संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ५७

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
शृणु व्यास प्रवक्ष्यामि तीर्थमेकमतः परम् ॥
तीर्थानामुत्तमं तीर्थं गयानामेति नामतः ॥१॥
तत्र स्नात्वा नरो नित्यं मुच्यते च ऋणत्रयात् ॥
देवान्पितॄन्समभ्यर्च्य विष्णुलोकं स गच्छति ॥२॥
॥ व्यास उवाच ॥
कीकटेषु गया पुण्या नदी पुण्या पुनः पुना ॥
च्यवनस्याश्रमः पुण्यः पुण्यो राजगिरिस्तथा ॥३॥
स कथं विदितो देशे महाकालवने शुभे ॥
एतद्वेदितुमिच्छामि विस्तरेण तपोधन ॥। ४॥
॥ सनत्कुमार उवाच ॥
शृणु व्यास कथां पुण्यां पवित्रां पापहारिणीम् ॥
यस्याः श्रवणमात्रेण पितरो यांति सद्गतिम् ॥५॥
पुरा कृतयुगे पुण्ये युगादिदेवनामतः ॥
राजासीत्स तु धर्मात्मा पुण्यश्रवणकीर्तनः ॥६॥
तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान् ॥
बभूवुः सर्वसंपन्ना वर्धमानाः समंततः ॥७॥
धर्मश्चतुष्पदो नित्यं यस्मिन्राज्ञि प्रशासति ॥
कालवर्षी च पर्जन्य ऋतवः स्वांगचारिणः ॥८॥
बहुसस्यफला पृथ्वी गावश्च बहुदुग्धदाः ॥
वेदवादरता विप्राः क्षत्त्रिया बाहुशालिनः ॥९॥
वैश्या धनपरा नित्यं शूद्राः शुश्रूषणे रताः ॥
वर्णाश्रमरताः सर्वे सर्वे धर्मोपदेशकाः ॥१०॥
श्रुतिस्मृतिपरो धर्मो हृष्टपुष्टजनाकरः ॥
नाधिव्याध्यभिभूतश्च लक्ष्यते कोऽपि मानवः ॥११॥
दुःशीला दुर्भगा नारी विधवा नैव लक्ष्यते ॥
बहुपुत्राऽल्पपुत्रा च मृतपुत्रा न वंध्यका ॥१२॥
रूपशीलगुणोपेता पतिव्रतपरायणा ॥
नो मार्गः कंटसंकीर्णो दस्युदोषैश्च दूषितः ॥१३॥
हूयतां भुज्यतां शश्वद्दीयतां च गृहेगृहे ॥
दयादानतपोहोमजपयज्ञक्रियापराः ॥१४॥
जनाः सर्वत्र दृश्यंते सर्वधर्म परायणाः ॥
चतुष्पादचरो धर्मो ह्यधर्मोऽपादविग्रहः॥ १५॥
एवं राजा स धर्मात्मा युगादिदेवसंज्ञितः ॥
येनेयं पालिता पृथ्वी धर्मेण वर्धिताः प्रजाः ॥१६॥
अवंत्यां च पुरा व्यास यज्ञकोटिं समाचरत् ॥
तस्मिन्कालेतिविक्रांतस्तुहंडो नाम दानवः ॥१७॥
तेन सर्वं वशं नीतं चरा चरमिदंजगत् ॥
घोरं तप्त्वा तपः पुण्यं ब्रह्मलब्धवरः खलः ॥१८॥
नैव देवा न यज्ञाश्च वेदमार्गविवर्जिताः ॥
देवतापूजनं नास्ति स्वधा स्वाहा न दृश्यते ॥१९॥
उत्सन्नो धर्ममार्गोऽयं शाश्वतो वै दुरात्मना ॥
नष्टप्रायाः सुरास्तेन कृताः सर्वे द्विजोत्तमाः ॥२०॥
ब्रह्माणं शरणं जग्मुः पितृभिः सह साधुभिः ॥
किं कुर्मो वा क्व गच्छाम तुहंडेन पराजिताः ॥२१॥
इति श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥
समुत्थाय ततः सर्वैर्विष्णुलोकं जगाम ह ॥२२॥
तत्र गत्वा समाराध्य विष्णुं देवगणैः सह ॥
स्तुतिं पुरुषसूक्तेन विष्णोरतुलतेजसः ॥२३॥
प्रचक्रुः सर्व एवैते ह्यात्मनोभ्युदयाय च ॥
तदा तेषां शमिच्छन्ती वागुवाचाशरीरिणी ॥२४॥
श्रूयतां भोः सुरश्रेष्ठा भवतां श्रेय उत्तमम् ॥
यूयं यात क्षितौ क्षिप्रं महाकालवनं प्रति ॥२५॥
गुह्याद्गुह्यतरं पुण्यं पवित्रं पापनाशनम् ॥
नो यत्र मायिनां माया प्रकाशयति भूतले ॥२६॥
सर्वतीर्थमयं तीर्थं कोटितीर्थवरप्रदम् ॥
यत्र शिप्रा सरिच्छ्रेष्ठा सर्वकामफलप्रदा ॥२७॥
दैत्यांतकारिणी दिव्या महाकाली कुलेश्वरी ॥
कोटिकोटिगणाकीर्णा मातॄ णां शक्तिवर्धिनी ॥२८॥
यत्र गया महापुण्या फल्गुश्चैव महानदी ॥
पुरुषोत्तमगिरिश्रेष्ठो यत्र बुद्धगया स्मृता ॥२९॥
तथैवाद्यगया ख्याता त्रिषु लोकेषु विश्रुता ॥
विष्णोः षोडशपदीतीर्थं गदाधरविनिर्मितम् ॥३०॥
सर्वपापहरा पुण्या यत्र प्राची सरस्वती ॥
महासुरनदी प्रोक्ता यत्र तिष्ठति पुण्यदा ॥३१॥
न्यग्रोधश्चाक्षयो नित्यः पुरा प्रोक्तो महर्षिणा॥
तत्रैव सा शिला प्रोक्ता प्रेतमोक्षकरी शुभा ॥३२॥
तत्रैव संति ताः सर्वा देवताः पितृकल्पजाः ॥
सर्वाक्षरमयोंकारः सर्वदेवमयो हरिः ॥३३॥
सर्वतीर्थमया देवा गयातीर्थमनुत्तमम्॥
शीघ्रं गच्छत तत्रैव परां सिद्धि मवाप्स्यथ ॥३४॥
यत्र प्रविष्टमात्रेण पितरो निरयस्थिताः ॥
ते सर्वे स्वर्गमायांति ब्रह्मभूयाय कल्पते ॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्ये गयातीर्थप्रशंसावर्णनं नाम सप्तपञ्चा शत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP