मार्कण्डेयपुराणम् - चतुस्त्रिंशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
मदालसोवाच
एवं पुत्र ! गृहस्थेन देवताः पितरस्तथा ।
संपूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥१॥
भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।
भिक्षवो याचमानाश्च ये चान्ये वसता गृहे ॥२॥
सदाचारवता तात ! साधुना गृहमेधिना ।
पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥३॥
अलर्क उवाच
कथितं मे त्वया मातर्नित्य नैमित्तिकञ्च यत् ।
नित्यनैमित्तिकञ्चैव त्रिविधं कर्म पौरुषम् ॥४॥
सदाचारमहं श्रोतुमिच्छामि कुलनन्दिनि ।
यत् कुर्वन् सुखमाप्रोति परत्रेह च मानवः ॥५॥
मदालसोवाच
गृहस्थेन सदा कार्यमाचारपरिपालनम् ।
न ह्याचारविहीनस्य सुखमत्र परत्र वा ॥६॥
यज्ञदानतपांसीह पुरुषस्य च भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥७॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥८॥
तस्य स्वरूपं वक्ष्यामि सदाचारस्य पुत्रक ।
तन्ममैकमनाः श्रुत्वा तथैव परिपालय ॥९॥
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।
तत्संसिद्धो गृहस्थस्य सिद्धिरत्र परत्र च ॥१०॥
पादेनार्थस्य पारत्र्यं कुर्यात् सञ्चयमात्मवान् ।
अर्धेन चात्मभरणन्नित्यनैमित्तिकान्वितम् ॥११॥
पादञ्चात्मार्थमायस्य मूलभूतं विवर्धयेत् ।
एवमाचरतः पुत्र ! अर्थः साफल्यमर्हति ॥१२॥
तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।
परत्रार्थं तथैवान्यः काम्योऽत्रैव फलप्रदः ॥१३॥
प्रत्यवायभयात् काम्यस्तथान्यश्चाविरोधवान् ।
द्विधा कामोऽपि गदितस्त्रिवर्गस्याविरोधतः ॥१४॥
परम्परानुबन्धांश्च धर्मादींस्तान् शृणुष्व मे ॥१५॥
धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थबाधकः ।
उभाभ्याञ्च द्विधा कामस्तेन तौ च द्विधा पुनः ॥१६॥
बाह्मे मुहूर्ते बुध्येत धर्मार्थौ चापि चिन्तयेत् ।
समुत्थाय तथाचम्य प्राङ्मुखो नियतः शुचिः ॥१७॥
पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।
उपासीत यथान्यायं नैनां जह्यादनापदि ॥१८॥
असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्जयेत् ।
असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्रक ! ॥१९॥
सायं प्रापतस्तथा होमं कुर्वोत नियतात्मवान् ।
नोदयास्तमने बिम्बमुदीक्षेत विवस्वतः ॥२०॥
केशप्रसाधनादर्शदर्शनं दन्तधावनम् ।
पूर्वाह्न एव कार्याणि देवतानाञ्च तर्पणम् ॥२१॥
ग्रामावसथतीर्थानां क्षेत्राणाञ्चैव वर्त्मनि ।
विण्मूत्रं नानुतिष्ठेत न कृष्टे न च गोव्रजे ॥२२॥
नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः सकृत् ।
उदक्या दर्शनां स्पर्शो वर्ज्यं सम्भाषणन्तथा ॥२३॥
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।
नाधितिष्ठेच्छकृन्मूत्रकेशभस्मकपालिकाः ॥२४॥
तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च ।
नाधितिष्ठेत्तथा प्राज्ञः पथि चैवन्तथा भुवि ॥२५॥
पितृदेवमनुष्याणां भूतानाञ्च तथार्च्चनम् ।
कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुमर्हति ॥२६॥
प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः ।
भुञ्जीतान्नञ्च तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥२७॥
उपगातादृते दोषं नान्यस्योदीरयेद् बुधः ।
प्रत्यक्षलवणं वर्ज्यमन्नमत्युष्णमेव च ॥२८॥
न गच्छन्न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् ।
कुर्वोत नैव चाचामन् यत् किञ्चिदपि भक्षयेत् ॥२९॥
उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायञ्च विवर्जयेत् ।
गां ब्राह्मणं तथा चाग्निं स्वमूर्धानञ्च न स्पृशेत् ॥३०॥
न च पश्येद्रविं नेन्दुं न नक्षत्राणि कामतः ।
भिन्नासनं तथा शय्यां भाजनञ्च विवर्जयेत् ॥३१॥
गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ।
अनुकूलं तथालापमभिवादनपूर्वकम् ॥३२॥
तथानुगमनं कुर्यात् प्रतिकूलं न संजयेत् ।
नैकवस्त्रश्च भुञ्जीत न कुर्याद्देवतार्चनम् ॥३३॥
न वाहयेद् द्विजान्नाग्नौ मेहं कुर्वोत् बुद्धिमान् ।
स्नायीत न नरो नग्नो न शयीत कदाचन ॥३४॥
न पाणिभ्यामुभाभ्याञ्च कण्डूयेत शिरस्तथा ।
न चाभीक्ष्णं शिरः स्त्रानं कार्यं निष्कारणं नरैः ॥३५॥
शिरः स्त्रातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् ।
अनध्यायेषु सर्वेषु स्वाध्यायञ्च विवर्जयेत् ॥३६॥
ब्राह्मणानिलगोसूर्यान् न मेहेत कदाचन ।
उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः ॥३७॥
आबाधाषु यथाकामं कुर्यान्मूत्रपुरीषयोः ।
दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ॥३८॥
परिवादं न शृणुयादन्येषामपि कुर्वताम् ।
पन्था देयो ब्राह्मणानां राज्ञो दुः खातुरस्य च ॥३९॥
विद्याधिकस्य गुर्विण्या भारार्तस्य यवीयसः ।
मूकान्धबधिराणाञ्च मत्तस्योन्मत्तकस्य च ॥४०॥
पुंश्चल्याः कृतवैरस्य बालस्य पतितस्य च ।
देवालकं चैत्यतरुं तथैव च चतुष्पथम् ॥४१॥
विद्याधिकं गुरुं देवं बुधः कुर्यात् प्रदक्षिणम् ।
उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥४२॥
उपवीतमलङ्कारं करकञ्चैव वर्जयेत् ।
चतुर्दश्यान्तथाष्टम्यां पञ्चदश्याञ्च पर्वसु ॥४३॥
तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ।
न क्षिप्तपादजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन ॥४४॥
न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ।
मर्माभिघातमाक्रोशं पैशुन्यञ्च विवर्जयेत् ॥४५॥
दम्भाभिमानतीक्ष्णानि न कुर्वोत विचक्षणः ।
मूर्खोन्मत्तव्यसनिनो विरूपान्मायिनस्तथा ॥४६॥
न्यूनाङ्गांश्चाधिकाङ्गांश्च नोपहासैर्विदूषयेत् ।
परस्य दण्डं नोद्यच्छेच्छिक्षार्थं पुत्रशिष्ययोः ॥४७॥
तद्वन्नोपविशेत् प्राज्ञः पादेनाक्रम्य चासनम् ।
संयावं कृषरं मांसं नात्मार्थमुपसाधयेत् ॥४८॥
सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् ।
प्राङ्मुखोदङ्मुको वापि वाग्यतो दन्तधावनम् ॥४९॥
कुर्वोत सततं वत्स ! वर्जयेद्वर्ज्यवीरुधः ।
नोदक्शिराः स्वपेज्जातु न चप्रत्यक्शिरा नरः ॥५०॥
शिरस्यगस्त्यमास्थाय शयीताथ पुरन्दरम् ।
न तु गन्धवतीष्वप्सु स्नायीत न तथा निशि ॥५१॥
उपरागे परं स्नानमृते दिनमुदाहृतम् ।
अपमृज्यान्न चास्नातो गात्राण्यम्बरपाणिभिः ॥५२॥
न चापि धूनयेत् केशान् वाससी न च धूनयेत् ।
नानुलेपनमादद्यादस्नातः कर्हिचिद् बुधः ॥५३॥
न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा ।
न च कुर्याद्विपर्यासं वाससोर्नापि भूषणे ॥५४॥
वर्ज्यञ्च विदशं वस्त्रमत्यन्तोपहतञ्च यत् ।
केशकीटावपन्नञ्च क्षुण्णं श्वभिरवेक्षितम् ॥५५॥
अवलीढावपन्नञ्च सारोद्धरणदूषितम् ।
पृष्ठमांसं वृथामांसं वर्ज्यमांसञ्च पुत्रक ! ॥५६॥
न भक्षयीत सततं प्रत्यक्षलवणानि च ।
वर्ज्यं चिरोषितं पुत्र ! भक्तं पर्युषितञ्च यत् ॥५७॥
पिष्टशाकेक्षुपयसां विकारान्नृपनन्दन! ।
तथा मांसविकारांश्च ते च वर्ज्याश्चिरोषिताः ॥५८॥
उदयास्तमने भानोः शयनञ्च विवर्जयेत् ।
नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥५९॥
न चैव शयने नोर्व्यामुपविष्टो न शब्दवत् ।
न चैकवस्त्रो न वदन् प्रेक्षतामप्रदाय च ॥६०॥
भुञ्जीत पुरुषः स्नातः सायं प्रातर्यथाविधि ।
परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥६१॥
इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।
न हीदृशमनायुष्यं लोके किञ्चन विद्यते ॥६२॥
यादृशं पुरुषस्येह परदाराभिमर्षणम् ।
देवार्चनाग्निकार्याण तथा गुर्वभिवादनम् ॥६३॥
कुर्वोत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् ।
अफेनाभिरगन्धाभिरद्भरच्छाभिरादरात् ॥६४॥
आचामेत् पुत्र ! पुण्याभिः प्राङ्मुखोदङ्मुखोऽपि वा ।
अन्तर्जलादावसथाद्वल्मीकान्मूषिकस्थलात् ॥६५॥
कृतशौचावशिष्टाश्च वर्जयेत् पञ्च वै मृदः ।
प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥६६॥
अन्तर्जानुस्तथाऽचामेत् त्रिश्चतुर्वा पिबेदपः ।
परिमृज्य द्विरास्यान्तं खानि मूर्धानमेव च ॥६७॥
सम्यगाचम्य तोयेन क्रियां कुर्वोत वै शुचिः ।
देवतानामृषीणाञ्च पितॄणाञ्चैव यत्नतः ॥६८॥
समाहितमना भूत्वा कुर्वोत सततं नरः ।
क्षुत्त्वा निष्ठीव्य वासश्च परिधायाचमेद् बुधः ॥६९॥
क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु ।
कुर्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ॥७०॥
कुर्वोतालम्बनं चापि दक्षिणश्रवणस्य वै ।
यथाविभवतो ह्येतत् पूर्वाभावे ततः परम् ॥७१॥
अविद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते ।
न कुर्याद् दन्तसङ्घर्षं नात्मनो देहताडनम् ॥७२॥
स्वप्नाध्ययनभोज्यानि सन्ध्ययोश्च विवर्जयेत् ।
सन्ध्यायां मैथुनञ्चापि तथा प्रस्थानमेव च ॥७३॥
पूर्वाह्ने तात ! देवानां मनुष्याणाञ्च मध्यमे ।
भक्त्या तथापराह्ने च कुर्वोत पितृपूजनम् ॥७४॥
शिरः स्नातश्च कुर्वोत दैवं पैत्र्यमथापि वा ।
प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥७५॥
व्यङ्गिनीं वर्जयेत् कन्यां कुलजामपि रोगिणीम् ।
विकृतां पिङ्गलाञ्चैव वाचाटां सर्वदूषिताम् ॥७६॥
अव्यङ्गीं सौम्यनासाञ्च स्रवलक्षणलक्षिताम् ।
तादृशीमुद्वहेत् कन्यां श्रेयः कामो नरः सदा ॥७७॥
उद्वहेत् पितृमात्रोश्च सप्तमीं पञ्चमीन्तथा ।
रक्षेद्दारान् त्यजेदीर्ष्यां दिवा च स्वप्नमैथुने ॥७८॥
परोपतापकं कर्म जन्तुपीडाञ्च वर्जयेत् ।
उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् ॥७९॥
स्त्रीजन्मपरिहारार्थं पञ्चमीमपि वर्जयेत् ।
ततः षष्ठ्यां व्रजेद्रात्र्यां श्रेष्ठा युगमासु पुत्रक ॥८०॥
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थो संविशेत सदा नरः ॥८१॥
विधर्मिणोऽह्नि पूर्वाख्ये सन्ध्याकाले च षण्डकाः ।
क्षुरकर्मणि वान्ते च स्त्रीसम्भोगे च पुत्रक ॥८२॥
स्नायीत चेलवान् प्राज्ञः कटभूमिमुपेत्य च ।
देववेदद्विजातीनां साधुसत्यमहात्मनाम् ॥८३॥
गुरोः पतिव्रतानाञ्च तया यज्वितपस्विनाम् ।
परिवादं न कुर्वोत परिहासञ्च पुत्रक ॥८४॥
कुर्वतामविनीतानां न श्रोतव्यं कथञ्चन ।
नोत्कृष्टशय्यासनयोर्नापकृष्टस्य चारुहेत् ॥८५॥
न चामङ्गल्यवेशः स्यान्न चामङ्गल्यवाग्भवेत् ।
धवलाम्भरसंवीतः सितपुष्पविभूषितः ॥८६॥
नोद्धूतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ।
गच्छेन्मैत्रीं न चाशीलैर्न च चौर्यादिदूषितैः ॥८७॥
न चातिव्ययशीलैश्च न लुब्धैर्नापि वैरिभिः ।
न बन्धकीभिर्न न्यूनैर्बन्धकीपतिभिस्तथा ॥८८॥
सार्धं न बलिभिः कुर्यान्न च न्यूनैर्न निन्दितैः ।
न सर्वशङ्किभिर्नित्यं न च दैवपरैर्नरैः ॥८९॥
कुर्वोत साधुभिर्मैत्रीं सदाचारावलम्बिभिः ।
प्राज्ञैरपिशुनैः शक्तैः कर्मण्युद्योगभागिभिः ॥९०॥
सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह ।
ऋत्विगादीन् षडर्घार्हानर्चयेच्च गृहागतान् ॥९१॥
यथाविभवतः पुत्र ! द्विजान् संवत्सरोषितान् ।
अर्चयेन्मधुपर्केण यथाकालमतन्द्रितः ॥९२॥
तिष्ठेच्च शासने तेषां श्रेयस्कामो द्विजोत्तमः ।
न च तान् विवदेद्वीमानाक्रुष्टश्चापि तैः सदा ॥९३॥
सम्यग्गृहार्चनं कृत्वा यथास्थानमनुक्रमात् ।
संपूजयेत्ततो वह्निं दद्याच्चैवाहुतीः क्रमात् ॥९४॥
प्रथमां ब्रह्मणे दद्यात् प्रजानांपतये ततः ।
तृतीयाञ्चैव गुह्येभ्यः कश्यपाय तथापराम् ॥९५॥
ततोऽनुमतये दत्त्वा दद्याद् गृहबलिन्ततः ।
पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ ॥९६॥
वैश्वदेवन्ततः कुर्याद्धलयस्तत्र मे शृणु ।
यथास्थानविभागन्तु देवानुद्दिश्य वै पृथके ॥९७॥
पर्जन्याय धरित्रीणां दद्याच्च माणके त्रयम् ।
वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादितः क्रमात् ॥९८॥
ब्रह्मणे चान्तरीक्षाय सूर्याय च यथाक्रमम ।
विश्वेभ्यश्चैव देवेभ्यो विश्वबूतभ्य एव च ॥९९॥
उषसे भूतपतये दद्याच्चोत्तरतस्ततः ।
स्वधा नम इतीत्युक्त्वा पितृभ्यश्चापि दक्षिणे ॥१००॥
कृत्वापसव्यं वायव्यां यक्ष्मैतत्तेति भाजनात् ।
अन्नावशेषमिच्छन् वै तोयं दद्याद्यथाविधि ॥१०१॥
ततोऽन्नाग्रं समुद्धृत्य हन्तकारोपकल्पनम् ।
यथाविधि यथान्यायं ब्राह्मणायोपपादयेत् ॥१०२॥
कुर्यात् कर्माणि तीर्थेन स्वेन स्वेन यथाविधि ।
देवादीनान्तथा कुर्याद् ब्राह्मेणाचमनक्रियाम् ॥१०३॥
अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य तु ।
एतद् ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥१०४॥
तर्जन्यङ्गुष्ठयोरन्तः पैत्र्यं तीर्थमुदाहृतम् ।
पितॄणां तेन तोयादि दद्यान्नान्दीमुखादृते ॥१०५॥
अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।
तीर्थ कनिष्ठिकामूले कायं तेन प्रजापतेः ॥१०६॥
एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह ।
सदा कार्याणि कुर्वोत नान्यतीर्थेन कर्हिचित् ॥१०७॥
ब्राह्मेणाचमनं शस्तं पित्र्यं पैत्र्येण सर्वदा ।
देवतीर्थेन देवानां प्राजापत्यं निजेन च ॥१०८॥
नान्दीमुखानां कुर्वोत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच्च किञ्चित् प्रजापतेः ॥१०९॥
युगपज्जलमग्निञ्च बिभृयान्न विचक्षणः ।
गुरुदेवान् प्रति तथा न च पादौ प्रसारयेत् ॥११०॥
नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ।
शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः ॥१११॥
न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ।
तत्र पुत्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ॥११२॥
ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ।
जितामित्रो नृपो यत्र बलवान् धर्मतत्परः ॥११३॥
तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ।
यत्राप्रधृष्यो नृपतिर्यत्र शस्यवती मही ॥११४॥
पौराः सुसंयता यत्र सततं न्यायवर्तिनः ।
यत्रामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥११५॥
यस्मिन् कृषीबला राष्ट्रे प्रायशो नातिभोगिनः ।
यत्रौषधन्यशेषाणि वसेत्तत्र विचक्षणः ॥११६॥
तत्र पुत्र न ! वस्तव्यं यत्रैतत् त्रितयं सदा ।
जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥११७॥
वसेन्नित्यं सुशीलेषु सहवासिषु पण्डितः ।
इत्येतत् कथितं पुत्र ! मया ते हितकाम्यया ॥११८॥
इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने सदाचारकथनं नाम चतुस्त्रिंशोऽध्यायः
N/A
References : N/A
Last Updated : March 21, 2023
TOP