संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुः सप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुः सप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुः सप्ततितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचराजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः ॥१॥तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज ॥२॥तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा ॥३॥स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम् ॥४॥तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा ॥५॥राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।तपस्तेपे महाभागे वितस्तापुलिने स्थितः ॥६॥ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रंकषाशिकः ।जलशायी च शिशिरे निराहारो यतव्रतः ॥७॥ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम् ॥८॥न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत् ॥९॥ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः ॥१०॥अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।आससाद जले रौहीं स पुच्छे जगृहे च ताम् ॥११॥तेन प्लवेन स ययावूह्यमानो महीतले ।इतश्चेतश्चान्धकारे आससाद तटन्ततः ॥१२॥विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः ॥१३॥तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ ॥१४॥तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः ॥१५॥विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह ॥१६॥किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः ॥१७॥नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे ॥१८॥मार्कण्डेय उवाचइति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।जातकौतूहलो रौहीमिदं वचनमब्रवीत् ॥१९॥का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम ॥२०॥मृग्युवाचअहन्ते दयिता भूप ! प्रागासमुत्पलावती ।भार्या शताग्रमहिषी दुहिता दृढधन्वनः ॥२१॥राजोवाचकिन्तु यावत् कृतं कर्म येनेमां योनिमागता ।पतिव्रता धर्मपरा सा चेत्थं कथमीदृशी ॥२२॥मृग्युवाचअहं पितृगृहे बाला सखीभिः सहिता वनम् ।रन्तुं गता ददर्शैकं मृगं मृग्या समागतम् ॥२३॥ततः समीपवर्तिन्या मया सा ताडिता मृगी ।मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः ॥२४॥मूढे किमेवं मत्तासि धिक्ते दौःशील्यमीदृशम् ।आधानकालो येनायं त्वया मे विफलीकृतः ॥२५॥वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः ॥२६॥ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम् ॥२७॥इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते ॥२८॥मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।प्रसादं कुरु शापं मे न भवान् दातुमर्हति ॥२९॥इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे ॥३०॥मया चोक्तं मृगी नाहं मृगरूपधरा वने ।लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम् ॥३१॥इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि ॥३२॥ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः ॥३३॥बालानभिज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम् ॥३४॥सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।सापराधाथवा पादौ प्रसीदेश नमाम्यहम् ॥३५॥प्रसीदेति प्रसीदेति प्रणताया महामते ।इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः ॥३६॥न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि ॥३७॥मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि ॥३८॥जातिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि ॥३९॥तस्मिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः ॥४०॥सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।जित्वा वसुन्धरां कृत्स्त्रां भविष्यति ततो मनुः ॥४१॥एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम ॥४२॥अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ ॥४३॥मार्कण्डेय उवाचएवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः ॥४४॥ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम् ॥४५॥विशेषतश्च राजासौ पुत्रे जाते महाबले ।सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान् ॥४६॥ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः ॥४७॥तामसीं भजमानायां योनिं मातर्यजायत ।तमसा चावृते लोके तामसोऽयं भविष्यति ॥४८॥ततः स तामसस्तेन पित्रा संवर्धितो वने ।जातबुद्धिरुवाचेदं पितरं मुनिसत्तम ॥४९॥कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे ॥५०॥मार्कण्डेय उवाचततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः ॥५१॥श्रुत्वा तत् सकलं सोऽपि समाराध्य च भास्करम् ।अवाप दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ॥५२॥कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः ॥५३॥पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम् ॥५४॥जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु ॥५५॥ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥५६॥सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।एते देवगणास्तत्र सप्तविंशतिका मुने ॥५७॥महाबलो महावीर्यः शतयज्ञोपलक्षितः ।शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः ॥५८॥ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥५९॥नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥६०॥इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते ॥६१॥इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः. N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP