मार्कण्डेयपुराणम् - द्विषष्टितमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
मार्कण्डेय उवाच
एवन्तु वदतस्तस्य द्विजपुत्रस्य पावकः ।
गार्हपत्यः शरीरे तु सन्निधानमथाकरोत् ॥१॥
तेन चाधिष्ठितः सोऽथ प्रभामण्डलमध्यगः ।
व्यदीपयत तं देशं मूर्तिमानिव हव्यवाट् ॥२॥
तस्यास्तु सुतरां तत्र तादृग्रूपे द्विजन्मनि ।
अनुरागोऽभवद्विप्रं पश्यन्त्या देवयोषितः ॥३॥
ततः सोऽधिष्ठितस्तेन हव्यवाहेन तत्क्षणात् ।
यथापूर्वं तथा गन्तुं प्रवृत्तो द्विजनन्दनः ॥४॥
जगाम च त्वरायुक्तस्तया देव्या निरीक्षितः ।
आदृष्टिपातात्तन्वङ्ग्या निश्वासोत्कम्पिकन्धरम् ॥५॥
ततः क्षणेनैव तदा निजगेहमवाप्य सः ।
यथाप्रोक्तं द्विजश्रेष्ठश्चकार सकलाः क्रियाः ॥६॥
अथ सा चारुसर्वाङ्गी तत्रासक्तात्ममानसा ।
निश्वासपरमा निन्ये दिनशेषं तथा निशाम् ॥७॥
निश्वसन्त्यनवद्याङ्गी हाहेति रुदती मुहुः ।
मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा ॥८॥
न विहारे न चाहारे रमणीये न वा वने ।
न कन्दरेषु रम्येषु सा बबन्ध तदा रतिम् ॥९॥
चकार रममाणे च चक्रवाकयुगे स्पृहाम् ।
मुक्ता तेन वरारोहा निनिन्द निजयौवनम् ॥१०॥
क्वागताहमिमं शैलं दुष्टदैवबलात्कृता ।
क्व च प्राप्तः स मे दृष्टेर्गोचरं तादृशो नरः ॥११॥
यद्यद्य स महाभागो न मे सङ्गमुपैष्यति ।
तत्कामाग्निरवश्यं मां क्षपयिष्यति दुः सहः ॥१२॥
रमणीयमभूद्यत्तत्पुंस्कोकिलनिनादितम् ।
तेन हीनन्तदेवैतद्दहतीवाद्य मामलम् ॥१३॥
मार्कण्डेय उवाच
इत्थं सा मदनाविष्टा जगाम मुनिसत्तम ।
ववृधे च तदा रागस्तस्यास्तस्मिन् प्रतिक्षणम् ॥१४॥
कलिर्नाम्ना तु गन्धर्वः सानुरागो निराकृतः ।
तया पूर्वमभूत्सोऽथ तदवस्थां ददर्श ताम् ॥१५॥
स चिन्तयामास तदा किं न्वेषा गजगामिनी ।
निश्वासपवनम्लाना गिरावत्र वरूथिनी ॥१६॥
मुनिशापक्षता किंनु केनचित् किं विमानिता ।
वाष्पवारिपरिक्लिन्नमियन्धत्ते यतो मुखम् ॥१७॥
ततः स दध्यौ सुचिरं तमर्थं कौतुकात् कलिः ।
ज्ञातवांश्च प्रभावेण समाधेः स यथातथम् ॥१८॥
पुनः स चिन्तयामास तद्विज्ञाय मुनेः कलिः ।
ममोपपादितं साधु भाग्यैरेतत्पुराकृतैः ॥१९॥
मयैषा सानुरागेण बहुशः प्रार्थिता सती ।
निराकृतवती सेयमद्य प्राप्या भविष्यति ॥२०॥
मानुषे सानुरागेयं तत्र तद्रूपधारिणि ।
रंस्यते मय्यसन्दिग्धं किं कालेन करोमि तत् ॥२१॥
मार्कण्डेय उवाच
आत्मप्रभावेण ततस्तस्य रूपं द्विजन्मनः ।
कृत्वा चचार यत्रास्ते निषण्णा सा वरूथिनी ॥२२॥
सा तं दृष्ट्वा वरारोहा किञ्चिदुत्फुल्ललोचना ।
समेत्य प्राह तन्वङ्गी प्रसीदेति पुनः पुनः ॥२३॥
त्वया त्यक्ता न सन्देहः परित्यक्ष्यामि जीवितम् ।
तत्राधर्मः कष्टतरः क्रियालोपो भविष्यति ॥२४॥
मया समेत्य रम्येऽस्मिन् महाकन्दरकन्दरे ।
मत्परित्राणजं धर्ममवश्यं प्रतिपत्स्यसे ॥२५॥
आयुषः सावशेषं मे नृनमस्ति महामते ।
निवृत्तस्तेन नूनं त्वं हृदयाह्लादकारकः ॥२६॥
कलिरुवाच
किं करोमि क्रियाहानिर्भवत्यत्र सतो मम ।
त्वमप्येवंविधं वाक्यं ब्रवीषि तनुमध्यमे ॥२७॥
तदहं सङ्कटं प्राप्तो यद्ब्रवीमि करोषि तत् ।
यदि स्यात् सङ्गमो मेऽद्य भवत्या सह नान्यथा ॥२८॥
वरूथिनी उवाच
प्रसीद यद्ब्रवीषि त्वं तत्करोमि न ते मृषा ।
ब्रवीम्येतदनाशङ्कं यत्ते कार्यं मयाधुना ॥२९॥
कलिरुवाच
नाद्य संभोगसमये द्रष्टव्योऽहं त्वया वने ।
निमीलिताक्ष्याः संसर्गस्तव सुभ्रु मया सह ॥३०॥
वरूथिन्युवाच
एवं भवतु भद्रन्ते यथेच्छसि तथास्तु तत् ।
मया सर्वप्रकारं हि वशे स्थेयं तवाधुना ॥३१॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे द्विषष्टितमोऽध्यायः ।
N/A
References : N/A
Last Updated : March 26, 2023
TOP