संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| द्व्यधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - द्व्यधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत द्व्यधिकशततमोऽध्यायः Translation - भाषांतर मार्तण्डोत्पत्तिवर्णनम्मार्कण्डेय उवाचततः स्वतेजसस्तस्मादाविर्भूतो विभावसुः ।अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः ॥१॥अथ तां प्रणतां देवीं तस्य संदर्शनान्मुने ।प्राह भास्वन्वृणुष्वेष्टवरं मत्तो यमिच्छसि ॥२॥प्रणता शिरसा सा च जानुपीडितमेदिनी ।प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥३॥देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।यज्ञभागाश्च दैत्यैश्च दानवैश्च बलाधिकैः ॥४॥तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून् ॥५॥यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ॥६॥तथानुकम्पां पुत्राणां सुप्रसन्नो रवे मम ।कुरु प्रपन्नार्तिहर स्थितिकर्त्ता त्वमुच्यसे ॥७॥मार्कण्डेय उवाचततस्तामाह भगवान्भास्करो वारितस्करः ।प्रणतामदितिं विप्र प्रसादसुमुखो विभुः ॥८॥सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः ।त्वत्पुत्रशत्रूनदिते नाशयाम्याशु निर्वृतः ॥९॥इत्युक्त्वा भगवान्भास्वानन्तर्द्धानमुपागमत् ।निवृत्ता सापि तपसः संतृप्ताखिलवाञ्छिता ॥१०॥ततो रश्मिसहस्रात्तु सौषुम्नाख्यो रवेः करः ।विप्रावतारं संचक्रे देवमातुरथोदरे ॥११॥कृच्छ्रचान्द्रायणादीनि सा च चक्रे समाहिता ।शुचिः संधारयामास दिव्यं गर्भमिति द्विज ॥१२॥ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ।किं मारयसि गर्भाण्डमिति नित्योपवासिनी ॥१३॥सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना ।न मारितं विपक्षाणां मृत्यवे तद्भविष्यति ॥१४॥मार्कण्डेय उवाचइत्युक्त्वा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः ।जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता ॥१५॥तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् ।तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात् ॥१६॥संस्तूयमानः स तदा गर्भाण्डात्प्रकटोऽभवत् ।पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥१७॥अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् ।सतोयमेघगम्भीरवागुवाचाशरीरिणी ॥१८॥मारितं ते यतः प्रोक्तमेतदण्डं त्वया मुने ।तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥१९॥सूर्याधिकारं च विभुर्जगत्येष करिष्यति ।हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् ॥२०॥देवा निशम्येति वचो गगनात्समुपागमन् ।प्रहर्षमतुलं याता दानवाश्च हतौजसः ॥२१॥ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।सह देवैर्मुदा युक्तो दानवाश्च समभ्ययुः ॥२२॥तेषां युद्धमभूद्घोरं देवानामसुरैः सह ।शस्त्रास्त्रदीप्तिसंदीप्तं समस्तभुवनान्तरम् ॥२३॥तस्मिन्युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।तेजसा दह्यमानास्ते भस्मीभूता महासुराः ॥२४॥ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ।तुष्टुवुस्तेजसा योनिं मार्त्तण्डमदितिं तथा ॥२५॥स्वाधिकारांस्तथा प्राप्ता यज्ञभागांश्च पूर्ववत् ।भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् ॥२६॥कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः ।वृत्ताग्निपिण्डसदृशो दध्रे नातिस्फुरद्वपुः ॥२७॥इति श्रीमार्कण्डेयपुराणे मार्तण्डोत्पत्तिर्नाम द्व्यधिकशततमोऽध्यायः । १०२ । N/A References : N/A Last Updated : April 02, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP