममयं भास्वान्स नो देवः प्रसीदतु ॥७४॥मार्कण्डेय उवाचइत्थं स्तुत्या तदा भक्त्या सम्यक्पूजाविधानतः ।तुतोष भगवान्भास्वांस्त्रिभिर्मासैर्द्विजोत्तम ॥७५॥ततः स मण्डलादुद्यन्निजबिम्बसमप्रभः ।अवतीर्य ददौ तेभ्यो दुर्दृशो दर्शनं रविः ॥७६॥ततस्ते स्पष्टरूपं तं सवितारमजं जनाः ।पुलकोत्कम्पिनो विप्रा भक्तिनम्राः प्रणेमिरे ॥७७॥नमो नमस्तेऽस्तु सहस्ररश्मे सर्वस्य हेतुस्त्वमशेषकेतुः ।पाता त्वमीड्योऽखिलयज्ञधामध्येयस्तथा योगविदां प्रसीद ॥७८॥इति श्रीमार्कण्डेयपुराणे भानुस्तवो नाम षडधिकशततमोऽध्यायः । १०६ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP