मार्कण्डेयपुराणम् - चतुःषष्टितमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
मार्कण्डेय उवाच
एवं विमुक्तरोगा तु कन्यका तं मुदान्विता ।
स्वरोचिषमुवाचेदं शृणुष्व वचनं प्रभो ॥१॥
मन्दारविद्याधरजा नाम्ना ख्याता विभावरी ।
उपकारिन् ! स्वमात्मानं प्रयच्छामि प्रतीच्छ माम् ॥२॥
विद्याञ्च तुभ्यं दास्यामि सर्वबूतरुतानि ते ।
ययाभिव्यक्तिमेष्यन्ति प्रसादपुरगो भव ॥३॥
मार्कण्डेय उवाच
एवमस्त्विति तेनोक्ते धर्मज्ञेन स्वरोचिषा ।
द्वितीया तु तदा कन्या इदं वचनमब्रवीत् ॥४॥
कुमारब्रह्मचार्यासीत् पारो नाम पिता मम ।
ब्रह्मर्षिः सुमहाभागो वेदवेदाङ्गपारगः ॥५॥
तस्य पुंस्कोकिलालापरमणीये मधौ पुरा ।
आजगामाप्सराभ्यासं प्रख्याता पुञ्जिकास्तना ॥६॥
कामवक्तव्यतां नीतः स तदा मुनिपुङ्गवः ।
तत्संयोगेऽहमुत्पन्ना तस्यामत्र महाचले ॥७॥
विहाय मां गता सा च मातास्मिन्निर्जने वने ।
बालामेकां महीपृष्ठे व्यालश्वापदसंकुले ॥८॥
ततः कलाभिः सोमस्य वर्धन्तीभिरहः क्षये ।
आप्याय्यमानाहरहो वृद्धिं यातास्मि सत्तम ॥९॥
ततः कलावतीत्येतन्मम नाम महात्मना ।
गृहीतायः कृतं पित्रा गन्धर्वेण शुभानना ॥१०॥
न दत्ताहं तदा तेन याचितेन महात्मना ।
देवारिणालिना सुप्तस्ततो मे घातितः पिता ॥११॥
ततोऽहमतिनिर्वेदादात्मव्यापादनोद्यता ।
निवारिता शम्भुपत्न्या सत्या सत्यप्रतिश्रवा ॥१२॥
मा शुचः सुभ्रु ! भर्ता ते महाभागो भविष्यति ।
स्वरोचिर्नाम पुत्रश्च मनुस्तस्य भविष्यति ॥१३॥
आज्ञाञ्च निधयः सर्वे करिष्यन्ति तवादृताः ।
यथाभिलषितं वित्तं प्रदास्यन्ति च ते शुभे ॥१४॥
यस्या वत्से प्रभावेण विद्यायास्तां गृहाण मे ।
पद्मिनी नाम विद्येयं महापद्माभिपूजिता ॥१५॥
इत्याह मां दक्षसुता सती सत्यपरायणा ।
स्वरोचिस्त्वं ध्रुवं देवी नान्यथा सा वदिष्यति ॥१६॥
साहं प्राणप्रदायाद्य तां विद्यां स्वं तथा वपुः ।
प्रयच्छामि प्रतीच्छ त्वं प्रसादसुमुखो मम ॥१७॥
मार्कण्डेय उवाच
एवमस्त्विति तामाह स तु कन्यां कलावतीम् ।
विभावर्याः कलावत्याः स्निग्धदृष्ट्यानुमोदितः ॥१८॥
जग्राह च ततः पाणी स तयोरमरद्युतिः ।
नदत्सु देवतूर्येषु नृत्यन्तीष्वप्सरः सु च ॥१९॥
इति श्रीमार्कण्जडेयपुराणेठस्वारोचिषे मन्वन्तरेऽ चतुः षष्टितमोऽध्यायः
N/A
References : N/A
Last Updated : March 26, 2023
TOP