संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चसप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चसप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चसप्ततितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचपञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः ।तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते ॥१॥ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ।तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः ॥२॥स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ।तथोपनयनादींश्च स चाशीलोऽभवन्मुने ॥३॥यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः ।दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः ॥४॥माता तस्य परामार्ति कुष्ठरोगादिपीडिता ।जगाम स पिता चास्य चिन्तयामास दुः खितः ॥५॥किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः ।जग्राह भार्यामन्यस्य मुनिपुत्रस्य संमुखीम् ॥६॥ततो विषण्णमनसा ऋतवागिदमुक्तवान् ।अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥७॥कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः ।मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः ॥८॥सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये ।पित्रोर्दुः खाय धिग् जन्म तस्य दुष्कृतकर्मणः ॥९॥धन्यास्ते तनया येषां सर्वलोकाभिसंमताः ।परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः ॥१०॥अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः ॥११॥करोति सुहृदां दैन्यमहितानां तथा मुदम् ।अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम् ॥१२॥मार्कण्डेय उवाचएवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ।दह्यमानमनोवृत्तिर्वृत्तं गर्गमपृच्छत ॥१३॥ऋतवागुवाचसुव्रतेन पुरा वेदा गृहीता विधिवन्मया ।समप्य वेदान् विधिवत् कृतो दारपरिग्रहः ॥१४॥सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः ।न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने ॥१५॥गर्भाधानविधानेन न काममनुरुध्यता ।पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने ॥१६॥सोऽयं किमात्मदोषेण मम दोषण वा मुने ।अस्मद्दुः खवहो जातो दौः शील्याद् बन्धुशोकदः ॥१७॥रेवत्यन्ते मुनिश्रेष्ठ ! जातोऽयं तनयस्तव ।तेन दुः खाय ते दुष्टे काले यस्मादजायत ॥१८॥न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते ।तस्य दौः शील्यहेतुस्तु रेवत्यन्तमुपागतम् ॥१९॥ऋतवागुवाचयस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् ।दौः शील्यमेतत् सा तस्मात् पततामाशु रेवती ॥२०॥मार्कण्डेय उवाचतेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः ॥२१॥रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः ।भावयामास सहसा वनकन्दरनिर्झरम् ॥२२॥कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः ॥२३॥तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः ।ततो जज्ञे तदा कन्या रूपेणातीव शोभना ॥२४॥रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः ।तस्या नाम चकारेत्थं रेवती नाम भागुरे ॥२५॥पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् ।प्रमुचः स महाभागस्तस्मिन्नेव महाचले ॥२६॥तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् ।स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति ॥२७॥एवं चिन्तयतस्तस्य ययौ कालो महान् मुने ।न चाससाद सदृशं वरं तस्या महामुनिः ॥२८॥ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः ।विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक् ॥२९॥महाबलो महावीर्यः प्रियवाग् धर्मवत्सलः ।दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः ॥३०॥मार्कण्डेय उवाचअनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने ।तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः ॥३१॥प्रियव्रतान्वयभवो महाबलपराक्रमः ।पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः ॥३२॥स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः ।अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान् ॥३३॥राजोवाचक्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः ।तं प्रणेतुमिहेच्छामि तत् त्वं प्रब्रूहि शोभने ॥३४॥मार्कण्डेय उवाचअग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् ।प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः ॥३५॥स ददर्श महात्मानं राजानं दुर्गमं मुनिः ।नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः ॥३६॥तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् ।गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः ॥३७॥एकस्तावदयं भूपश्चिरकालादुपागतः.जामाता च विशेषेण योग्योर्ऽघस्य मतो मम ॥३८॥मार्कण्डेय उवाचततः स चिन्तयामास राजा जामातृकारणम् ।विवेद च न तन्मौनी जगृहेर्ऽघञ्च तं नृपः ॥३९॥तमासनगतं विप्रो गृहीतार्घं महामुनिः ।स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे ॥४०॥कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर ।तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम् ॥४१॥पत्नी च ते कुशलिनी यत एवानुतिष्ठति ।पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव ॥४२॥राजोवाचत्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत ।जातकौतूहलश्चास्मि मम भार्यात्र का मुने ॥४३॥ऋषिरुवाचरेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी ।तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम् ॥४४॥राजोवाचसुभद्रां शान्ततनयां कावेरीतनयां विभो ।सुराष्ट्रजां सुजाताञ्च कदम्बाञ्च वरूथजाम् ॥४५॥विपाठां नन्दिनीञ्चैव वेद्मि भार्यां गृहे द्विज ।तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम् ॥४६॥ऋषिरुवाचप्रियेति साम्प्रतं येयं त्वयोक्ता वरवर्णिनी ।किं विस्मृतन्ते भूपाल ! श्लाघ्येयं गृहिणी तव ॥४७॥राजोवाचसत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने ।नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः ॥४८॥ऋषिरुवाचतत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः ।व्याजहार भवानेतद्वह्निना नृप चोदितः ॥४९॥मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव ।भविता तेन चाप्युक्तो भवानेवाद्य वै वरः ॥५०॥तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप ।प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम् ॥५१॥मार्कण्डेय उवाचततोऽसावभवन्मौनी तेनोक्तः पृथिवीपतिः ।ऋषिस्तथोद्यतः कर्तुं तस्या वैवाहिकं विधिम् ॥५२॥तमुद्यतं सा पितरं विवाहाय महामुने ।उवाच कन्या यत्किञ्चित् प्रश्रयावनतानना ॥५३॥यदि मे प्रीतिमांस्तात प्रिसादं कर्तुमर्हसि ।रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः ॥५४॥ऋषिरुवाचरेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् ।अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते ॥५५॥कन्योवाचतात तेन विना कालो विफलः प्रतिभाति मे ।विवाहो विफले काले मद्विधायाः कथं भवेत् ॥५६॥ऋषिरुवाचऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ।चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम् ॥५७॥मया चास्मै प्रतिज्ञाता भर्येति मदिरेक्षणा ।न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम् ॥५८॥कन्योवाचऋतवाक् स मुनिस्तात किमेवं तप्तवांस्तपः ।न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम् ॥५९॥ऋषिरुवाचब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः ।सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे ॥६०॥कन्योवाचतपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ।समारोप्य विवाहो मे तदृक्षे क्रियते न तु ॥६१॥ऋषिरुवाचएवं भवतु भद्रन्ते भद्रे प्रीतिमती भव ।आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव ॥६२॥मार्कण्डेय उवाचततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः ।यथापूर्वन्तथा चक्रे सोमयोगि द्विजोत्तम ॥६३॥विवाहञ्चैव दुहितुर्विधिवद् मन्त्रयोगिनम् ।निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत् ॥६४॥औद्वाहिकन्ते भूपाल कथ्यतां किं ददाम्यहम् ।दुर्लभ्यमपि दास्यामि ममाप्रतिहतन्तपः ॥६५॥राजोवाचमनोः स्वयम्भुवस्याहमुत्पन्नः सन्ततौ मुने ।मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम् ॥६६॥ऋषिरुवाचभविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् ।सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति ॥६७॥मार्कण्डेय उवाचतामादाय ततो भूपः स्वमेव नगरं ययौ ।तस्मादजायत सुतो रेवत्या रैवतो मनुः ॥६८॥समेतः सकलैर्धर्मैर्मानवैरपराजितः ।विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥६९॥तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।कथ्यमानान् मया ब्रह्मन् निबोध सुसमाहितः ॥७०॥सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ।वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश ॥७१॥तेषां देवगणानान्तु चतुर्णामपि चेश्चरः ।नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः ॥७२॥हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः ।वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥७३॥वसिष्ठश्च महाभागो वेदवेदान्तपारगः ।एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः ॥७४॥बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः ।सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः ॥७५॥रैवतान्तास्तु मनवः कथिता ये मया तव ।स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम् ॥७६॥(य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् ।विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम् ॥७७॥इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमोऽध्यायः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP