संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चचत्वारिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चचत्वारिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चचत्वारिंशोऽध्यायः Translation - भाषांतर जैमिनिरुवाचसम्यगेतन्ममाख्यातं भवदिभर्द्विजसत्तमाः ।प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥१॥अहो पितृप्रसादेन भवतां ज्ञानमीदृशम् ।येन तिर्यक्त्वमप्येतत् प्राप्य मोहस्तिरस्कृतः ॥२॥धन्या भवन्तः संसिद्ध्यै प्रागवस्थास्थितं यतः ।भवतां विषयोद्भूतैर्न मोहैश्चाल्यते मनः ॥३॥दिष्ट्या भगवता तेन मार्कण्डेयेन धीमता ।भवन्तो वै समाख्याताः सर्वसन्देहहृत्तमाः ॥४॥संसारेऽस्मिन् मनुष्याणां भ्रमतामतिसङ्कटे ।भवद्विधैः समं सङ्गो जायते नातपस्विनाम् ॥५॥यद्यहं सङ्गमासाद्य भवदिभर्ज्ञानदृष्टिभिः ।न स्यां कृतार्थस्तन्नूनं न मेऽन्यत्र कृतार्थता ॥६॥प्रवृते च निवृत्ते च भवतां ज्ञानकर्मणि ।मतिमस्तमलां मन्ये यथा नान्यस्य कस्यचित् ॥७॥यदि त्वनुग्रहवती मयी बुद्धिर्द्विजोत्तमाः ।भवतां तत्समाख्यातुमर्हतेदमशेषतः ॥८॥कथमेतत्समुद्भूतं जगत् स्थावरजङ्गमम् ।कथञ्च प्रलयङ्काले पुनर्यास्यति सत्तमाः ॥९॥कथञ्च वंशाः देवर्षि-पितृभूतादिसम्भवाः ।मन्वन्तराणि च कथं वंशानुचरितञ्च यत् ॥१०॥यावत्यः सृष्टयश्चैव यावन्तः प्रलयास्तथा ।यथा कल्पविभागश्च या च मन्वन्तरस्थितिः ॥११॥यथा च क्षितिसंस्थानं यत् प्रमाणञ्च वै भुवः ।यथास्थिति समुद्राद्रि-निम्नगाः काननानि च ॥१२॥भूर्लोकादिस्वर्लोकानां गणः पातालसंश्रयः ।गतिस्तथार्कसोमादि-ग्रहर्क्षज्योतिषामपि ॥१३॥श्रोतुमिच्छाम्यहं सर्वमेतदाहूतसंप्लवम् ।उपसंहृते च यच्छेषं जगत्यस्मिन् भविष्यति ॥१४॥पक्षिण ऊचुःप्रश्नभारोऽयमतुलो यस्त्वया मुनिसत्तम ।पृष्टस्तं ते प्रवक्ष्यामस्तत् शृणुष्वेह जैमिने ॥१५॥मार्कण्डेयेन कथितं पुरा क्रौष्टुकये यथा ।द्विजपुत्राय शान्ताय व्रतस्त्राताय धीमते ॥१६॥मार्कण्डेयं महात्मानमुपासीनं द्विजोत्तमैः ।क्रौष्टुकिः परिपप्रच्छ यदेतत् पृष्टवान् प्रभो ॥१७॥तस्य चाकथयत् प्रीत्या यन्मुनिर्भृगुनन्दनः ।तत्ते प्रकथयिष्यामः शृणु त्वं द्विजसत्तम ॥१८॥प्रणिपत्य जगन्नाथं पद्मयोनिं पितामहम् ।जगद्योनिं स्थितं सृष्टौ स्थितौ विष्णुस्वरूपिणम् ।प्रलये चान्तकर्तारं रौद्रं रुद्रस्वरूपिणम् ॥१९॥मार्कण्डेय उवाचउत्पन्नमात्रस्य पुरा ब्रह्मणोऽव्यक्तजन्मनः ।पुराणमेतद्वेदाश्च मुखेभ्योऽनुविनिः सृताः ॥२०॥पुराणसंहिताश्चक्रुर्बहुलाः परमर्षयः ।वेदानां प्रविभागश्च कृतस्तैस्तु सहस्रशः ॥२१॥धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च महात्मनः ।तस्योपदेशेन विना न हि सिद्धं चतुष्टयम् ॥२२॥वेदान् सप्तर्षयस्तस्माज्जगृहुस्तस्य मानसाः ।पुराणं जगृहुश्चाद्या मुनयस्तस्य मानसाः ॥२३॥भृगोः सकाशाच्च्यवनस्तेनोक्तञ्च द्विजन्मनाम् ।ऋषिभिश्चापि दक्षाय प्रोक्तमेतन्महात्मभिः ॥२४॥दक्षेण चापि कथितमिदमासीत्तदा मम ।तत्तुभ्यं कथयाम्यद्य कलिकल्मषनाशनम् ॥२५॥सर्वमेतन्महाभग ! श्रूयतां मे समाधिना ।यथाश्रुतं मया पूर्वं दक्षस्य गदतो मुने ॥२६॥प्रणिपत्य जगद्योनिमजमव्ययमाश्रयम् ।चराचरस्य जगतोधातारं परमं पदम् ॥२७॥ब्रह्माणमादिपुरुषमुत्पत्ति-स्थिति-संयमे ।यत्कारणमनौपम्यं यत्र सर्वं प्रतिष्ठितम् ॥२८॥तस्मै हिरण्यगर्भाय लोकतन्त्राय धीमते ।प्रणम्य सम्यग्वक्ष्यामि भूतवर्गमनुत्तमम् ॥२९॥महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम् ।प्रमाणैः पञ्चभिर्गम्यं स्त्रोतोभिः षड्भिरन्वितम् ॥३०॥पुरुषाधिष्ठितं नित्यमनित्यमिव च स्थितम् ।तच्छ्रूयतां महाभाग ! परमेण समाधिना ॥३१॥प्रधानं कारणं यत्तदव्यक्ताख्यं महर्षयः ।यदाहुः प्रकृतिं सूक्ष्मां नित्यां सदसदात्मिकाम् ॥३२॥ध्रुवमक्षय्यमजरममेयं नान्यसंश्रयम् ।गन्धरूपरसैर्हेनं शब्दस्पर्शविवर्जितम् ॥३३॥अनाद्यन्तं जगद्योनि त्रिगुणप्रभवाप्ययम् ।असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्तत ॥३४॥प्रलयस्यानु तेनेदं व्याप्तमासीदशेषतः ।गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितान्मुने ॥३५॥गुणभावात् सृज्यमानात् सर्गकाले ततः पुनः ।प्रधानं तत्त्वमुद्भूतं महान्तं तत् समावृणोत् ॥३६॥यथा बीजं त्वचा तद्वदव्यक्तेनावृतो महान् ।सात्त्विको राजसश्चैव तामसश्च त्रिधोदितः ॥३७॥ततस्तस्मादहङ्कारस्त्रिविधो वै व्यजायत ।वैकारिकस्तैजसश्च भूतादिश्च सतामसः ॥३८॥महता चावृतः सोऽपि यथाव्यरक्तेन वै महान् ।भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकन्ततः ॥३९॥ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत्ततः ॥४०॥स्पर्शतन्मात्रमेवेह जायते नात्र संशयः ।बलवान् जायते वायुस्तस्य स्पर्शगुणो मतः ॥४१॥वायुश्चापि विकुर्वाणो रुपमात्रं ससर्ज ह ।ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४२॥स्पर्शमात्रस्तु वै वायूरूपमात्रं समावृणोत् ।ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥४३॥सम्भवन्ति ततो ह्यापश्चासन् वै ता रसात्मिकाः ।रसमात्रन्तु ताह्यापो रूपमात्रं समावृणोत् ॥४४॥आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ।सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४५॥तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ।अविशेषवाचकत्वादविशेषास्ततश्च ते ॥४६॥न शान्ता नापि घोरास्ते न मूढाश्चाविशेषतः ।भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात् ॥४७॥वैकारिकादहङ्कारात् सत्त्वोद्रिक्तात्तु सात्त्विकात् ।वैकारिकः स सर्गस्तु युगपत् सम्प्रवर्तते ॥४८॥बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥४९॥एकादशं मनस्तत्र देवा वैकारिकाः स्मृताः ।श्रोतं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ॥५०॥शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते ।पादौ पायुरुपस्थश्च हस्तौ वाक् पञ्चमी भवेत् ॥५१॥गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यञ्च कर्म तत् ।आकाशं शब्दमात्रन्तु स्पर्शमात्रं समाविशत् ॥५२॥द्विगुणो जायते वायुस्तस्य स्पर्शो गुणो मतः ।रूपन्तथैवाविशतः शब्दस्पर्शगुणावुभौ ॥५३॥द्विगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् ।शब्दः स्पर्शश्च रूपञ्च रसमात्रं समाविशत् ॥५४॥तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः ।शब्दः स्पर्शश्च रूपञ्च रसो गन्धं समाविशत् ॥५५॥संहता गन्धमात्रेण आवृण्वंस्ते महीमिमाम् ।तस्मात् पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते ॥५६॥शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।परस्परानुप्रवेशाद्धारयन्ति परस्परम् ॥५७॥भूमेरन्तस्त्विदं सर्वं लोकालोकं घनावृतम् ।विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः ॥५८॥गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।नानावीर्याः पृथग्भूताः सप्तैते संहतिं विना ॥५९॥नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ।समेत्यान्योन्यसंयोगमन्योन्याश्रयिणश्च ते ॥६०॥एकसङ्घातचिह्नाश्च संप्राप्यैक्यमशेषतः ।पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥६१॥महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।जलबुद्बुदवत्तत्र क्रमाद्वै वृद्धिमागतम् ॥६२॥भूतेभ्योऽण्डं महाबुद्धे ! वृहत्तदुदकेशयम् ।प्राकृतेऽण्डे विवृद्धः सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥६३॥स वै शरीरी प्रथमः स वै पुरुष उच्यते ।आदिकर्ता च भूतानां ब्रह्माग्रे समवर्तत ॥६४॥तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।मेरुस्तस्यानुसम्भूतो जरायुश्चापि पर्वताः ॥६५॥समुदा गर्भसलिलं तस्याण्डस्य महात्मनः ।तस्मिन्नण्डे जगत् सर्वं सदेवासुरमानुषम् ॥६६॥दीपाद्यद्रिसमुद्राश्च राज्योतिर्लोकसंग्रहः ।जलानिलानलाकाशैस्ततो भूतादिना बहिः ॥६७॥वृतमण्डं दशगुणैरेकेकैकत्वेन तैः पुनः ।महता तत्प्रमाणेन सहैवानेन वेष्टितः ॥६८॥महांस्तैः सहितः सर्वैरव्यक्तेन समावृतः ।एभिरावरणैरण्डं सप्तभैः प्राकृतैर्वृतम् ॥६९॥अन्योन्यमावृत्य च ता अष्टौ प्रकृतयः स्थिताः ।एषा सा प्रकृतिर्नित्या यदन्तः पुरुषश्च सः ॥७०॥ब्रह्माख्यः कथितो यस्ते समासात् श्रू यतां पुनः ।यथा मग्नो जले कश्चिदुन्मज्जन् जलसम्भवः ॥७१॥जलञ्च क्षिपति ब्रह्मा स तथा प्रकृतिर्विभु ।अव्यक्तं क्षेत्रमुदिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥७२॥एतत्समस्तं जानीयात् क्षेत्रक्षेत्रज्ञलक्षणम् ।इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ।अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ॥७३॥इति श्रीमार्कण्डेयपुराणे ब्रह्मोत्पतिर्नाम पञ्चचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP