मार्कण्डेयपुराणम् - अष्टाविंशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
जड उवाच
दत्तात्रेयं ततो विप्रं प्रणिपत्य स पार्थिवः ।
प्रत्युवाच महात्मानं प्रश्रयावनतो वचः ॥१॥
सम्यक् प्रपश्यतो ब्रह्मन् ! मम दुः खं न किञ्चन ।
असम्यग्दर्शिना मग्नाः सर्वदैवासुखार्णवे ॥२॥
यस्मिन् यस्मिन्ममासक्ता बुद्धिः पुंसः प्रजायते ।
ततस्ततः समादाय दुः खान्येव प्रयच्छति ॥३॥
मार्जारभक्षिते दुः खं यादृशं गृहकुक्कुटे ।
न तादृङ्ममताशून्ये कलविङ्केऽथ मूषिके ॥४॥
सोऽहं न दुः खी न सुखी यतोऽहं प्रकृतेः परः ।
यो भूताभिभवो भूतैः सुखदुः खात्मको हि सः ॥५॥
दत्तात्रेय उवाच
एवमेतन्नरव्याघ्र ! यथैतद्व्याहृतं त्वया ।
ममेति मूलं दुः कस्य न ममेति च निर्वृतेः ॥६॥
मत्प्रश्नादेव ते ज्ञानमुत्पन्नमिदमुत्तमम् ।
ममेति प्रत्ययो येन क्षिप्तः शाल्मलितूलवत् ॥७॥
अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान् महान् ।
गृहक्षेत्रोच्चशाखश्च पुत्रदारादिपल्लवः ॥८॥
धनधान्यमहापत्रो नैककालप्रवर्धितः ।
पुण्यापुण्याग्रपुष्पश्च सुखदुः खमहाफलः ॥९॥
तत्र मुक्तिपथव्यापि मूढसम्पर्कसेचनः ।
विधित्साभृङ्गमालाढ्यो कृत्यज्ञानमहातरुः ॥१०॥
संसाराध्वपरिश्रान्ता ये तच्छायां समाश्रिताः ।
भ्रान्तिज्ञानसुखाधीनास्तेषामात्यन्तिकं कुतः ॥११॥
यैस्तु सत्सङ्गपाषाणशितेन ममतातरुः ।
छिन्नो विद्याकुठारेण ते गतास्तेन वर्त्मना ॥१२॥
प्राप्य ब्रह्मवनं शीतं नीरजस्कमकण्टकम् ।
प्राप्नुवन्ति परां प्राज्ञा निर्वृतिं वृत्तिवर्जिताः ॥१३॥
भूतेन्द्रियमयं स्थूलं न त्वं राजन्न चाप्यहम् ।
न तन्मात्रमयावावां नैवान्तः करणात्मकौ ॥१४॥
कं वा पश्यामि राजेन्द्र ! प्रधानमिदमावयोः ।
यतः परो हि क्षेत्रज्ञः सङ्घातो हि गुणात्मकः ॥१५॥
मशकोडुम्बरेषीकामुञ्जमत्स्याम्भसां यथा ।
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनोर्नृप ! ॥१६॥
अलर्क उवाच
भगवंस्त्वत्प्रसादेन ममाविर्भूतमुत्तमम् ।
ज्ञानं प्रधानचिच्छक्ति-विवेककरमीदृशम् ॥१७॥
किन्त्वत्र विषयाक्रान्ते स्थैर्यवत्त्वं न चेतसि ।
न चापि वेद्मि मुच्येयं कथं प्रकृतिबन्धनात् ॥१८॥
कथं न भूयां भूयश्च कथं निर्गुणतामियाम् ।
कथञ्च ब्रह्मणैकत्वं व्रजेयं शाश्वतेन वै ॥१९॥
तन्मे योगन्तथा ब्रह्मन् ! प्रणतायाभियाचते ।
सम्यग् ब्रूहि महाप्राज्ञ ! सत्सङ्गो ह्युपकृन्नृणाम् ॥२०॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे प्रश्नाध्यायो नामाष्टत्रिंशोऽध्यायः
N/A
References : N/A
Last Updated : March 23, 2023
TOP