संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्वादशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्वादशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्वादशोऽध्यायः Translation - भाषांतर पितोवाचसाधु वत्स ! त्वयाख्यातं संसारगहनं परम् ।ज्ञानप्रदानसम्भूतं समाश्रित्य महाफलम् ॥१॥तत्र ते नरकाः सर्वे यथा वै रौरवस्तथा ।वर्णितास्तान् समाचक्ष्व विस्तरेण महामते ॥२॥पुत्र उवाचरौरवस्ते समाख्यातः प्रथमं नरको मया ।महारौरवसंज्ञं तु शृणुष्व नरकं पितः ॥३॥योजनानां सहस्राणि सप्त पञ्च समन्ततः ।तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः ॥४॥तत्तापतप्ता सर्वाशा प्रोद्यदिन्दुसमप्रभा ।विभात्यतिमहारौद्रा दर्शनस्पर्शनादिषु ॥५॥तस्यां बद्धः कराभ्याञ्च पद्भ्याञ्चैव यमानुगैः ।मुच्यते पापकृन्मध्ये लुठमानः स गच्छति ॥६॥काकैर्वकैर्वृकोलूकैर्वृश्चिकैर्मशकैस्तथा ।भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते ॥७॥दह्यमानः पितर्मातर्भ्रातस्तातेति चाकुलः ।वदत्यसकृदुद्विग्नो न शान्तिमधिगच्छति ॥८॥एवं तस्मान्नरैमर्मोक्षो ह्यतिक्रान्तैरवाप्यते ।वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥९॥तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः ।महारौरववद् दीर्घस्तथा स तमसा वृतः ॥१०॥शीतार्तास्तत्र धावन्तो नरास्तमसि दारुणे ।परस्परं समासाद्य परिरभ्याश्रयन्ति च ॥११॥दन्तास्तेषाञ्च भज्यन्ते शीतार्तिपरिकम्पिताः ।क्षुत्तृष्णाप्रबलास्तत्र तथैवान्येऽप्युपद्रवाः ॥१२॥हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः ।मज्जासृग्गलितं तस्मादश्नुवन्ति क्षुधान्विताः ॥१३॥लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे ।एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः ॥१४॥प्राप्यते ब्राह्मणश्रेष्ठ यावद्दुष्कृतसंक्षयः ।निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥१५॥तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः ।तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः ॥१६॥यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् ।न चैषां जीवितभ्रंशो जायते द्विजसत्तम ॥१७॥छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति च ।एवं वर्षसहस्राणि छिद्यन्ते पापकर्मिणः ॥१८॥तावद् यावदशेषं वै तत्पापं हि क्षयं गतम् ।अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम ॥१९॥अत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते ।तान्येव यत्र चक्राणि घटीयन्त्राणि चान्यतः ॥२०॥दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।चक्रेष्वारोपिताः केचिद् भ्राम्यन्ते तत्र मानवाः ॥२१॥यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।घटीयन्त्रेषु चैवान्यो बद्धस्तोये यथा घटी ॥२२॥भ्राम्यन्ते मानवा रक्तमुदिगरन्तः पुनः पुनः ।अस्त्रैर्मुखविनिष्क्रान्तैः नेत्रैरश्रुविलम्बिभिः ॥२३॥दुः खानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः ।असिपत्रवनं नाम नरकं शृणु चापरम् ॥२४॥योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः ।तप्ताः सूर्यकरैश्चण्डैर्यत्रातीव सुदारुणैः ॥२५॥प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ।तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते ॥२६॥पत्राणि तत्र खङ्गानां फलानि द्विजसत्तमम् ।श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः ॥२७॥महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः ।ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः ॥२८॥प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः ।हा मातर्हा तात ! इति क्रान्दन्तोऽतीव दुः खिता ॥२९॥दह्यमानाङ्घ्रयुगला धरणीस्थेन वह्निना ।तेषां गतानां तत्रासिपत्रपाती समीरणः ॥३०॥प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि ।ततः पतन्ति ते भूमौ ज्वलत्पवकसञ्चये ॥३१॥लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले ।सारमेयास्ततः शीघ्रं शातयन्ति शरीरतः ॥३२॥तेषामङ्गानि रुदतामनेकान्यतिभीषणाः ।असिपत्रवनं तात ! मयैतत् कीर्तितं तव ॥३३॥अतः परं भीमतरं तप्तकुम्भं निबोध मे ।समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ॥३४॥ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः ।तेषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥३५॥क्वाथ्यन्ते विस्फुटद्गात्र-गलन्मज्जजलाविलाः ।स्फुरत्कपालनेत्रास्थिच्छिद्यमाना विभीषणैः ॥३६॥गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।पुनः सिमसिमायन्ते तैलेनैक्यं व्रजन्ति च ॥३७॥द्रवीभूतैः शिरोगात्र-स्नायु-मांस-त्वगस्थिभिः ।ततो याम्यैर्नरैराशु दर्व्या घट्टनघट्टिताः ॥३८॥कृतावर्ते महातैले मथ्यन्ते पापकर्मिणः ।एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः ॥३९॥इति श्रीमार्कण्डेयपुराणे पिताः पुत्रसंवादे महारौरवादिनरकाख्यानं नाम द्वादशोऽध्यायः N/A References : N/A Last Updated : March 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP