संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| प्रथमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - प्रथमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत प्रथमोऽध्यायः Translation - भाषांतर आरम्भमङ्गलम्यद्योगिभिर्भवभयार्तिविनाशयोग्यम्आसाद्य वन्दितमतीव विवक्तचित्तैः ।तद्वः पुनातु हरिपादसरोजयुग्मम्अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः ॥मंगल१॥पायात् स वः सकलकल्मषभेददक्षःक्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः ।श्वासावधूतसलिलोत्कणिकाकरालःसिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात् ॥मंगल२॥नारायणं समस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥मंगल३॥तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् ।व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत ॥१॥भगवन् भारताख्यानं व्यासेनोक्तं महात्मना ।पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः ॥२॥जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् ।पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ॥३॥त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा ।भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः ॥४॥यथायुधानां कुलिशमिन्द्रियाणां यथा मनः ।तथेह सर्वशास्त्रणां महाभारतमुत्तमम् ॥५॥अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते ।परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक् ॥६॥धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् ।कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम् ॥७॥चतुराश्रमधर्माणामाचारस्थितिसाधनम् ।प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता ॥८॥तथा तात कृतं ह्येतद् व्यासेनोदारकर्मणा ।यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते ॥९॥व्यासवाक्यजलौघेन कुतर्कतरुहारिणा ।वेदशैलावतीर्णेन नीरजस्का मही कृता ॥१०॥कलशब्दमहाहंसं माख्यानपराम्बुजम् ।कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम् ॥११॥तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् ।तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः ॥१२॥कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।वासुदेवो जगत्सूति-स्थिति-संयमकारणम् ॥१३॥कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा ।पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान् ॥१४॥भेषजं ब्रह्महत्याया बलदेवो महाबलः ।तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥१५॥कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः ।पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥१६॥एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि ।भवन्तो मूढबुद्धीनामवबोधकराः सदा ॥१७॥इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः ।दशाष्टदोषरहितो वक्तुं समुपचक्रमे ॥१८॥मार्कण्डेय उवाचक्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम ।विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते ॥१९॥ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव ।तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः ॥२०॥पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः ॥२१॥वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः ।विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च ॥२२॥एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता ।प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः ॥२३॥जैमिनिरुवाचअत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी ।यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम् ॥२४॥तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् ।कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः ॥२५॥कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् ।जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम् ॥२६॥मार्कण्डेय उवाचशृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा ।शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे ॥२७॥नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् ।शक्रं सुराधिराजानं तन्मुखासक्तलोचनम् ॥२८॥स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः ।समुत्तस्थौ स्वकं चास्मै ददावासनमादरात् ॥२९॥तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः ।प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः ॥३०॥ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ ।यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः ॥३१॥शक्र उवाचततः कथान्तरे शक्रस्तमुवाच महामुनिम् ।देह्याज्ञां नृत्यतामासां तव याभिमतेति वै ॥३२॥रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा ।घृताची मेनका वापि यत्र वा भवतो रुचिः ॥३३॥एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः ।विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः ॥३४॥युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् ।आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः ॥३५॥गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै ।चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम् ॥३६॥तद्वाक्यसमकालं च एकैकास्ता नतास्ततः ।अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम् ॥३७॥मार्कण्डेय उवाचतासां संभ्रममालोक्य भगवान् पाकशासनः ।पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम् ॥३८॥शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः ।प्रोवाच यत् तदा वाक्यं जैमिने तन्निबोध मे ॥३९॥तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् ।दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम् ॥४०॥मार्कण्डेय उवाचतस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः ।अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः ॥४१॥तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता ।प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥४२॥अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥४३॥ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।तमप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥४४॥इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा ।मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम् ॥४५॥स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः ।क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः ॥४६॥तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः ।जगाम तत्र यत्रास्ते सा बाला रुचिरानना ॥४७॥तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् ।क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः ॥४८॥उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः ॥४९॥यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् ।आगतासि मदोन्मत्ते मम दुः खाय खेचरि ॥५०॥तस्मात् सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता ।जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश ॥५१॥निजरूपं परित्यज्य पक्षिणीरूपधारिणी ।चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः ॥५२॥अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि ।वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन ॥५३॥इति वचनमसह्यं कोपसंरक्तदृष्टिश् चलकलबलयां तां मानिनीं श्रावयित्वा ।तरलतरतरङ्गां गां परित्यज्य विप्रः प्रथितगुणगणौघां संप्रयाताः खगङ्गाम् ॥५४॥इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः N/A References : N/A Last Updated : March 13, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP