संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ३३

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
नारायणोऽपि संस्थाप्य शंखं दध्मौ प्रयत्नतः ॥
तुष्टाव प्रयतो भूत्वा स्तोत्रेणा नेन भास्करम् ॥१॥
॥ श्रीकृष्ण उवाच ॥
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ॥
दिवाकरं दिवानाथं तपनं तपतां वरम् ॥२॥
वरेण्यं वरदं विष्णुमनघं वासवानुजम् ॥
बलवीर्यं सहस्रांशुं सहस्रकिरणद्युतिम् ॥३॥
मयूखमालिनं विश्वं मार्तंडं चंडरोचिषम् ॥
सदातीतं सुभास्वंतं सप्तसप्तिं सुखोदयम् ॥४॥
देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम् ॥
तपोब्रह्ममयालोकं लोकपालमपांपतिम् ॥५॥
जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम् ॥
अर्कं निःश्रेयसपरं कारणं श्रेयसां परम् ॥६॥
इनं प्रभाविणं पुण्यं पतंगं पवगेश्वरम् ॥
दातारं वांछितार्थानां दृष्टादृष्ट- फलप्रदम् ॥७॥
गृहं गृहकरं हंसं हरिदश्वं हुताशनम् ॥
मंगल्यं मंगलं गेयं ध्रुवं धर्मप्रबोधनम् ॥८॥
भवसंभावित भावं भूतभव्यभवात्मकम् ॥
दुर्गमं दुर्गतिहरं हरनेत्रं त्रयीमयम् ॥९॥
त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् ॥
तेजोराशिसुनिर्वाणं विश्वेशं धाम सांप्रतम् ॥१०॥
कल्पं कल्पानलं कालं कालचक्रं क्रतुप्रियम् ॥
भूषणं मरुतं सूर्यं मणिरत्नं सुलोचनम् ॥११॥
त्वष्टारं विष्टरं विश्वं सदसत्कर्मसाक्षिकम् ॥
सवितारं सहस्राक्षं प्रजापालमधोक्षजम्॥ १२॥
ब्रह्माणं वासरारंभे रक्तवर्णं महाद्युतिम् ॥
शुक्लं मध्यंदिने रुद्रं श्यामं विष्णुं दिनक्षये ॥१३॥
नाम्नामष्टशतं दिव्यं विष्णुना समुदाहृतम् ॥
य इदं प्रयतो भूत्वा पठेद्भक्त्या समाहितः ॥१४॥
न तस्य विपदः क्वापि सर्वत्रापि शुभा गतिः ॥
धनधान्यसुखावाप्तिः पुत्रलाभश्च जायते ॥१५॥
तेजः प्रज्ञां परं लाभं ज्ञानं च लभते गतिम् ॥
एतच्छ्रुत्वा जगन्नाथो जगामादर्शनं ततः ॥१६॥
केशवार्कमुखं दृष्ट्वा पद्मरागसमप्रभम् ॥
विमुक्तः सर्वपापेभ्यः सूर्यलोके महीयते ॥१७॥
केशवार्कसमीपे तु रेणुतीर्थं प्रचक्षते ॥
तद्दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये केशवादित्यमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP