संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
अष्टपञ्चाशोऽध्यायः

मार्कण्डेयपुराणम् - अष्टपञ्चाशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


क्रौष्टुकिरुवाच

भगवन् ! कथितं सम्यक् भवता भारतं मम ।
सरितः पर्वता देशा ये च तत्र वसन्ति वै ॥१॥

किन्तु कूर्मस्त्वया पूर्वं भारते भगवान् हरिः ।
कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः ॥२॥

कथं स संस्थितो देवः कूर्मरूपी जनार्दनः ।
शुभाशुभं मनुष्याणां व्यज्यते च ततः कथम् ।
यथामुखं यथापादन्तस्य तद् ब्रूह्यशेषतः ॥३॥

मार्कण्डेय उवाच

प्राङ्मुखो भगवान् ! देवः कूर्मरूपी व्यवस्थितः ।
आक्रम्य भारतं वर्षं नवभेदमिदं द्विज ॥४॥

नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः ।
विषयाश्च द्विजश्रेष्ठ ! ये सम्यक् तान्निबोध मे ॥५॥

वेदमन्त्रा विमाण्डव्याः शाल्वनीपास्तथा शकाः ।
उज्जिहानास्तथा वत्स ! घोषसंख्यास्तथा खसाः ॥६॥

मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।
धर्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः ॥७॥

कालकोटिसपाषण्डाः पारियात्रनिवासिनः ।
कापिङ्गलाः कुरुर्बाह्यस्तथैवोडुम्बरा जनाः ॥८॥

वैदेहकाः सपाञ्चालाः संकेताः कङ्कमारुताः ।
गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥९॥

कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् ।
नक्षत्रत्रितयं विप्र ! शुभाशुभविपाकदम् ॥१०॥

वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः ।
शूर्पकर्णो व्याघ्रमुखः खर्मकः कर्वटाशनः ॥११॥

तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा ।
गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः ॥१२॥

प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः ।
पुर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज ! ॥१३॥

कशाया मेखलामुष्टास्ताम्रलिप्तैकपादपाः ।
वर्धमाना कोशलाश्च मुखे कूर्मस्य संश्थिताः ॥१४॥

रौद्रः पुनर्वसुः पुष्यो नक्षत्रत्रितयं मुखे ।
पादे तु दक्षिणे देशाः क्रौष्टुके वदतः शृणु ॥१५॥

कलिङ्गवङ्गजठराः कोशला मूषिकास्तथा ।
चेदयश्चोर्ध्वकर्णाश्च मत्स्याद्या विन्ध्यवासिनः ॥१६॥

विदर्भा नारिकेलाश्च धर्मद्वीपास्तथैलिकाः ।
व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः ॥१७॥

कैष्किन्ध्या हैमकूटाश्च निषधाः कटकस्थलाः ।
दशार्णाहारिका नग्ना निषादाः काकुलालकाः ॥१८॥

तथैव पर्णशबराः पादे वै पूर्वदक्षिणे ।
आश्लेषर्क्षं तथा पैत्र्यं फाल्गुण्यः प्रथदमास्तथा ॥१९॥

नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् ।
लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा ॥२०॥

महेन्द्रमलयाद्रौ च दुर्दुरे च वसन्ति ये ।
कर्कोटकवने ये च भृगुकच्छाः सकोङ्कणा ॥२१॥

सर्वाश्चैव तथाभीरा वेण्यास्तीरनिवासिनः ।
अवन्तयो दासपुरास्तथैवाकणिनो जनाः ॥२२॥

महाराष्ट्राः सकर्णाटा गोनर्दाश्चित्रकूटकाः ।
चोलाः कोलगिराश्चैव क्रौञ्चद्वीपजटाधराः ॥२३॥

कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः ।
शङ्खशुक्त्यादिवैदूर्यशैलप्रान्तचराश्च ये ॥२४॥

तथा वारिचराः कोलाः चर्मपट्टनिवासिनः ।
गणबाह्याः पराः कृष्णा द्वीपवासनिवासिनः ॥२५॥

सूर्याद्रौ कुमुदाद्रौ च ते वसन्ति तथा जनाः ।
औखावनाः सपिशिकास्तथा ये कर्मनायकाः ॥२६॥

तक्षिणाः कौरुषा ये च ऋषिकास्तापसाश्रमाः ।
ऋषभाः सिहलाश्चैव तथा काञ्चीनिवासिनः ॥२७॥

तिलङ्गा कुञ्जारदरीकच्छवासाश्च ये जनाः ।
ताम्रपर्णो तथा कुक्षिरिति कूर्मस्य दक्षिणः ॥२८॥

फाल्गुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज ।
कूर्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम् ॥२९॥

काम्बोजाः पह्लवाश्चैव तथैव वहवामुखाः ।
तथा च सिन्दुसौवीराः सानर्ता वनितामुखाः ॥३०॥

द्रावणाः मार्गिकाः शूद्रा कर्णप्राधेयवर्वराः ।
किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः ॥३१॥

धूर्तका हैमगिरिकाः सिन्धुकालकवैरताः ।
सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः ॥३२॥

एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ।
स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव च ॥३३॥

मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा ।
अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः ॥३४॥

कौङ्कणाः पञ्चनदका वामना ह्यवरास्तथा ।
तारक्षुरा ह्यङ्गतकाः कर्कराः शाल्मवेश्मकाः ॥३५॥

गुरुस्विराः फल्गुणका वेणुमत्याञ्च ये जनाः ।
तथा फल्गुलुका घोरा गुरुहाश्च कलास्तथा ॥३६॥

एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः ।
अश्वकेशास्तथा पुच्छे जनाः कूर्मस्य संस्थिताः ॥३७॥

ऐन्द्रं मूलन्तथाषाग नक्षत्रत्रयमेव च ।
माण्डव्याश्चण्डखाराश्च अश्वकालनतास्तथा ॥३८॥

कुन्यतालडहाश्चैव स्त्रीबाह्या बालिक्रास्तथा ।
नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे ॥३९॥

धर्मबद्धास्तथालूका उरुकर्मस्थिता जनाः ।
वामपादे जनाः पार्श्वे स्थिताः कूर्मस्य भागुरे ॥४०॥

आषाढाश्रवणे चैव धनिष्ठा यत्र संस्थिता ।
कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा ॥४१॥

क्रौञ्चाः कुरुवकाश्चैव क्षुद्रवीणाश्च ये जनाः ।
रसालया सकैकेया भोगप्रस्थाः सयामुनाः ॥४२॥

अन्तर्द्वोपास्त्रिगर्ताश्च अग्नीज्याः सार्दना जनाः ।
तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः ॥४३॥

दासेरका वाटधानाः शवधानास्तथैव च ।
पुष्कलाधमकैरातास्तथा तक्षशिलाश्रयाः ॥४४॥

अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः ।
पिङ्गला मानकलहा हूणाः कोहलकास्तथा ॥४५॥

माण्डव्या भूतियुवकाः शातका हेमतारकाः ।
यशोमत्याः सगान्धाराः खरसागरराशयः ॥४६॥

यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ।
क्षेमधूर्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ॥४७॥

वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् ।
येन किन्नरराज्यञ्च पुशुपालं सकीचकम् ॥४८॥

काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा ।
दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः ॥४९॥

सैरिष्ठा ब्रह्मपुरकास्तथैव वनवाह्यकाः ।
किरातकौशिका नन्दा जनाः पह्णवलोलनाः ॥५०॥

दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।
एकपादा खशा घोषाः स्वर्गभौमानवद्यकाः ॥५१॥

तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये ।
त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजात्तम ॥५२॥

पूर्वोत्तरन्तु कूर्मस्य पदामेते समाश्रिताः ।
रेवत्यश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम् ॥५३॥

तत्र पादे समाख्यातं पाकाय मुनिसत्तम ।
देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज ॥५४॥

एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः ।
यान्ति चाभ्युदयं विप्र ! ग्रहैः सम्यगवस्थितैः ॥५५॥

यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् ।
तद्देशस्य मुनिश्रेष्ठ ! तदुत्कर्षे शुभागमः ॥५६॥

प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम् ।
भयं लोकस्य भवति शोभनं वा द्विजोत्तम ॥५७॥

स्वर्क्षैरशोभनैर्जन्तोः सामान्यमिति भीतिदम् ।
ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम् ॥५८॥

तथैव शोभनः पाको दुः स्थितैश्च तथा ग्रहैः ।
अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः ॥५९॥

द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा ।
भार्यायाञ्च ग्रहे दुस्थे भयं पुण्यवतां नृणाम् ॥६०॥

आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् ।
नैकत्रापि ह्यपापानां भयमस्ति कदाचन ॥६१॥

दिग्देशजनसामान्यं नृपसामान्यमात्मजम् ।
नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ॥६२॥

परस्पराभिरक्षा च ग्रहादौस्थ्येन जायते ।
एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः ॥६३॥

यदेतत् कूर्मसंस्थानं नक्षत्रेषु मयोदितम् ।
एतत् तु देशसामान्यमशुभं शुभमेव च ॥६४॥

तस्माद्विज्ञाय देशर्क्षं ग्रहपीडान्तथात्मनः ।
कुर्वोत शान्तिं मेधावी लोकवादांश्च सत्तम ॥६५॥

आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः ।
पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः ॥६६॥

तां तथैव बुधः कुर्यात् लोकवादान्न हापयेत् ।
तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः ॥६७॥

शुभोदयं प्रहानिञ्च पापानां द्विजसत्तम ।
प्रज्ञाहानिं प्रकुर्युस्ते द्रव्यादीनाञ्च कुर्वते ॥६८॥

तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।
लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत् ॥६९॥

अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।
जपं होमं तथा दानं स्त्रानं क्रोधादिवर्जनम् ॥७०॥

अद्रोहः सर्वभूतेषु मैत्रीं कुर्याच्च पण्डितः ।
वर्जयेदसतीं वाचमतिवादांस्तथैव च ॥७१॥

ग्रहपूजाञ्च कुर्वोत सर्वपीडासु मानवः ।
एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ॥७२॥

प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः ।
एष कूर्मो मया ख्यातो भारते भगवान् विभुः ॥७३॥

नारायणो ह्यचिन्त्यात्मा यत्र सर्वं प्रतिष्ठितम् ।
तत्र देवाः स्थिताः सर्वे प्रतिनक्षत्रसंश्रयाः ॥७४॥

तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज ।
मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ ॥७५॥

प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ ।
सिंहकन्यातुलाश्चैव कुक्षौ राशैत्रयं स्थितम् ॥७६॥

तुलाथ वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे ।
पृष्ठे च वृश्चिकेनैव सह धन्वी व्यवस्थितः ॥७७॥

वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् ।
कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ ॥७८॥

मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्वोत्तरे स्थितौ ।
कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज ॥७९॥

राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः ।
तस्माद् ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥८०॥

तत्र स्त्रात्वा प्रकुर्वोत दानहोमादिकं विधिम् ।
स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः ।
नारायणाख्योऽचिन्त्यात्मा कारणं जगतः प्रभुः ॥८१॥

इति श्रीमार्कण्डेयपुराणे कूर्मनिवेशो नामाष्टपञ्चाशोऽध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP