अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
शृणु व्यास महातीर्थं नाम्ना शंकरवापिका ॥
क्रीडमानेन देवेन निर्मितं तीर्थमुत्तमम् ॥१॥
प्रक्षिप्तं देवदेवेन कपालक्षालनं जलम् ॥
वापीगतं कृतं यस्मादतः शंकरवापिका ॥२॥
अर्काष्टम्यां नरः स्नात्वा दिशासु विदिशासु च ॥
पूर्वादिक्रमतो यावद्वापीमध्ये तथैव च ॥३॥
हविष्यान्नयुतान्व्यास दद्याच्च करका न्नवान्॥
शाकमूलांश्च विप्रेभ्यस्तस्य पुण्यफलं शृणु ॥४॥
परत्र चेह ये लोकाः सर्वभावसमन्विताः ॥
तत्रतत्र समायाति भुनक्त्यैश्वर्यमुत्तमम् ॥५॥
ये नरा कीर्तयिष्यंति माहात्म्यमतिभाविकाः ॥
रुद्रलोकेऽपि ते पूज्यास्तेभ्योऽपि सततं नमः ॥६॥
॥ सनत्कुमार उवाच ॥
ततो वै देवदेवेशः पिनाकी वृषभध्वजः ॥
तुष्टाव प्रयतो भूत्वा देवदेवं दिवाकरम् ॥७॥
आजगाम दिवानाथः संतुष्टः प्राह शंकरम् ॥८॥
॥ सूर्य उवाच ॥
वरं वरय भूतेश वरदोऽस्मि ददामि ते ॥
तमाह वरदश्चेत्त्वं याच्यमानं कुरुष्व मे ॥९॥
अंशेन स्थीयतामत्र हितार्थं सर्वदेहिनाम् ॥
अवतीर्णो रविस्तत्र श्रुत्वा माहेश्वरं वचः ॥१०॥
ततो देवाधिदेवस्य शंकरस्य महौजसः ॥
वाक्येन भास्करस्तत्र ययौ ख्यातिं महाद्युतिः ॥११॥
शंकरादित्यनामेति लोकानुग्रहकारकः ॥
देवा दैत्याश्च गंधर्वा विस्मिताः सह किन्नरैः ॥१२॥
अहो धन्यमिदं स्थानं यत्रास्ते त्रिपुरांतकः ॥
भास्करोऽपि च तत्रस्थस्तीर्थमध्ये च वर्तते ॥१३॥
ततस्तुष्टाश्च ते सर्वे ब्रह्माद्याः सुरसत्तमाः ॥
देवेशं पूजयामासुरादित्यं शंकरं तथा॥१४॥
मूर्तिमंतश्च ते देवा अवतीर्य च शोभनम् ॥
स्थापयित्वाऽब्रवीद्वाक्यं येऽत्र स्नास्यंति मानवाः ॥१५॥
न दुःखं जायते तेषां जरामरण शोकजम् ॥
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम्॥
तस्माच्चैवाधिकं ह्यत्र शंकरादित्यदर्शनात्॥१६॥
व्याधयो नाधयश्चैव दारिद्र्यं न कदाचन ॥
ऐश्वर्यं चातुलं तेषां जायते भुवि सर्वदा ॥१७॥
न रोगो न च दारिद्र्यं वियोगो न च बन्धुभिः ॥
जायते मुनिशार्दूल शंकरादित्यदर्शनात्॥१८॥
इत्येवं देवदेवेन पुरा वै शूलपाणिना ॥
शंकरादित्यनाम्ना च स्थापितं परमं पदम् ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनाम पञ्चदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : November 30, 2024
TOP