संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मार्कण्डेयपुराणम्| त्र्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्र्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्र्यधिकशततमोऽध्यायः Translation - भाषांतर भानुतनुलेखनवर्णनम्मार्कण्डेय उवाचअथ तस्मै ददौ कन्यां संज्ञां नाम विवस्वते ।प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः ॥१॥वैवस्वतस्तु सम्भूतो मनुस्तस्यां विवस्वतः ।पूर्वमेव तथाख्यातं तत्स्वरूपं विशेषतः ॥२॥क्रौष्टुकिरुवाच(भूयस्तच्छ्रोतुमिच्छामि मार्त्तण्डस्य महात्मनः ।चरितं हन्ति यत्पापं कलौ संशृण्वतां नृणाम् ॥)मार्कण्डेय उवाचत्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः ।द्वौ पुत्रौ सुमहाभागो कन्यां च यमुनां मुने ॥३॥मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।ततो यमो यमी चैव यमलौ सम्बभूवतुः ॥४॥यत्तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः ।तेनातितापयामास त्रींल्लोकान्सचराचरान् ॥५॥गोलाकारं तु तद्दृष्ट्वा संज्ञारूपं विवस्वतः ।असहन्ती महत्तेजः स्वां छायां प्रेक्ष्य साऽब्रवीत् ॥६॥संज्ञोवाचअहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।निर्विकारं त्वयाप्यत्र स्थेयं मच्छासनाच्छुभे ॥७॥इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।सम्भाव्यौ नैव चाख्येयमिदं भगवते त्वया ॥८॥छायोवाचआकेशग्रहणाद्देवि आशपन्नैव कर्हिचित् ।आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् ॥९॥इत्युक्ता छायया संज्ञा जगाम पितृमन्दिरम् ।तत्रावसत्पितुर्गेहे कञ्चित्कालं शुभेक्षणा ॥१०॥भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।अगच्छद्वडवा भूत्वा कुरून्विप्रोत्तरांस्ततः ॥११॥तत्र तेपे तपः साध्वी निराहारा महामुने ।पितुः समीपं यातायाः संज्ञाया वाक्यतत्परा ॥१२॥तद्रूपधारिणी छाया भास्करं समुपस्थिता ।तस्यां च भगवान्सूर्यः संज्ञेयमिति चिन्तयन् ॥१३॥तथैव जनयामास द्वौ सुतौ कन्यकां तथा ।पूर्वजस्य मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् ॥१४॥यस्तयोः प्रथमं जातः पुत्रयोर्द्विजसत्तम ।द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूच्छनैश्चरः ॥१५॥कन्याभूत्तपती या तां वव्रे संवरणो नृपः ।संज्ञा तु पार्थिवी तेषामात्मजानां यथाऽकरोत् ॥१६॥स्नेहान्न पूर्वजातानां तथा कृतवती सती ।मनुस्तत्क्षान्तवांस्तस्या यमश्चास्या न चक्षमे ॥१७॥बहुशो याच्यमानस्तु पितुः पत्न्या सुदुःखितः ।स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ॥१८॥पदा सन्तर्जयामास छायासंज्ञां यमो मुने ।ततः शशाप च यमं संज्ञा सामर्षिणी भृशम् ॥१९॥छायोवाचपदा तर्जयसे यस्मात्पितृभार्यां गरीयसीम् ।तस्मात्तवैव चरणः पतिष्यति न संशय ॥२०॥यमस्तु तेन शापेन भृशं पीडितमानसः ।मनुना सह धर्मात्मा सर्वं पित्रे न्यवेदयत् ॥२१॥यम उवाचस्नेहेन तुल्यमस्मासु माता देव न वर्तते ।विसृज्य ज्यायसोऽप्यस्मान्कनीयांसौ बुभूर्षति ॥२२॥तस्यां मयोद्यतः पादो न तु देहे निपातितः ।बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ॥२३॥शप्तोऽहं तात कोपेन जनन्या तनयो यतः ।ततो न मन्ये जननीमिमां वै तपतां वर ॥२४॥विगुणेष्वपि पुत्रेषु न माता विगुणा पितः ।पादस्ते पततां पुत्र कथमेतत्प्रवक्ष्यति ॥२५॥तव प्रसादाच्चरणो न पतेद्भगवन्यथा ।मातृशापादयं मेऽद्य तथा चिन्तय गोपते ॥२६॥रविरुवाचअसंशयमिदं पुत्र भविष्यत्यत्र कारणम् ।येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥२७॥सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ॥२८॥न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ।किञ्चित्तव विधास्यामि पुत्रस्नेहादनुग्रहम् ॥२९॥कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥३०॥मार्कण्डेय उवाचआदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।तुल्येष्वप्यधिकः स्नेह एकत्र क्रियते त्वया ॥३१॥नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता ।विगुणेष्वप्यपत्येषु कथं माता शपेत्सुतम् ॥३२॥मार्कण्डेय उवाचसा तत्परिहरन्ती च नाचचक्षे विवस्वतः ।स चात्मानं समाधाय युक्तस्तत्त्वमपश्यत ॥३३॥तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिवस्पतिम् ।भयेन कंपिता ब्रह्मन्यथावृत्तं न्यवेदयत् ॥३४॥विवस्वांस्तु ततः क्रुद्धः श्रुत्वा श्वशुरमभ्यगात् ।स चापि तं तथान्यामर्चयित्वा दिवाकरम् ॥निर्दग्धुकामं रोषेण सान्त्वयामास सुव्रतः ॥३५॥विश्वकर्मोवाचतवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।असहन्ती ततः संज्ञा वने चरति वै तपः ॥३६॥द्रक्ष्यते तां भवानद्य स्वभार्यां शुभचारिणीम् ।रूपार्थं भवतोऽरण्ये चरन्तीं समुहत्तपः ॥३७॥स्मृतं मे ब्रह्मणो वाक्यं यदि ते देव रोचते ।रूपं निवर्तयाम्येतत्तव कान्तं दिवस्पते ॥३८॥मार्कण्डेय उवाचयतो हि भास्वतो रूपं प्रागासीत्परिमण्डलम् ।ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः ॥३९॥विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वतः ।भ्रमिमारोप्य तत्तेजः शातनायोपचक्रमे ॥४०॥भ्रमताऽशेषजगतां नाभिभूतेन भास्वता ।समुद्राद्रिवनोपेता सा रुरोह मही नभः ॥४१॥गगनं चाखिलं ब्रह्मन्सचन्द्रग्रहतारकम् ।अधोगतं महाभाग बभूवाक्षिक्षमाकुलम् ॥४२॥विक्षिप्तसलिलाः सर्वे बभूवुश्च तथाब्धितः ।व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः ॥४३॥ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तम ।त्रुट्यद्रश्मिनिबन्धानि ह्यधो जग्मुः सहस्रशः ॥४४॥वेगभ्रमणसंजात वायुक्षिप्ताः समन्ततः ।व्यशीर्यन्त महामेघा घोररावविराविणः ॥४५॥भास्वद्भ्रमणविभ्रान्तं भूम्याकाशरसातलम् ।जगादाकुलमत्यर्थं तदासीन्मुनिसत्तम ॥४६॥त्रैलोक्ये सकले विप्र भ्रममाणे सुरर्षयः ।देवाश्च ब्रह्मणा सार्द्धं भास्वन्तमभितुष्टुवुः ॥४७॥आदिदेवोऽसि देवानां ज्ञातमेतत्स्वरूपतः ।स्वर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥४८॥स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षाहिमाकर ।जुषस्व शान्तिं लोकानां देवदेव दिवाकर ॥४९॥इन्द्रश्चागत्य तं देवं लिख्यमानं यथाऽस्तुवत् ।जयदेव जगद्वयापिञ्जयाशेषजगत्पते ॥५०॥ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ।तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः ॥५१॥वेदोक्ताभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ।भास्वन्तमृग्भिराद्याभिर्लिख्यमानं मुदायुताः ॥५२॥त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ।त्वं गतिः सर्वभूतानां कर्मकाण्डेऽपि वर्तताम् ॥५३॥शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगतांपते ।शन्नोऽस्तु द्विपदे नित्यं शन्नश्चास्तु चतुष्पदे ॥५४॥ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ॥५५॥ऊचुरेवंविधा वाचो मनः श्रोत्रसुखावहः ।सह्यं भवतु ते तेजो भूतानां भूतभावन ॥५६॥ततो हाहा हुहूश्चैव नारदस्तुम्बुरुस्तथा ।उपगायितुमारब्धा गान्धर्वं कुशला रविम् ॥५७॥षड्जमध्यमगान्धारग्रामत्रयविशारदाः ।मूर्च्छनाभिश्च तानैश्च सम्प्रयोगैः सुखप्रदम् ॥५८॥विश्वाची च घृताची च उर्वश्यथ तिलोत्तमा ।मेनका सहजन्या च रम्भा चाप्सरसां वरा ॥५९॥ननृतुर्जगतामीशे लिख्यमाने विभावसौ ।ज्ञानभावविलासाढ्यात्कुर्वन्तोऽभिनयान्बहून् ॥६०॥प्रावाद्यन्त ततस्तत्र वेणुवीणादिझर्झराः ।पणवाः पुष्कराश्चैव मृदङ्गा पटहानकाः ॥६१॥देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः ।गायद्भिश्चैव गान्धर्वं नृत्यद्भिश्चाप्सरोगणैः ॥६२॥तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ।ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः ॥६३॥लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ।ततः कोलाहले तस्मिन्सर्वदेवसमागमे ॥तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः ॥६४॥इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य ।तनुपरिलिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोऽन्ते ॥६५इति श्रीमार्कण्डेयपुराणे भानुतनुलेखने त्र्यधिकशततमोऽध्यायः । १०३ । N/A References : N/A Last Updated : April 02, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP