संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुश्चत्वारिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुश्चत्वारिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुश्चत्वारिंशोऽध्यायः Translation - भाषांतर सुबाहुरुवाचयदर्थं नृपशार्दूल ! त्वामहं शरणं गतः ।तन्मया सकलं प्राप्तं यास्यामि त्वं सुखी भव ॥१॥काखिराज उवाचकिं निमित्तं भवान् प्राप्तो निष्पन्नोर्ऽथश्च कस्तव ।सुबाहो ! तन्ममाचक्ष्व परं कौतूहलं हि मे ॥२॥समाक्रान्तमलर्केण पितृपैतामहं महत् ।राज्यं देहीति निर्जित्य त्वयाहमभिचोदितः ॥३॥ततो मया समाक्रम्य राज्यमस्यानुजस्य ते ।एतत्ते बलमानीतं तद्भुङ्क्ष्वस्वकुलोचितम् ॥४॥सुबाहुरुवाचकाशिराज ! निबोध त्वं यदर्थमयमुद्यमः ।कृतो मया भवांश्चैव कारितोऽत्यन्तमुद्यमम् ॥५॥भ्राता ममायं ग्राम्येषु सक्तो भोगेषु तत्त्ववित् ।विमूढौ बोधवन्तौ च भ्रातरावग्रजौ मम ॥६॥तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे ।तथावबोधो विन्यस्तः कर्णयोरवनीपते ॥७॥तयोर्मम च विज्ञेयाः पदार्था ये मता नृभिः ।प्राकाश्यं मनसो नीतास्ते मात्रा नास्य पार्थिव ॥८॥यथैकमर्थे यातानामेकस्मिन्नवसीदति ।दुः खं भवति साधूनां ततास्माकं महीपते ॥९॥गार्हस्थ्यमोहमापन्ने सीदत्यस्मिन्नरेश्वर ।सम्बन्धिन्यस्य देहस्य बिभ्रति भ्रातृकल्पनाम् ॥१०॥ततो मया विनिश्चित्य दुः खाद्वैराग्यभावना ।भविष्यतीत्यस्य भवानित्युद्योगाय संश्रितः ॥११॥तदस्य दुः खाद्वैराग्यं संबोधादवनीपते ।समुद्भूतं कृतं कार्यं भद्रं तेऽस्तु व्रजाम्यहम् ॥१२॥उष्ट्वा मदालसागर्भे पीत्वा सत्सास्तथा स्तनम् ।नान्यनारीसुतैर्यातं वर्त्म यात्विति पार्थिव ॥१३॥विचार्य तन्मया सर्वं युष्मत्संश्रयपूर्वकम् ।कृतं तच्चापि निष्पन्नं प्रयास्ये सिद्धये पुनः ॥१४॥उपेक्ष्यते सीदमानः स्वजनो बान्धवः सुहृत् ।यैर्नरेन्द्र ! न तान् मन्ये सेन्द्रिया विकला हि ते ॥१५॥सुहृदि स्वजने बन्धौ समर्थे योऽवसीदति ।धर्मार्थकाममोक्षेभ्यो वाच्यास्ते तत्र न त्वसौ ॥१६॥एतत् त्वत्सङ्गमाद् भूप ! मया कार्यं महत् कृतम् ।स्वस्ति तेऽस्तु गमिष्यामि ज्ञानभाग्भव सत्तम ॥१७॥काशिराज उवाचउपकारस्त्वया साधोरलर्कस्य कृतो महान् ।ममोपकाराय कथं न करोषि स्वमानसम् ॥१८॥फलदायी सतां सदिभः सङ्गमो नाफलो यतः ।तस्मात्तवत्संश्रयाद्युक्ता मया प्राप्ता समुन्नतिः ॥१९॥सुबाहुरुवाचधर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ।तत्र धर्मार्थकामास्ते सकला हीयतेऽपरः ॥२०॥तत्ते संक्षेपतो वक्ष्ये तदिहैकमनाः शृणु ।श्रुत्वा च सम्यगालोच्य यतेथाः श्रेयसे नृप ॥२१॥ममेतिप्रत्ययो भूप ! न कार्योऽहमिति त्वया ।सम्यगालोच्य धर्मो हि धर्माभावे निराश्रयः ॥२२॥कस्याहमिति संज्ञेयमित्यालोच्य त्वयात्मना ।बाह्यन्तर्गतमालोच्यमालोच्यापररात्रिषु ॥२३॥अव्यक्तादिविशेषन्तमविकारमचेतनम् ।व्यक्ताव्यक्तं त्वया ज्ञेयं ज्ञाता कश्चाहमित्युत ॥२४॥एतस्मिन्नेव विज्ञाने विज्ञातमखिलं त्वया ।अनात्मन्यात्मविज्ञानमखे खमिति मूढता ॥२५॥सोऽहं सर्वगतो भूप ! लोकसंव्यवहारतः ।मयेदमुच्यते सर्वं त्वया पृष्टो व्रजाम्यहम् ॥२६॥एवमुक्त्वा ययौ धीमान् ! सुबाहुः काशिभूमिपम् ।काशिराजोऽपि संपूज्य सोऽलर्कं स्वपुरं ययौ ॥२७॥अलर्कोऽपि सुतं ज्येष्ठमभिषिच्य नराधिपम् ।वनं जगाम सन्त्यक्तसर्वसङ्गः स्वसिद्धये ॥२८॥ततः कालेन महाता निर्द्वन्द्वो निष्परिग्रहः ।प्राप्य योगर्धिमतुलां परं निर्वाणमाप्तवान् ॥२९॥पश्यन् जगदिदं सर्वं सदेवासुरमानुषम् ।पाशैर्गुणमयैर्बद्धं बध्यमानञ्च नित्यशः ॥३०॥पुत्रादिभ्रातृपुत्रादि-स्वपारक्यादिभावितैः ।आकृष्यमाणं करणैर्दुःखार्तं भिन्नदर्शनम् ॥३१॥अज्ञानपङ्कगर्भस्थमनुद्धारं महामतिः ।आत्मानञ्च समुत्तीर्णं गाथामेतामगायत ॥३२॥अहो कष्टं यदस्माभैः पूर्वं राज्यमनुष्ठितम् ।इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥३३॥जड उवाचतातैनं त्वं समातिष्ठ मुक्तये योगमुत्तमम् ।प्राप्स्यसे येन तद् ब्रह्म यत्र गत्वा न शोचसि ॥३४॥ततोऽहमपि यास्यामि किं यज्ञैः किं जपेन मे ।कृतकृत्यस्य करणं ब्रह्मभावाय कल्पते ॥३५॥त्वत्तोऽनुज्ञामवाप्याहं निर्द्वन्द्वो निष्परिग्रहः ।प्रयतिष्ये तथा मुक्तौ यथा यास्यामि निर्वृतिम् ॥३६॥पक्षिण ऊचुःएवमुक्त्वा स पितरं प्राप्यानुज्ञां ततश्च सः ।ब्रह्मन् ! जगाम मेधावी परित्यक्तपरिग्रहः ॥३७॥सोऽपि तस्य पिता तद्वत् क्रमेण सुमहामतिः ।वानप्रस्थं समास्थाय चतुर्थाश्रममभ्यगात् ॥३८॥तत्रात्मजं समासाद्य हित्वा बन्धं गुणादिकम् ।प्राप सिद्धिं परां प्राज्ञस्तत्कालोपात्तसंमतिः ॥३९॥एतत्ते कथितं ब्रह्मन् ! यत्पृष्टा भवता वयम् ।सुविस्तरं यथावच्च किमन्यच्छ्रोतुमिच्छसि ॥४०॥इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे जडोपाख्यानं नाम चतुश्चत्वारिंशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP