संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| एकोनसप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - एकोनसप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत एकोनसप्ततितमोऽध्यायः Translation - भाषांतर ऋषिदर्शनवर्णनम्क्रौष्टुकिरुवाचविस्तरात्कथितं ब्रह्मन्मम स्वारोचिषं त्वया ।मन्वन्तरं तथैवाष्टौ ये पृष्टा निधयो मया ॥१॥स्वायम्भुवं पूर्वमेव मन्वन्तरमुदाहृतम् ।मन्वन्तरं तृतीयं मे कथयौत्तमसंज्ञितम् ॥२॥मार्कण्डेय उवाचउत्तानपादपुत्रोऽभूदुत्तमो नाम नामतः ।सुरुच्यास्तनयः ख्यातो महाबलपराक्रमः ॥३॥धर्मात्मा च महात्मा च पराक्रमधनो नृपः ।अतीत्य सर्वभूतानि बभौ भानुपराक्रमः ॥४॥समः शत्रौ च मित्रे च परे पुत्रे च धर्मवित् ।दुष्टे च यमवत्साधौ सोमवच्च महामुने ॥५॥बाभ्रव्यां बहुलां नाम उपयेमे स धर्मवित् ।उत्तानपादतनयः शचीमिन्द्र इवोत्तमः ॥६॥तस्यामतीव तस्यासीद्द्विजवर्य मनः सदा ।स्नेहवच्छशिनो यद्वद्रोहिण्यां निहितास्पदम् ॥७॥अन्यप्रयोजनासक्तिमुपैति न हि तन्मनः ।स्वप्ने चैव तदालम्बि मनोऽभूत्तस्य भूभृतः ॥८॥स च तस्याः सुचार्वङ्ग्या दर्शनादेव पार्थिवः ।ददाह लोचनैर्गात्रे गात्रस्पर्शश्च तन्मयः ॥९॥श्रोत्रोद्वेगकरं वाक्यं प्रियमप्यवनीपतेः ।तस्यापि भूरि सन्मानं मेने परिभवं ततः ॥१०॥अवमेने स्रजं दत्तां शुभान्याभरणानि च ।उत्तस्थावर्धपीतेव पिबतोऽस्य वरासवम्. ॥११॥भुञ्जता च नरेन्द्रेण क्षणमात्रं करे धृता ।बुभुजे स्वल्पकं भक्ष्यं द्विज नातिमुदावती ॥१२॥एवं तस्यानुकूलस्य नानुकूला महात्मनः ।प्रभूततरमत्यर्थं चक्रे रागं महीपतिः ॥१३॥अथ पानगतो भूपः कदाचित्तां मनस्विनीम् ।सुराभृतं पानपात्रं ग्राहयामास सादरः ॥१४॥पश्यतां भूमिपालानां वारमुख्या समन्वितः ।प्रगीयमानो मधुरैर्गेयगायनतत्परैः ॥१५॥सा तु नेच्छति तत्पात्रमादातुं तत्पराङ्मुखी ।समक्षमवनीशानां ततः क्रुद्धः स पार्थिवः ॥१६॥उवाच द्वाःस्थमाहूय निश्वसन्नुरगो यथा ।निराकृतस्तया देव्या प्रियया पतिरप्रियः ॥१७॥द्वास्थैनां दुष्टहृदयामादाय विजने वने ।परित्यज्याशु नैतत्ते विचार्यं वचनं मम ॥१८॥मार्कण्डेय उवाचततो नृपस्य वचनमविचार्यमवेक्ष्य सः ।द्वाःस्थस्तत्याज तां सुभ्रूमारोप्य स्यन्दने वने ॥१९॥सा च तं विपिने त्यागं नीता तेन महीभृता ।अपश्यमाना तं मेने परं कृतमनुग्रहम् ॥२०॥सोऽपि तत्रानुरागार्तिदह्यमानात्ममानसः ।औत्तानपादिर्भूपालो नान्यां भार्यामविन्दत ॥२१॥सस्मार तां सुचार्वङ्गीमहर्निशमनिर्वृतः ।चकार च निजं राज्यं प्रजाधर्मेण पालयन् ॥२२॥प्रजाः पालयतस्तस्य पितुः पुत्रानिवौरसान् ।आगत्य ब्राह्मणः कश्चिदिदमाहार्त्तमानसः ॥२३॥ब्राह्मण उवाचमहाराज भृशार्त्तोऽस्मि श्रूयतां गदतो मम ।नृणामार्तिपरित्राणमन्यतो न नराधिपात् ॥२४॥मम भार्या प्रसुप्तस्य केनाप्यपहृता निशि ।गृहद्वारमनुद्धाट्य तां समानेतुमर्हसि ॥२५॥राजोवाचन वेत्सि केनापहृता क्व वा नीता तु सा द्विज ।यतामि विग्रहे कस्य कुतो वाप्यानयामि ताम् ॥२६॥ब्राह्मण उवाचतथैव स्थगिते द्वारि प्रसुप्तस्य गृहे मम ।हृता हि भार्या किं केनेत्येतद्विज्ञायते भवान् ॥२७॥त्वं रक्षिता नो नृपते षड्भागादानवेतनः ।धर्मस्य तेऽतो निश्चिन्ताः स्वपन्ति मनुजा निशि ॥२८॥राजोवाचन ते दृष्टा मया भार्या यादृग्रूपा च देहतः ।वयश्चैव समाख्याहि किंशीला ब्राह्मणी च ते ॥२९॥ब्राह्मण उवाचकठोरनेत्रा सात्युच्चा ह्रस्वबाहुः कृशानना ।( लम्बोदरीं हस्वस्फिजं तथा ह्रस्वस्तनीं नृप) । विरूपरूपा भूपाल न निन्दामि तथैव ताम् ॥३०॥वाचि भूपातिपरुषा न सौम्या सा च शीलतः ।इत्याख्याता मया भार्या सा करालनिरीक्षणा ॥३१॥मनागतीतं भूपाल तस्याश्च प्रथमं वयः ।तादृग्रूपा हि मे भार्या सत्यमेतन्मयोदितम् ॥३२॥राजोवाचअलं ते ब्राह्मण तया भार्यामन्यां ददामि ते ।सुखाय भार्या कल्याणी दुःखहेतुर्हि तादृशी ॥३३॥अल्पा कुरूपता विप्र कारणं शीलमुत्तमम् ।रूपशीलविहीना या त्याज्या तेऽन्येन सा हृता ॥३४॥ब्राह्मण उवाचरक्ष्या भार्या महीपाल इति च श्रुतिरुत्तमा ।भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ॥३५॥आत्मा हि जायते तस्य सा रक्ष्यातो नरेश्वर ।प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥३६॥तस्यामरक्ष्यमाणायां भविता वर्णसङ्करः ।स पातयेन्महीपाल पूर्वान्स्वर्गादधः पितॄन् ॥३७॥अनुज्ञाय गुरुं राजन्दत्त्वान्यां जातवेदसे ॥३८॥समिधं तु मया भार्या वृतेयं कर्कशा यतः ।कथमेतां विहायान्यभार्यया सह सञ्चरे ॥३९॥गृह्यधर्मो यतो ब्रह्म प्राप्यते शाश्वतं नरैः ।पूर्वोढया तु धर्मेण गृही कुर्वन्न सीदति ॥४०॥त्यक्त्वा तां च क्रियां कुर्वन्नैव कर्मफलं लभेत् ।अग्निना सह या नूनं सा जगाम गृहं शुभा ॥४१॥धर्मस्य ग्रहणे सा तु पूर्वोढैव प्रशस्यते ।शठायाचारणात्तस्या जायते वर्णसङ्करः ॥४२॥धर्महानिश्चानुदिनमभार्यस्य भवेन्मम ।नित्यक्रियाणां विभ्रंशात्स चापि पतनाय मे ॥४३॥तस्यां च पृथिवीपाल भवित्री मम सन्ततिः ।तव षड्भागदात्री सा भवित्री धर्महेतुकी ॥४४॥तदेतत्ते मया ख्याता पत्नी या मे हृता प्रभो ।तां समानय रक्षायां भवानधिकृतो यतः ॥४५॥मार्कण्डेय उवाचस तस्यैवं वचः श्रुत्वा विमृश्य च नरेश्वरः ।सर्वोपकरणैर्युक्तमारुरोह महारथम् ॥४६॥इतश्चेतश्च तेनासौ परिबभ्राम मेदिनीम् ।ददर्श च महारण्ये तापसाश्रममुत्तमम् ॥४७॥अवतीर्य च तत्रासौ प्रविश्य ददृशे मुनिम् ।कौश्यां बृष्यां समासीनं ज्वलन्तमिव तेजसा ॥४८॥स दृष्ट्वा नृपतिं प्राप्य समुत्थाय त्वरान्वितः ।सम्मान्य स्वागतेनैव शिष्यमाहार्घ्यमानय ॥४९॥तमाह शिष्यः शनकैर्दातव्योऽर्घ्योऽस्य किं मुने ।तदाज्ञापय सञ्चिन्त्य तवाज्ञां हि करोम्यहम् ॥५०॥ततोऽवगतवृत्तान्तो भूपतेस्तस्य स द्विजः ।सम्भाषासनदानेन चक्रे सम्मानमात्मवान् ॥५१॥ऋषिरुवाचकिं निमित्तमिहायातो भवान्किं ते चिकिर्षितम् ।उत्तानपादतनयं वेद्मि त्वामुत्तमं नृप ॥५२॥राजोवाचब्राह्मणस्य गृहाद्भार्या केनाप्यपहृता मुने ।अविज्ञातस्यरूपेण तामन्वेष्टुमिहागतः ॥५३॥पृच्छामि यत्ते तन्मे त्वं प्रणतस्यानुकम्पया॥अभ्यागतस्याथ गृहं भगवन्वक्तुमर्हसि ॥५३॥ऋषिरुवाच॥पृच्छ मामवनीपाल यत्प्रष्टव्यमशङिकितः॥वक्तव्यं चेत्तव मया कथयिष्यामि तत्त्वतः ॥५४॥राजोवाच॥गृहागताय यो मह्यं प्रथमे दर्शने मुने॥त्वया समुद्यतो दातुं कथं सोऽर्घ्यो निवर्तितः ॥५५॥ऋषिरुवाच॥त्वद्दर्शनेन रभसादज्ञप्तोऽयं मया नृप॥यदा तदाहमेतेन शिष्येण प्रतिबोधितः ॥५६॥एष वेत्ति जगत्यत्र मत्प्रसादादनागतम्॥यथाहं समतीतञ्च वर्तमानञ्च सर्वतः ॥५३ ॥आलोच्याज्ञापयेत्युक्ते ततो ज्ञातं मयापि तत् ।ततो न दत्तवानर्घमहं तुभ्यं विधानतः ॥५४॥सत्यं राजन् ! त्वमर्घार्हः कुले स्वायम्भुवस्य च ।तथापि नार्घयोग्यं त्वां मन्यामो वयमुत्तमम् ॥५५॥राजोवाचकिं कृतं हि मया ब्रह्मन् ! ज्ञानादज्ञानतोऽपि वा ।येन त्वत्तोर्ऽघमर्हामि नाहमभ्यागतश्चिरात् ॥५६॥ऋषिरुवाचकिं विस्मृतन्ते यत्पत्नी त्वया त्यक्ता च कानने ।परित्यक्तस्तया सार्धं त्वया धर्मो नृपाखिलः ॥५७॥पक्षेण कर्मणो हान्या प्रयात्यस्पर्शतां नरः ।विण्मूत्रैर्वार्षिकी यस्य हानिस्ते नित्यकर्मणः ॥५८॥पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्तरि ।दुः शीलापि तथा भार्या पोषणीया नरेश्वर ॥५९॥प्रतिकूला हि सा पत्नी तस्य विप्रस्य या हृता ।तथापि धर्मकामोऽसौ त्वामुद्योतितवान् नृप ॥६०॥चलतः स्थापयस्यन्यान् स्वधर्मेषु महीपते ।त्वां स्वधर्माद्विचलितं कोऽपरः स्थापयिष्यति ॥६१॥मार्कण्डेय उवाचविलक्ष्यः स महीपाल इत्युक्तस्तेन धीमता ।तथेत्युक्त्वा च पप्रच्छ हृतां पत्नीं द्विजन्मनः ॥६२॥भगवन् ! केन नीता सा पत्नी विप्रस्य कुत्र वा ।अतीतानागतं वेत्ति जगत्यवितथं भवान् ॥६३॥ऋषिरुवाचतां जहाराद्रितनयो बलाको नाम राक्षसः ।द्रक्ष्यसे चाद्य तां भूप ! उत्पलावतके वने ॥६४॥गच्छ संयोजयाशु त्वं भार्यया हि द्विजात्तमम् ।मा पापास्पदतां यातु त्वमिवासौ दिने दिने ॥६५॥इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकोनसप्ततितमोऽध्यायः N/A References : N/A Last Updated : March 26, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP