संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रिंशोऽध्यायः Translation - भाषांतर मदालसोवाचनित्यं नैमित्तकञ्चैव नित्यनैमित्तिकं तथा ।गृहस्थस्य तु यत् कर्म तन्निशामय पुत्रक ! ॥१॥पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं तव ।नैमित्तिकं तथैवान्यत् पुत्रजन्मक्रियादिकम् ॥२॥नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः ।तत्र नैमित्तिकं वक्ष्ये श्राद्धमभ्युदयं तव ॥३॥पुत्रजन्मनि यत्कार्यं जातकर्मसमं नरैः ।विवाहादौ च कर्तव्यं सर्वं सम्यक् क्रिमोदितम् ॥४॥पितरश्चात्र सम्पूज्याः ख्याता नान्दीमुखास्तु ये ।पिण्डांश्च दधिसंमिश्रान् दद्याद् यवसमन्वितान् ॥५॥उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः ।वैश्वदेवविहीनं तत् केचिदिच्छन्ति मानवाः ॥६॥युग्माश्चात्र द्विजाः कार्यास्ते च पूज्याः प्रदक्षिणम् ।एतन्नैमित्तिकं वृद्धौ तथान्यच्चौर्ध्वदेहिकम् ॥७॥मृताहनि च कर्तव्यमेकोद्दिष्टं शृणुष्व तत् ।दैवहीनं तथा कार्यं तथैवैकपवित्रकम् ॥८॥आवाहनं न कर्तव्यमग्नौकरणवर्जितम् ।प्रेतस्य पिण्डमेकञ्च दद्यादुच्छिष्टसन्निधौ ॥९॥तिलोदकं चापसव्यं तन्नामस्मरणान्वितम् ।अक्षय्यममुकस्येति स्थाने विप्रविसर्जने ॥१०॥अभिरण्यतामिति ब्रूयाद् ब्रूयुस्तेऽभिरताः स्म ह ।प्रतिमासं भवेदेतत् कार्यमा वत्सरं नरैः ॥११॥अथ संवत्सरे पूर्णे यदा वा क्रियते नरैः ।सपिण्डीकरणं कार्यं तस्यापि विधिरुच्यते ॥१२॥तच्चापि दैवरहितमेकार्घ्यैकपवित्रकम् ।नैवाग्नौकरणं तत्र तच्चावाहनवर्जितम् ॥१३॥अपसव्यञ्च तत्रापि भोजयेदयुजो द्विजान् ।विशेषस्तत्र चान्योऽस्ति प्रतिमासं क्रियाधिकः ॥१४॥तं कथ्यमानमेकाग्रो वदन्त्या मे निशामय ।तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥१५॥कुर्यात् पितॄणां त्रितयमेकं प्रेतस्य पुत्रक ।पात्रत्रये प्रेतपात्रमर्घ्यञ्चैव प्रसेचयेत् ॥१६॥ये समाना इति जपन् पूर्ववच्छेषमाचरेत् ।स्त्रीणामप्येवमेवैतदेकीद्दिष्टमुदाहृतम् ॥१७॥सपिण्डीकरणं तासां पुत्राभावे न विद्यते ।प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ॥१८॥मृताहनि यथान्यायं नृणां यद्वदिहोदितम् ।पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः ॥१९॥मातुः सपिण्डा ये च स्युर्ये च मातुः सहोदकाः ।कुर्युरेनं विधिं सम्यगपुत्रस्य सुतासुतः ॥२०॥कुर्युर्मातामहायैवं पुत्रिकास्तनयास्तथा ।द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान् ॥२१॥पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि ।सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥२२॥तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना ।तज्जातीयैर्नरैः सम्याग् दाहाद्याः सकलाः क्रियाः ॥२३॥सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।एतास्ते कथिता वत्स ! नित्यनैमित्तकास्तथा ॥२४॥क्रियां श्राद्धाश्रयामन्यां नित्यनैमित्तिकीं शृणु ।दर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः ।नित्यातां नियतः कालस्तस्याः संसूचयत्यथ ॥२५॥इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने नैमित्तिकादिश्राद्धकल्पो नाम त्रिंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP