संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| एकपञ्चाशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - एकपञ्चाशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत एकपञ्चाशोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचदुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः ।जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात् ॥१॥तयोरपत्यान्यभवने जगद्व्यापीनि षोडश ।अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥२॥तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः ।अङ्गध्रुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥३॥गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः ।कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु ॥४॥नियोजिका वै प्रथमा तथैवान्या विरोधिनी ।स्वयंहारकरी चैव भ्रामणी ऋतुहारिका ॥५॥स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे ।विद्वेषण्यष्टमी नाम कन्या लोकभयावहा ॥६॥एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् ।अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम ॥७॥दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः ।करोति दन्तसंघर्षं चिकीर्षुर्दुः सहागमम् ॥८॥तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः ।शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि ॥९॥सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् ।उष्ट्रकण्टकखड्गास्थि-क्षौमवस्त्रविधारणात् ॥१०॥तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद् ब्रुवन् ।शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा ॥११॥तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा ।दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः ॥१२॥चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता ।अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन् ॥१३॥रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् ।परिवर्तकसंज्ञोऽयं तस्यापि सितसर्षपैः ॥१४॥रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् ।अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम् ॥१५॥शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् ।काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा ॥१६॥शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै ।तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च ॥१७॥शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः ।गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम ॥१८॥सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् ।विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज ॥१९॥गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः ।पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः ॥२०॥अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् ।गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः ॥२१॥तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् ।प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात् ॥२२॥विशुद्धगेहावसथादनायासाच्च वै द्विज ।तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः ॥२३॥तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् ।तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात् ॥२४॥बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् ।परदारपहद्रव्यहरणादिषु मानवान् ॥२५॥नियोजयति चैवान्यान् कन्या सा च नियोजिका ।तस्याः पवित्रपठनात् क्रोधलोभादिवर्जनात् ॥२६॥नियोजयति मामिष्टविरोधाच्च विवर्जनम् ।आक्रुष्टोऽन्येन मन्येत ताडितो वा नियोजिका ॥२७॥नियोजयत्येनमिति न गच्छेत्तद्वशं बुधः ।परदारादिसंसर्गे चित्तमात्मानमेव च ॥२८॥नियोजयत्यत्र सा मामिति प्राज्ञो विचिन्तयेत् ।विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः ॥२९॥बन्धूनां सुहृदां पित्रोः पुत्रैः सावर्णिकैश्च या ।विरोधिनी सा तद्रक्षां कुर्वोत बलिकर्मणा ॥३०॥तथातिवादसहनाच्छास्त्राचारनिषेवणात् ।धान्यं खलाद् गृहाद् गोभ्यः पयः सर्पिस्तथापरा ॥३१॥समृद्धिमृद्धिमद्द्रव्यादपहिन्ति च कन्यका ।सा स्वयंहारिकेत्युक्ता सदान्तर्धानतत्परा ॥३२॥महानसादर्धसिद्धमन्नागारस्थितं तथा ।परिविश्यमाणञ्च सदा सार्धं भुङ्क्ते च भुञ्जता ॥३३॥उच्छेषणं मनुष्याणां हरत्यन्नञ्च दुर्हरा ।कर्मान्तागारशालाभ्यः सिद्धर्धि हरति द्विज ॥३४॥गोस्त्रीस्तनेभ्यश्च पयः क्षीरहारी सदैव सा ।दध्नो घृतं तिलात्तैलं सुरागारात्तथा सुराम् ॥३५॥रागं कुसुम्भकादीनां कार्पासात् सूत्रमेव च ।सा स्वयंहारिका नाम हरत्यविरतं द्विज ॥३६॥कुर्याच्छिखण्डिनोर्द्वन्द्वं रक्षार्थं कुत्रिमां स्त्रियम् ।रक्षाश्चैव गृहे लेख्या वर्ज्याचो च्छिष्टता तथा ॥३७॥होमाग्निदेवताधूपभस्मना च परिष्क्रिया ।कार्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम् ॥३८॥उद्वेगं जनयत्यन्या एकस्थाननिवासिनः ।पुरुषस्य तु या प्रोक्ता भ्रामणी सा तु कन्यका ॥३९॥तस्याथ रक्षां कुर्वोत विक्षिप्तैः सितसर्षपैः ।आसने शयने चोर्व्यां यत्रास्ते स तु मानवः ॥४०॥चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना ।भ्रामयत्यसकृज्जप्यं भुवः सूक्तं समाधिना ॥४१॥स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ।तथाप्रवृत्तं सा ज्ञेया दौः सहा ऋतहारिका ॥४२॥कुर्वोत तीर्थदेवौकश्चैत्यपर्वतसानुषु ।नदीसङ्गमखातेषु स्त्रपनं तत्प्रशान्यते ॥४३॥मन्त्रवित् कृततत्त्वज्ञः पर्वसूषसि च द्विज ।चिकित्साज्ञश्च वै वैद्यः संप्रयुक्तैर्वरौषधैः ॥४४॥स्मृतिञ्चापहरत्यन्या स्त्रीणां सा स्मृतिहारिका ।विविक्तदेशसेवित्वात्तस्याश्चोपशमो भवेत् ॥४५॥बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा ।मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत ॥४६॥अष्टमी द्वेषणी नाम कन्या लोकभयावहा ।या करोति जनद्विष्टं नरं नारीमथापि वा ॥४७॥मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् ।कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत् प्रशान्यते ॥४८॥एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम ।अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु ॥४९॥दन्ताकृष्टेरभूत् कन्या विजल्पा कलहा तथा ।अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये ॥५०॥तामेव चिन्तयेत् प्राज्ञः प्रयतश्च गृही भवेत् ।कलहा कलहं गेहे करोत्यविरतं नृणाम् ॥५१॥कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय ।दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि ॥५२॥विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् ।भूतानां मातृभिः सार्धं बालकानान्तु शान्तये ॥५३॥विद्यानां तपसाञ्चैव संयमस्य यमस्य च ।कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा ॥५४॥पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः ।कुष्माण्डा यातुधानाश्च ये चान्ये गणसंज्ञिताः ॥५५॥महादेवप्रसादेन महेश्वरमतेन च ।सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते ॥५६॥तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् ।महापताकजं सर्वं यच्चान्यद्विघ्नकारणम् ॥५७॥तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः ।उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि ॥५८॥पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च ।जपयज्ञविधानेषु यात्रासु च चतुर्दश ॥५९॥शरीरारोग्यभोग्येषु सुखदानधनेषु च ।वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा ॥६०॥सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ ।तथोक्तेः कालजिह्वोऽभूत् पुत्रस्तालनिकेतनः ॥६१॥स येषां रसनासंस्थास्तानसाधून् विबाधते ।परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज ॥६२॥तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ ।गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु ॥६३॥क्रौष्टुके परिवर्तःस्यात् गर्भस्यान्योदरात्ततः ।न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम् ॥६४॥परिखां वा समाक्रामेदबला गर्भधारिणी ।अङ्गध्रुक् तनयं लेभे पिशुनं नाम नामतः ॥६५॥सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् ।श्येन-काक-कपोतांश्च गृध्रोलूकैश्च वै सुतान् ॥६६॥अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ।श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान् ॥६७॥उलूकं निरृतिश्चैव जग्राहातिभयावहम् ।गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः ॥६८॥एतेषामेव चैवोक्ता भूताः पापोपपादने ।तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ ॥६९॥तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम ।गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम् ॥७०॥नरस्तं वर्जयेद् गेहं कपोताक्रान्तमस्तकम् ।श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज ॥७१॥प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि ।ईदृक् परित्यजेद् गेहं शान्तिं कुर्याच्च पण्डितः ॥७२॥स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ।षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा ॥७३॥स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु ।चत्वार्यहानि पूर्वाणि तथैवान्यत् त्रयोदश ॥७४॥एकादश तथैवान्यदपत्यं तस्य वै दिने ।अन्यद्दिनाभिगमने श्राद्धदाने तथापरे ॥७५॥पर्वस्वथान्यत् तस्मात्तु वर्ज्यान्येतानि पण्डितैः ।गर्भहन्तुः सुतो निघ्नो मोहनी चापि कन्यका ॥७६॥प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ।जायन्ते मोहनात्तस्याः सर्पमण्डूककच्छपाः ॥७७॥सरीसृपाणि चान्यानि पुरीषमथवा पुनः ।षण्मासान् गुर्विणीं मांसमश्नुवानामसंयताम् ॥७८॥वृक्षच्छायाश्रयां रात्रावथवा त्रिचतुष्पथे ।श्मशानकटभूमिष्ठामुत्तरीयविवर्जिताम् ॥७९॥रुदमानां निशीथेऽथ आविशेत्तामसौ स्त्रियम् ।शस्यहन्तुस्तथैवैकः क्षुद्रको नाम नामतः ॥८०॥शस्यर्धिं स सदा हन्ति लब्ध्वा रन्ध्रं शृणुष्व तत् ।अमङ्गल्यदिनारम्भे अतृप्तो वपते च यः ॥८१॥क्षेत्रेष्वनुप्रवेशं वै करोत्यन्तोपसङ्गिषु ।तस्मात् कल्पः सुप्रशस्ते दिनेऽभ्यर्च्य निशाकरम् ॥८२॥कुर्यादारम्भमुप्तिञ्च हृष्टस्तुष्टः सहायवान् ।नियोजिकेति या कन्या दुः सहस्य मयोदिता॥ ८३॥जातं प्रचोदिकासंज्ञं तस्याः कन्याचतुष्टयम् ।मत्तोन्मत्तप्रमत्तास्तु नरान् नारीस्तु ताः सदा ॥८४॥समाविशन्ति नाशाय चोदयन्तीह दारुणम् ।अधर्मं धर्मरूपेण कामञ्चाकामरूपिणम् ॥८५॥अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् ।दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान् ॥८६॥भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात् पृथङ्नराः ।तासां प्रवेशश्च गृहे संध्यारक्ते ह्यथाम्बरे ॥८७॥धाताविधात्रोश्च बलिर्यत्र काले न दीयते ।भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः ॥८८॥नवनारीषु संक्रान्तिस्तासामाश्वभिजायते ।विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा ॥८९॥तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे ।प्रदीपदैलसंसर्गदूषिते लङ्घिते खले ॥९०॥मुषलोलूखले यत्र पादुके वासने स्त्रियः ।शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम् ॥९१॥यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृहे।दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते ॥९२॥विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः ।एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान् ॥९३॥चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे ।अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः ॥९४॥करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः ।आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः ॥९५॥क्रोधं जनयते यस्तु तमः प्रच्छादकस्तु सः ।स्वयंहार्यास्तु चौर्येण जनितन्तनयत्रयम् ॥९६॥सर्वहार्यर्धहारी च वीर्यहारी तथैव च ।अनाचान्तगृहेष्वेते मन्दाचारगृहेषु च ॥९७॥अप्रक्षालितपादेषु प्रविशत्सु महानसम् ।खलेषु गोष्ठेषु च वै द्रोहो येषु गृहेषु वै ॥९८॥तेषु सर्वे यथान्यायं विहरन्ति रमन्ति च ।भ्रामण्यास्तनयस्त्वेकः काकजङ्घ इति स्मृतः ॥९९॥तेनाविष्टो रतिं सर्वो नैव प्राप्नोति वै पुरे ।भुञ्जन् यो गायते मैत्रे गायते हसते च यः ॥१००॥सन्ध्यामैथुनिनञ्चैव नरमाविशति द्विज ।कन्यात्रयं प्रसूता सा या कन्या ऋतुहारिणी ॥१०१॥एका कुचहरा कन्या अन्या व्यञ्जनहारिका ।तृतीया तु समाख्याता कन्यका जातहारिणी ॥१०२॥यस्या न क्रियते सर्वः सम्यग् वैवाहिको विधिः ।कालातीतोऽथवा तस्या हरत्येका कुचद्वयम् ॥१०३॥सम्यक् श्राद्धमदत्त्वा च तथानर्च्य च मातरम् ।विवाहितायाः कन्याया हरति व्यञ्जनं तथा ॥१०४॥अग्न्यम्बुशून्ये च तथा विधूपे सूतिकागृहे ।अदीपशस्त्रमुसले भूतिसर्षपवर्जिते ॥१०५॥अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् ।क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज ॥१०६॥सा जातहारिणी नाम सुघोरा पिशिताशना ।तस्मात् संरक्षणं कार्यं यत्नतः सूतिकागृहे ॥१०७॥स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् ।अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः ॥१०८॥पौत्रेभ्यस्तस्य संभूता लीकाः शतसहस्रशः ।चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः ॥१०९॥क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः ।अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम् ॥११०॥प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः ।समये स्थापयामास यादृशे तादृशं शृणु ॥१११॥अद्यप्रभृति लीकानामावासं यो हि दास्यति ।दण्डं तस्याहमतुलं पातयिष्ये न संशयः ॥११२॥चण्डालयोन्योऽवसथे लीका या प्रसविष्यति ।तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति ॥११३॥प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी ।वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते ॥११४॥वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् ।स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा ॥११५॥तथैव गच्छतः सद्यो निर्बोजत्वमरूपया ।अस्नाताशी नरो यो वै तथैव पिशिताशनः ॥११६॥विद्वेषिणी तु या कन्या भृकुटीकुटिलानना ।तस्या द्वौ तनयौ पुंसामपकारप्रकाशकौ ॥११७॥निर्बोजत्वं नरो याति नारी वा शौचवर्जिता ।पैशुन्याभिरतं लोलमसज्जननिषेवणम् ॥११८॥पुरुषद्वेषिणञ्चैतौ नारमाक्रम्य तिष्ठतः ।मात्रा भ्रात्रा तथा मित्रैरभीष्टैः स्वजनैः परैः ॥११९॥विद्विष्टो नाशमायाति पुरुषो धर्मतोर्ऽथतः ।एकस्तु स्वगुणांल्लोके प्रकाशयति पापकृत् ॥१२०॥द्वितीयस्तु गुणान् मैत्रीं लोकस्थामपकर्षति ।इत्येते दौः सहाः सर्वे यक्ष्मणः सन्ततावथ ।पापाचाराः समाख्याता यैर्व्याप्तमखिलं जगत् ॥१२१॥इति श्रीमार्कण्डेयपुराणे दुः सहोत्पतिसमापनं नामैकपञ्चाशौऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP