संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चत्वारिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चत्वारिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चत्वारिंशोऽध्यायः Translation - भाषांतर दत्तात्रेय उवाचउपसर्गाः प्रवर्तन्ते दृष्टे ह्यात्मनि योगिनः ।ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥१॥काम्याः क्रियास्तथा कामान् मानुषानभिवाञ्छति ।स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥२॥देवत्वममरेशत्वं रसायनचयाः क्रियाः ।मरुत्प्रपतनं यज्ञं जलग्न्यावेशनन्तथा ॥३॥श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ।तथोपवासात् पूर्ताच्च देवताभ्यर्च्चनादपि ॥४॥तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति ।चित्तमित्थं वर्तमानं यत्नाद्योगी निवर्तयेत् ॥५॥ब्रह्मसङ्गिमनः कुर्वन्नुपसर्गात् प्रमुच्यते ।उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः ॥६॥योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः ।प्रातिभिः श्रावणो दैवो भ्रमावत्तौ तथापरौ ॥७॥पञ्चैते योगिनां योगविघ्राय कटुकोदयाः ।वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः ॥८॥प्रतिभान्ति यदस्येति प्रातिभः स तु योगिनः ।शब्दार्थानाखिलान् वेत्ति शब्दं गृह्णाति चैव यत् ॥९॥योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते ।ममन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः ॥१०॥उपसर्गन्तमप्याहुर्दैवमुन्मत्तवद् बुधाः ।भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ॥११॥समस्ताचारविभ्रांशाद् भ्रमः स परिकीर्तितः ।आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ॥१२॥नाशयेच्चित्तमावर्त उपसर्गः स उच्यते ।एतैर्नाशितयोगास्तु सकला देवयोनयः ॥१३॥उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ।प्रावृत्य कम्बलं शुक्लं योगी तस्मान्मनोमयम् ॥१४॥चिन्तयेत् परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥१५॥सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्घ्नि धारयेत् ।धरित्रीं धारयेद्योगी तत् सौक्ष्म्यं प्रतिपद्यते ॥१६॥आत्मानं मन्यते चोर्वों तद्गन्धञ्च जहाति सः ।यथैवाप्सु रसं सूक्ष्मं तद्वद्रूपञ्च तेजसि ॥१७॥स्पर्शं वायो तथा तद्वद्विभ्रतस्तस्य धारणाम् ।व्योम्रः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥१८॥मनसा सर्वभूतानां मनस्याविशते यदा ।मानसीं धारणां बिभ्रन्मनः सूक्ष्मञ्च जायते ॥१९॥तद्वद् बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् ।परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥२०॥परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् ।सम्यग्विज्ञाय योऽलर्क ! तस्यावृत्तिर्न विद्यते ॥२१॥एतासां धारणानान्तु सप्तानां सौक्ष्म्यमात्मवान् ।दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परां व्रजेत् ॥२२॥यस्मिन् यस्मिंश्च कुरुते भूते रागं महीपते ।तस्मिंस्तस्मिन् समासक्तिं संप्राप्य स विनश्यति ॥२३॥तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ।परित्यजति यो देही स परं प्राप्नुयात् पदम् ॥२४॥एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव ! ।भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥२५॥गन्धादिषु समासक्तिं सम्प्राप्य स विनश्यति ।पुनरावर्तते भूप ! स ब्रह्मापरमानुषम् ॥२६॥सप्तैता धारणा योगी समतीत्य यदिच्छति ।तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर ! ॥२७॥देवानामसुराणां वा गन्धर्वोरगरक्षसाम् ।देहेषु लयमायाति सङ्गं नाप्रोति च क्वचित् ॥२८॥अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।प्राकाम्यं च तथेशित्वं वशित्वञ्च तथापरम् ॥२९॥यत्रकामावसायित्वं गुणानेतांस्तथैश्वरान् ।प्राप्नोत्यष्टौ नरव्याघ्र ! परं निर्वाणसूचकान् ॥३०॥सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः ।महिमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥३१॥प्राकाम्यमस्य व्यापित्वादीशित्वञ्चेश्वरो यतः ।वखित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥३२॥यत्रेच्छास्थानमप्युक्तं यत्रकामावसायिता ।ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥३३॥मुक्तिसंसूचकं भूप ! परं निर्वाणमात्मनः ।ततो न जायते नैव वर्धते न विनश्यति ॥३४॥नापि क्षयमवाप्रोति परिणामं न गच्छति ।छेदं क्लेदं तथा दाहं शोषं भूरादितो न च ॥३५॥भूतवर्गादवाप्नोति शब्दाद्यैः ह्रियते न च ।न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ॥३६॥यथाहि कनकं खण्डमपद्रव्यवदग्निना ।दग्धदोषं द्वितीयेन खण्डेनैक्यं व्रजेन्नृप ॥३७॥न विशेषमवाप्रोति तद्वद्योगाग्निना यतिः ।निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥३८॥यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ।तदाख्यस्तन्मयो भूतो न गृह्येत विशेषतः ॥३९॥परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः ।योगी याति पृथग्भावं न कदाचिन्महीपते ! ॥४०॥यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति ।तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥४१॥इति श्रीमार्कण्डेयपुराणे योगसिद्धिर्नाम चत्वारिंशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP