मार्कण्डेयपुराणम् - चतुर्थोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
मार्कण्डेय उवाच
एवं ते द्रोणतनयाः पक्षिणो ज्ञानिनोऽभवन् ।
वसन्ति ह्यचले विन्ध्ये तानुपास्व च पृच्छ च ॥१॥
इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य जैमिनिः ।
जगाम विन्ध्यशिखरं यत्र ते धर्मपक्षिणः ॥२॥
तन्नगासन्नभूतश्च शुश्राठ पठतां ध्वनिम् ।
श्रुत्वा च विस्मयाविष्टश्चिन्तयामास जैमिनिः ॥३॥
स्थानसौष्ठवसम्पन्नं जितश्वासमविश्रमम् ।
विस्पष्टमपदोषञ्च पठ्यते द्विजसत्तमैः ॥४॥
वियोनिमपि सम्प्राप्तानेतान् मुनिकुमारकान् ।
चित्रमेतदहं मन्ये न जहाति सरस्वती ॥५॥
बन्धुवर्गस्तथा मित्रं यच्चेष्टमपरं गृहे ।
त्यक्त्वा गच्छति तत्सर्वं न जहाति सरस्वती ॥६॥
इति सञ्चिन्तयन्नेव विवेश गिरिकन्दरम् ।
प्रविश्य च ददर्शासौ शिलापट्टगातान् द्विजान् ॥७॥
पठतस्तान् समालोक्य मुखदोषविवर्जितान् ।
सोऽथ शोकेन हर्षेण सर्वानेवाभ्यभाषत ॥८॥
स्वस्त्यस्तु वो द्विजश्रेष्ठा जैमिनिं मां निबोधत ।
व्यासशिष्यमनुप्राप्तं भवतां दर्शनोत्सुकम् ॥९॥
मन्युर्न खलु कर्तव्यो यत् पित्रातीव मन्युना ।
शप्ताः खगत्वमापन्नाः सर्वथा दिष्टमेव तत् ॥१०॥
स्फीतद्रव्ये कुले केचिज्जाताः किल मनस्विनः ।
द्रव्यनाशे द्विजेन्द्रास्ते शबरेण सुसान्त्विताः ॥११॥
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे ।
पातयित्वा च पात्यन्ते त एव तपसः क्षयात् ॥१२॥
एतद्दृष्टं सुबहुशो विपरीतं तथा मया ।
भावाभावसमुच्छेदैरजस्त्रं व्याकुलं जगत् ॥१३॥
इति सञ्चिन्त्य मनसा न शोकं कर्तुमर्हथ ।
ज्ञानस्य फलमेतावच्छोकहर्षैरधृष्यता ॥१४॥
ततस्ते जैमिनिं सर्वे पाद्यार्घ्याभ्यामपूजयन् ।
अनामयञ्च पप्रच्छुः प्रणिपत्य महामुनिम् ॥१५॥
अथोचुः खगमाः सर्वे व्यासशिष्यं तपोनिधिम् ।
सुखोपविष्टं विश्रान्तं पक्षानिलहतक्लमम् ॥१६॥
पक्षिण ऊचुः
अद्य नः सफलं जन्म जीवितञ्च सुजीवितम् ।
यत् पश्यामः सुरैर्वन्द्यं तव पादाम्बुजद्वयम् ॥१७॥
पितृकोपाग्निरुद्भूतो यो नो देहेषु वर्तते ।
सोऽद्य शान्तिं गतो विप्र युष्मद्दर्शनवारिणा ॥१८॥
कच्चित् ते कुशलं ब्रह्मन्नाश्रमे मृगपक्षिषु ।
वृक्षेष्वथ लता-गुल्म-त्वक्सार-तृणजातिषु ॥१९॥
अथवा नैतदुक्तं हि सम्यगस्माभिरादृतैः ।
भवता सङ्गमो येषां तेषामकुशलं कुतः ॥२०॥
प्रसादञ्च कुरुष्वात्र ब्रूह्यागमनकारणम् ।
देवानामिव संसर्गो भवतोऽभ्युदयो महान् ।
केनास्मद्भाग्यगुरुण आनीतो दृष्टिगोचरम् ॥२१॥
जैमिनिरुवाच
श्रूयतां द्विजशार्दूलाः कारणं येन कन्दरम् ।
विन्ध्यस्येहागतो रम्यं रेवावारिकणोक्षितम् ।
सन्देहान् भारते शास्त्रे तान् प्रष्टुं गतवानहम् ॥२२॥
मार्कण्डेयं महात्मानं पूर्वं भृगुकुलोद्वहम् ।
तमहं पृष्टवान् प्राप्य सन्देहान् भरतं प्रति ॥२३॥
स च पृष्टो मया प्राह सन्ति विन्ध्ये महाचले ।
द्रोणपुत्रा महात्मानस्ते वक्ष्मन्त्यर्थविस्तरम् ॥२४॥
तद्वाक्ययोदितश्चेममागतोऽहं महागिरिम् ।
तच्छृणुध्वमशेषेण श्रुत्वा व्याख्यातुमर्हथ ॥२५॥
पक्षिण ऊचुः
विषये सति वक्ष्यामो निर्विशङ्कः शृणुष्व तत् ।
कथं तन्न वदिष्यामो यदस्मद्बुद्धिगोचरम् ॥२६॥
चतुर्ष्वपि हि वेदेषु धर्मशास्त्रेषु चैव हि ।
समस्तेषु तथाङ्गेषु यच्चान्यद्वेदसंमितम् ॥२७॥
एतेषु गोचरोऽस्माकं बुद्धेर्ब्राह्मणसत्तम ।
प्रतिज्ञान्तु समारोढुं तथापि नहि शक्नुमः ॥२८॥
तस्माद्वदस्व विश्रब्धं सन्दिग्धं यद्वि भारते ।
वक्ष्यामस्तव धर्मज्ञ न चेन्मोहो भविष्यति ॥२९॥
जैमिनिरुवाच
सन्दिग्धानीह वस्तूनि भारतं प्रति यानि मे ।
शृणुध्वममलास्तानि श्रुत्वा व्याख्यातुमर्हथ ॥३०॥
कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवोऽखिलाधारः सर्वकारणकारणम् ॥३१॥
कस्माच्च पाण्डुपुत्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महिषी कृष्णा सुमाहनत्र संशयः ॥३२॥
भेषजं ब्रह्महत्याया बलदेवो महाबलः ।
तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥३३॥
कथं च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥३४॥
एतत् सर्वं कथ्यतां मे सन्दिग्धं भारतं प्रति ।
कृतार्थोहं सुखं येन गच्छेयं निजमाश्रमम् ॥३५॥
पक्षिण ऊचुः
नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च ॥३६॥
चतुर्व्यूहात्मने तस्मै त्रिगुणायागुणाय च ।
वरिष्ठाय गरिष्ठाय वरेष्यायामृताय च ॥३७॥
यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ।
येन विश्वमिदं व्याप्तमजेन जगदादिना ॥३८॥
आविर्भाव-तिरोभाव-दृष्टादृष्ट-विलक्षणम् ।
वदन्ति यद् सृष्टमिदं तथैवान्ते च संहृतम् ॥३९॥
ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ।
ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम् ॥४०॥
प्रणिपत्य तथेशानमेकबाणविनिर्जितैः ।
यस्यासुरगणैर्यज्ञा विलुप्यन्ते न यज्विनाम् ॥४१॥
प्रवक्ष्यामो मतं कृत्स्नं व्यासस्याद्भुतकर्मणः ।
येन भारतमुद्दिश्य धर्माद्याः प्रकटीकृताः ॥४२॥
आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥४३॥
स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ।
चतुर्धा संस्थितो ब्रह्मन् सगुणो निर्गुणस्तथा ॥४४॥
एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः ।
ज्वालामालोपरुद्धाङ्गी निष्ठा सा योगिनां परा ॥४५॥
दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ।
वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते ॥४६॥
रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ।
अस्त्येव सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ॥४७॥
द्वितीया पृथिवीं मूद्र्घ्ना शेषाख्या धारयत्यधः ।
तामसी सा समाख्याता तिर्यक्त्वं समुपाश्रिता ॥४८॥
तृतीया कर्म कुरुते प्रजापालनतत्परा ।
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ॥४९॥
चतुर्थो जलमध्यस्था शेते पन्नगतल्पगा ।
रजस्तस्या गुणः सर्गं सा करोति सदैव हि ॥५०॥
या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ।
सा तु धर्मव्यवस्थानं करोति नियतं भुवि ॥५१॥
प्रोद्धूतानसुरान् हन्ति धर्मविच्छित्तिकारिणः ।
पाति देवान् सतश्चान्यान् धर्मरक्षापरायणान् ॥५२॥
यदा यदा हि धर्मस्य ग्लानिर्भवति जैमिने ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ॥५३॥
भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ।
एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा ॥५४॥
कृत्वा नृसिंहरूपञ्च हिरण्यकशिपुर्हतः ।
विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः ॥५५॥
वामनादींस्तथैवान्यान् न संख्यातुमिहोत्सहे ।
अवताराश्च तस्येह माथुरः साम्प्रतं त्वयम् ॥५६॥
इति सा सात्त्विकी मूर्तिरवतारान् करोति वै ।
प्रद्युम्नेति च सा ख्याता रक्षाकर्मण्यवस्थिता ॥५७॥
देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता ।
गृह्णाति तत्स्वभावं च वासुदेवेच्छया सदा ॥५८॥
इत्येतत् ते समाख्यातं कृतकृत्योऽपि यत्प्रभुः ।
मानुषत्वं गतो विष्णुः शृणुष्वास्योत्तरं पुनः ॥५९॥
इति श्रीमार्कण्डेयपुराणे चतुर्व्यूहावतारो नाम चतुर्थोऽध्यायः
N/A
References : N/A
Last Updated : March 13, 2023
TOP