संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्तनवतितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्तनवतितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्तनवतितमोऽध्यायः Translation - भाषांतर सम्पातिवर्णनम्मार्कण्डेय उवाचएवं स्तुतस्ततस्तेन भगवान्हव्यवाहनः ।ज्वालामालावृततनुस्तस्यासीदग्रतो मुने ॥१॥देवो विभावसुः प्रीतस्तोत्रेणानेन वै द्विज ।तं शान्तिमाह प्रणतं मेघगम्भीरवागथ ॥२॥अग्निरुवाचपरितुष्टोऽस्मि ते विप्र भक्त्या या ते स्तुतिः कृता ।वरं ददामि भवते प्रार्थ्यतां यत्तवेप्सितम् ॥३॥शान्तिरुवाचभगवन्कृतकृत्योऽस्मि यत्त्वा पश्यामि रूपिणम् ।तथापि भक्तिनम्रस्य भवता श्रूयतां मम ॥४॥भ्रातृयज्ञं गतो देव ममाचार्यो निजाश्रमान् ।आगतश्चाश्रमं धिष्ण्यं त्वत्सनाथं स पश्यतु ॥५॥ममापराधात्सन्त्यक्तं धिष्ण्यं यत्ते विभावसो ।तत्त्वयाधिष्ठितं सोऽद्य पूर्ववत्पश्यतु द्विजः ॥६॥तथान्यदपि मे देव प्रसादं कुरुषे यदि ।पुत्रो विशिष्टो भवतु तदपुत्रस्य मे गुरोः ॥७॥तथा च मैत्रीं तनये स करिष्यति मे गुरुः ।तथा समस्तसत्त्वेषु भवत्वस्य मनो मृदु ॥८॥यश्च त्वां स्तोष्यतेऽनेन प्रीतिं यातोऽसि मेऽव्यय ।स्तोत्रेण तस्य वरदो भवेथा मत्प्रसादितः ॥९॥मार्कण्डेय उवाचएतच्छ्रुत्वा वचस्तस्य तमाह द्विजसत्तमम् ।स्तोत्रेणाराधितस्तेन गुरुभक्त्या च पावकः ॥१०॥अग्निरुवाचगुरोरर्थे यतो ब्रह्मन्याचितं ते वरद्वयम् ।नात्मार्थं तेन मे प्रीतिस्त्वय्यतीव महामुने ॥११॥भविष्यत्येतदखिलं गुरोर्यत्प्रार्थितं त्वया ।मैत्री समस्तभूतेषु पुत्रश्चास्य भविष्यति ॥१२॥मन्वन्तराधिपः पुत्रो भौत्यो नाम भविष्यति ।महाबलो महावीर्यो महाप्राज्ञो गुरुस्तव ॥१३॥अनेन यश्च स्तोत्रेण स्तोष्यते मां समाहितः ।तस्याभिलषितं सर्वं पुण्यं चास्य भविष्यति ॥१४॥यज्ञेषु पर्वकालेषु तीर्थेज्याहोमकर्मसु ।धर्माय पठतामेतन्मम पुष्टिकरं परम् ॥१५॥अहोरात्रकृतं पापं श्रुतमेतत्सकृद्द्विज ।नाशयिष्यत्यसन्दिग्धं मम तुष्टिकरं परम् ॥१६॥अहोमकालदोषादीनयोग्यैरपि तत्कृतः ।ये दोषास्तानिदं सद्यः शमयिष्यति संश्रुतम् ॥१७॥पौर्णमास्याममावास्यां पर्वस्वन्येषु च स्तवः ।ममैष संश्रुतो मर्त्यैर्भविता पापनाशनः ॥१८॥मार्कण्डेय उवाचइत्युक्त्वा भगवानग्निः पश्यतस्तस्य वै मुने ।बभूवादर्शनः सद्यो दीपस्थो निर्वृतो यथा ॥१९॥स च शान्तिर्गते वह्नौ परितुष्टेन चेतसा ।हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः ॥२०॥जाज्वल्यमानं तत्रासौ गुरुधिष्ण्ये हुताशनम् ।ददर्श पूर्ववत्प्राप ततः स परमां मुदम् ॥२१॥एतस्मिन्नन्तरे सोऽपि गुरुस्तस्य महात्मनः ।भ्रातुर्यवीयसो यज्ञादाजगाम स्वमाश्रमम् ॥२२॥तस्याग्रतश्च शिष्योऽसौ चक्रे पादाभिवन्दनम् ।गृहीतासनपूजश्च तमाह स तदा गुरुः ॥२३॥वत्सातिहार्दं त्वयि मे तथान्येषु च जन्तुषु ।न वेद्मि किमिदं त्वं चेद्वेत्स्ये तत्कथयाशु मे ॥२४॥ततः स शान्तिस्तत्सर्वमाचार्याय महामुने ।अग्निनाशादिकं विप्रः समाचष्टे यथातथम् ॥२५॥तच्छ्रुत्वा स परिष्वज्ये स्नेहार्द्रनयनो गुरुः ।शिष्याय प्रददौ वेदान्साङ्गोपाङ्गान्महामुने ॥२६॥भौत्यो नाम मनुस्तस्य पुत्रो भूतेरजायत ।तस्य मन्वन्तरे देवानृषीन्भूपांश्च मे शृणु ॥२७॥भविष्यस्य भविष्यास्तु गदतो मम विस्तरात् ।देवेन्द्रो यश्च भविता तस्य विख्यातकर्मणः ॥२८॥चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।धारावृकाश्चेत्येते वै पञ्च देवगणाः स्मृताः ॥२९॥शुचिरिन्द्रस्तदा तेषां त्रिदशानां भविष्यति ।महाबलो महावीर्यः सर्वैरिन्द्रगुणैर्युतः ॥३०॥आग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥३१॥गुरुर्गभीरो ब्रध्नश्च भरतोऽनुग्रहस्तथा ।श्रीमानी च प्रतीरश्च विष्णुः संक्रन्दनस्तथा ॥३२॥तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।चतुर्दशं मयैतत्ते मन्वन्तरमुदाहृतम् ॥३३॥श्रुत्वा मन्वन्तराणीत्थं क्रमेण मुनिसत्तम ।पुण्यमाप्नोति मनुजस्तथाऽक्षीणां च सन्ततिम् ॥३४॥श्रुत्वा मन्वन्तरं पूर्वं धर्ममाप्नोति मानवः ।स्वारोचिषस्य श्रवणात्सर्वकामानवाप्नुते ॥३५॥औत्तमे धनमाप्नोति ज्ञानमाप्नोति तामसे ।रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् ॥३६॥आरोग्यं चाक्षुषे पुंसां श्रुते वैवस्वते बलम् ।गुणवत्पुत्रपौत्रांस्तु सूर्यसावर्णिके श्रुते ॥३७॥माहात्म्यं ब्रह्मसावर्णेर्धर्मसावर्णिके शुभाम् ।मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् ॥३८॥ ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तम ॥३९॥देवप्रसादमाप्नोति भौत्ये मन्वन्तरे श्रुते ।तथाग्निहोत्रं पुत्रांश्च गुणयुक्तानवाप्नुते ॥४०॥सर्वाण्यनुक्रमाद्यश्च शृणोति मुनिसत्तम ।मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् ॥४१॥तत्र देवानृषीनिन्द्रान्मनूंस्तत्तनयान्नृपान् ।श्रुत्वा वंशांश्च सर्वेभ्यः पापेभ्यो विप्रमुच्यते ॥४२॥देवर्षीन्द्रनृपाश्चान्ये ये तन्मन्वन्तराधिपाः ।ते प्रीयन्ते तथा प्रीता प्रयच्छन्ति शुभां मतिम् ॥४३॥ततः शुभां मतिं प्राप्य कृत्वा कर्म तथा शुभम् ।शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्दश ॥४४॥सर्वे स्युर्ऋतवः क्षेम्याः सर्वे सौम्यास्तथा ग्रहाः ।भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् ॥४५॥इति श्रीमार्कण्डेयपुराणे चतुर्दशमन्वन्तरवर्णनसमाप्तिर्नाम सप्तनवतितमोऽध्यायः । ९७ । N/A References : N/A Last Updated : March 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP