संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ६३

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
कंथडेश्वर इति ख्यातं तत्र तीर्थमनुत्तमम् ॥
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥१॥
मुच्यते सर्वपापेभ्यः शुचिः प्रयतमानसः ॥
विमानशतसंयुक्तः शिवलोके महीयते ॥२॥
भुवि पुण्यतमं तीर्थं सर्वपापहरं परम् ॥
खगर्तासंगमो यत्र गंगेश्वरसमीपतः ॥३॥
महापापहरं पुण्यं महापुण्यफलप्रदम् ॥
आकाशात्पतिता यत्र गंगा त्रैलोक्य पावनी ॥४॥
विधृता शिरसि सद्यो महादेवेन शंभुना ॥
तस्मिंस्तीर्थे नरः स्नात्वा गंगेशमवलोकयेत् ॥५॥
गंगास्नानफलं प्राप्य विष्णु लोके महीयते ॥
वीरेश्वरमनुप्राप्य तस्मिंस्तीर्थे नरो वसेत् ॥६॥
सर्वपापविशुद्धात्मा वीरलोकमवाप्नुयात्॥
तीर्थमन्यन्महापुण्यं भुवि ख्यातं महर्षिभिः ॥७॥
वामनकुण्डेति विख्यातं त्रिषु लोकेषु विश्रुतम् ॥
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥८॥
मनोरथशतं प्राप्य पश्चाद्विष्णु पुरं व्रजेत् ॥
॥ व्यास उवाच ॥
कदा काले समुत्पन्नं वामनाख्यं पुराऽनघ ॥९॥
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥
॥ सनत्कुमार उवाच ॥
शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम् ॥१०॥
यस्य श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥
दैत्येंद्रस्तु पुरा प्रोक्तो विष्णुभक्तिपरायणः ॥११॥
प्रह्राद इति विख्यातः सर्वधर्मभृतां वरः ॥
आचारविजितो धर्मः सत्येन विजिता रमा ॥१२॥
धैर्येण च धृता लोकाः क्षमया विधृता मही ॥
गांभीर्येणाऽर्णवा दिव्याः शौर्येण शत्रुणा गणाः ॥१३॥
प्रश्रयेणाभ्यागताश्च जितास्तेन महात्मना ॥।
दक्षिणाभिर्जितो यज्ञो हविषा हव्यवाहनः ॥१४॥
शौचाऽऽचारविशुद्धात्मा तपसा च हताऽशुभः ॥
दानमानजिता विप्रा भोजनाच्छादना दिभिः ॥१५॥
संस्कारेण जितं जन्म दमेनाऽऽत्मा सनातनः ॥
प्राणायामजितो वायुर्योगध्यानजितो हरिः ॥१६॥
ईदृशश्च महायोगी सत्यधर्म परायणः ॥
प्रह्लादेन समो धीरो न भूतो न भविष्यति ॥१७॥
तस्य पौत्रः सदाचारी बलिरित्यभिधीयते ॥
तस्य पालयतः सम्यक्प्रजाः सम्यग्विवर्धिताः ॥१८॥
नाल्पायुर्न जडो मूर्खो न रोगी न च मत्सरी ॥
अपुत्रो द्रव्यहीनश्च कोऽपि नाऽस्ति महीतले ॥१९॥
महाराजो महीपालो यज्वा विपुलदक्षिणः ॥
सप्तद्वीपवती तेन पालिता वसुधा सदा ॥२०॥
एकदा च समासीने सभामध्ये वरासने ॥
जय शब्दे वर्तमाने गंधर्वा ललितं जगुः ॥२१॥
वाद्यमानेषु वाद्येषु ननृतुश्चाऽप्सरोगणाः ॥
कथायां कथ्यमानायां शुभायां च विचक्षणैः ॥२२॥
सूता वैतालिकाः सिद्धाश्चारणाश्च बहुश्रुताः ॥
ऋषयश्च समायातास्तत्रैव द्विजसत्तम ॥२३॥
सुन्दोपसुन्दतुहुंडाद्या महिषासुरकोल्बणाः ॥
शुम्भनिशुम्भधूम्राक्षकालकेयाश्च दानवाः ॥२४॥
कालनेमिश्च विक्रांतो दौर्हृदो मूषको यमः ॥
निकुम्भः कुम्भविशठो ह्यन्धकश्च महाबलः ॥२५॥
शंखो जलंधरो रौद्रो वातापी च बलाधिकः ॥
सर्वजिद्विश्वहंता च कामचारी हलायुधः ॥२६॥
एते चाऽन्ये च बहवो दनुवंशवि वर्धनाः ॥
उपासांचक्रिरे तत्र बलिराजमकल्मषम् ॥२७॥
सिद्धा नागाश्च यक्षाश्च किन्नराः किंपुरुषास्तथा ॥
खेचरा भूचरा बाला राक्षसाश्चैव दारुणाः ॥२८॥
एते चाऽन्ये च बहवो राजानं पर्युपासत ॥
तत्र सभा महादिव्या शुशुभे च द्विजोत्तम ॥२९॥
ग्रहैरुज्वलितैः कीर्णो शरदीव नभःस्थलम् ॥
तत्सभायां समासीनो रराज बलिराट् तथा ॥३०॥
मरुद्भिरिव संवीतो वासवो दिवि देवतैः ॥
एकदा च सभामध्ये नारदो देवदर्शनः ॥३१॥
आगतस्तेषु सर्वेषु दानवेषु स्थितेषु च ॥
दृष्ट्वा तमागतं सर्वे ह्युत्तस्थुर्दितिनंदनाः ॥३२॥
ववन्दिरे सर्वशस्तु बलिना किंनरोत्त मम्॥
सकृत्य चासनं दत्त्वा पप्रच्छ कुशलं नृपः ॥३३॥
कृत्वाऽऽतिथ्यं समासीनो नारदः प्राह सत्तमः ॥
मेघगंभीरया वाचा बलिं प्राहर्षिस त्तमः ॥३४॥
॥ नारद उवाच ॥
श्रूयतां दितिजश्रेष्ठ गतोऽहं वृषमंदिरे ॥
तत्र देवसभा रम्या दिव्याऽभिप्रायसंयुता ॥
तत्र देवाः सगंधर्वाः पुरंदरपुरोगमाः ॥३५॥
समासीनाः कथां पुण्यां कथयंति परस्परम् ॥
तत्र दैत्यकथां शुभ्रां मया ख्यातां न सेहिरे ॥३६॥
हिरण्यकशिपुर्दैत्यः पुराऽऽसीच्च प्रजापतिः ॥
त्रैलोक्यविजयी नेता येनेयं वसुधा जिता ॥३७॥
सर्वलोकं वशीकृत्य बुभुजे च वसुन्धराम् ॥
अतीव तेजःसंपन्नो महाबलपराक्रमः ॥३८॥
वशी सर्वत्रगः कामी नृसिंहेन निपातितः ॥
बलिं कियद्बलं लोके नारद त्व प्रशंससि ॥३९॥
इति मां धर्षयित्वा च बिडौजा लोकसंग्रही ॥
बहुधा वादयन्वादान्कटुकान्दानवोत्तम ॥४०॥
तस्मात्त्वं दानवश्रेष्ठ पितृपर्यागतां महीम् ॥
विजित्य सार्वभौमत्वं लभस्व वसुधाधिप ॥४१॥
कियद्बलधृता नूनं देवाश्च दनुजोत्तम ॥
पलायनपरा दांता सदैव रणभीरवः ॥४२॥
मम वाक्यपरो भूत्वा त्रैलोक्याधिपतिर्भव ॥
नारदस्य वचः श्रुत्वा वलिर्वैरोचनिस्तदा ॥४३॥
चकार कोपमतुलं त्रैलोक्यविजये द्विज ॥
मंत्रयित्वाऽसुरान्सर्वान्सर्वदैत्यजनेश्वरः ॥४४॥
संग्राममकरोत्तीव्रं वासवेन बलीयसा ॥
जित्वा च सकलाल्देवान्वशीचक्रे सवासवान् ॥४५॥
सर्वलोकेश्वरो जातो बलिर्वैरोचनोऽसुरः ॥
हताधिकारास्त्रिदशा भ्रष्टराज्याः पराजिताः ॥४६॥
विचरंति यथा मर्त्यास्तेन देवगणा भुवि ॥
किंचित्कालं समासाद्य ब्रह्माणं शरणं ययुः ॥४७॥
भो ब्रह्मन्बलिना भ्रष्टा देवलोकात्परंतप ॥
किं कुर्मः क्व च गच्छामः कमुपा यं चरामहे ॥४८॥
॥ ब्रह्मोवाच ॥
श्रूयतां भोः सुरश्रेष्ठा युष्माकं साधनं परम् ॥
यूयं यात पुरीं रम्यां पद्मावतीमम रोत्तमाः ॥४९॥
तत्र तीर्थवरं श्रेष्ठं नाम्ना चोत्तरमानसम् ॥
यत्राऽष्टसिद्धिदा ख्याता महासिद्धिप्रदा नृणाम् ॥५०॥
निधयश्च नवैवापि तत्र तिष्ठंति सत्तम ॥
तस्यैव दक्षिणे भागे विष्णुतीर्थमनुत्तमम्॥५१॥
तत्र स्नात्वा नरः पश्येत्सिद्धेश्वरीं सुसिद्धिदाम् ॥
ऋद्धिसिद्धिपरोभूत्वा विष्णु लोके महीयते ॥५२॥
आश्विनस्य सिते पक्षे दशम्यां दिवसे तथा ॥
अष्टसिद्धिशमीदेशे गणेश्वरं प्रपूजयेत् ॥५३॥
विजयी सर्वलोकेषु जाय ते नात्र संशयः ॥
शमीमूलस्थितं नित्यमृद्धिसिद्धिवरप्रदम्॥ ५४॥
पूजयेद्वै नरो नित्यं गणेशं सर्वकामदम् ॥
सर्वकामवरं लब्ध्वा पुत्रवान्धनवान्भवेत् ॥५५॥
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रजेत् ॥
यत्र विष्णुसरस्तीर्थं तत्र गच्छत माचिरम् ॥६॥
उपासनां सुरश्रेष्ठा विष्णोरतु लेतेजसः ॥
कुरुध्वं सर्वभीतिभ्यस्त्राता स स्यात्सुरोत्तमाः ॥५७॥
इति श्रुत्वा वचस्तस्य ब्रह्मणः शंसितात्मनः ॥
महाकालवने प्राप्ता देवास्ते कार्यसाधकाः ॥५८॥
अत्राऽऽगात्य शुचीभूय स्नानदानादिकर्मभिः ॥
उपासांचक्रिरे सिद्धा विष्णुभक्तिपरायणाः ॥५९॥
ब्रह्माणमथ ते सर्वे पप्रच्छुर्विधिमादरात्॥
उपासनाया देवस्य देवाः शक्रपुरोगमाः ॥६०॥
॥ देवा ऊचुः ॥
ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत्॥
तत्सर्वं श्रोतु मिच्छामस्त्वत्तो ब्रह्मविदां वर ॥६१॥
॥ ब्रह्मोवाच ॥
श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् ॥
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ॥६२॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥६३॥
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥
अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥६४॥
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
कल्पादौ सृष्टिकामेन प्रेरितोहं च शौरिणा ॥६५॥
न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः ॥
एतस्मिन्नंतरे सद्यो मार्कण्डेयो महाऋषिः ॥६६॥
सर्वसिद्धेश्वरो दांतो दीर्घायुर्विजितेंद्रियः ॥
मया दृष्टो ऽथ गत्वा तं तदाहं समुपस्थितः ॥
ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ॥६७॥
पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः ॥
तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥६८॥
भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् ॥
तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवंदित ॥६९॥
॥ श्रीमार्कण्डेय उवाच ॥
विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी ॥
सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥७०॥
एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् ॥
कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥७१॥
ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन ॥
तद्गतं सर्वं विघ्रंति यत्तद्धर्मं सनातनम् ॥७२॥
एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् ॥
पवित्रं च पवित्राणां पावनानां च पावनम् ॥७३॥
[१]विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् ॥
सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ॥७४॥
ॐ अस्य श्रीविष्णुसहस्रनामस्तोत्रमंत्रस्य मार्कंडेय ऋषिः विष्णुर्देवता अनुष्टुप्च्छंदः सर्वकामावात्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ॥
सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् ॥
व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥७५॥
ॐविश्वं विष्णुर्हषीकेशः सर्वात्मा सर्वभावनः ॥
सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥७६॥
अनादिनिधनो देवः सर्वज्ञः सर्वसंभवः ॥
सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥७७।
जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः ॥
जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥७८॥
सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः ॥
अजन्मा शाश्वतो नित्यो विश्वाधा रो विभुः प्रभुः ॥७९॥
बहुरूपैकरूपश्च सर्वरूपधरो हरः ॥
कालाग्निप्रभवो वायुः प्रलयांतकरोऽक्षयः ॥८०॥
महार्णवो महामेघो जलबुद्बुदसं भवः ॥
संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिंगिलः ॥८१॥
अनंतो वासुकिः शेषो वराहो धरणीधरः ॥
पयःक्षीरविवेकाढ्यो हंसो हेम गिरिस्थितः ॥८२॥
हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ॥
मंथनो रत्नहारी च कूर्मो धरधराधरः ॥८३॥
विनिद्रो निद्रितो नंदी सुनंदो नंदनप्रियः ॥
नाभिनालमृणाली च स्वयंभूश्चतुराननः ॥८४॥
प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ॥
मरीचिः कश्यपो दक्षः सुरासुरा गुरुः कविः ॥८५॥
वामनो वाममार्गी च वामकर्मा बृहद्वपुः ॥
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥८६॥
यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः ॥
सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ॥८७॥
तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः ॥
देवराजः सुरपतिर्दानवारिः शची पतिः ॥८८॥
अग्निर्वायुसखो वह्निर्वरुणो यादसां पतिः ॥
नैर्ऋतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥८९॥
कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् ॥
अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥९०॥
सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः ॥
विषारिर्विषहर्ता च विषकंठधरो गिरिः ॥९१॥
नीलकंठो वृषी रुद्रो भालचंद्रो ह्युमापतिः ॥
शिवः शांतो वशी वीरो ध्यानी मानी च मानदः ॥९२॥
कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः ॥
बटुको भैरवो बालः कपाली दंडविग्रहः ॥९३॥
स्मशानवासी मांसाशी दुष्टनाशी वरांतकृत् ॥
योगिनीत्रासको योगी ध्या नस्थो ध्यानवासनः ॥९४॥
सेनानीः सेनदेः स्कंदो महाकालो गणाधिपः ॥
आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥९५॥
ऋद्धिसिद्धिप्रदो दंती भालचन्द्रो गजाननः ॥
नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ॥९६॥
प्रह्रादपोषकर्ता च सर्वदैत्यजनेश्वरः ॥
शलभः सागरः साक्षी कल्प कल्पकः ॥९७॥
हेमदो हेमभागीच हिमकर्ता हिमाचलः ॥
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥९८॥
लोकालोकांतरो लोकी विलोकी भुवनेश्वरः ॥
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेंद्रियः ॥९९॥
विरूपो रूपवान्रागी नृत्यगीतविशारदः ॥
हाहा हूहूश्चित्ररथो देव र्षिर्नारदः सखा ॥१००॥
विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ॥
कपिलो जल्पको वादी दत्तो हैहयसंघराट् ॥१॥
वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ॥
जामदग्न्यो महावीरः क्षत्रियांऽतकरो ह्यृषिः ॥२॥
हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ॥
अगस्तिः पुलहो दक्षः पौल स्त्यो रावणो घटः ॥३॥
देवारिस्तापसस्तापी विभीषणहरिप्रियः ॥
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥४॥
दाशरथी राघवो रामो रघुवंश विवर्धनः॥
सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः॥५॥
सन्नद्धः कवची खड्गी चीरवासा दिगंबरः ॥
किरीटी कुडली चापी शंखचक्री गदाधरः ॥६॥
कौसल्यानंदनोदारो भूमिशायी गुहप्रियः ॥
सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥७॥
लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ॥
हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥८॥
दूतप्रियो दूतकारी ह्यंगदो गदतां वरः ॥
वनध्वंसी वनी वेगो वानरध्वज लांगुली ॥९॥
रविदंष्ट्री च लंकाहा हाहाकारो वरप्रदः ॥
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥११०॥
जानकीवल्लभः कामी किरीटी कुण्डली खगी ॥
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥११॥
चंचलश्चपलः कामी वामी वामांगवत्सलः ॥
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामांगवासकः ॥१२॥
जितवैरी जितकामो जितक्रोधो जितेंद्रियः ॥
शांतो दांतो दयारामो ह्येकस्त्रीव्रतधारकः ॥१३॥
सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः ॥
बहुराक्षस संवीतः सर्वराक्षसनाशकृत् ॥१४॥
रावणारी रणक्षुद्र दशमस्तकच्छेदकः ॥
राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥१५॥
अयोध्याधिपतिः कांतो वैकुंठोऽकुंठविग्रहः ॥
सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥१६॥
सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः ॥
प्राणश्चाथाप्यपानश्च व्यानोदानः समानतः ॥१७॥
नागः कृकलः कूर्मश्च देवदत्तो धनंजयः ॥
सर्वप्राणविदो व्यापी योगधारकधारकः ॥१८॥
तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः ॥
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥१९॥
ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसंभवः ॥
अध्यात्मविद्विदो दीपो ज्योतीरूपो निरंजनः ॥१२०॥
ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ॥
सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥२१॥
मंत्रदो मंत्रहा मंत्री तंत्री तन्त्रजनप्रियः ॥
सन्मंत्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभंजनः ॥२२॥
मारणो मोहनो मोही स्तंभोच्चाटनकृत्खलः ॥
बहुमायो विमायश्च महामायाविमोहकः ॥२३॥
मोक्षदो बंधको बंदी ह्याकर्षणविकर्षणः ॥
ह्रींकारो बीजरूपी च क्लींकारः कीलकाधिपः ॥। २४॥
सौंकार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः ॥
अकारोकार ओंकारश्छंदोगायत्रसम्भवः ॥२५॥
वेदो वेदविदो वेदी वेदाऽध्यायी सदाशिवः ॥
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥२६॥
त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ॥
प्राकृतः संस्कृतो योगी गीतग्रंथप्रहेलिकः ॥२७॥
सगुणो विगुणश्छंदो निःसंगो विगुणो गुणी ॥
निर्गुणो गुणवान्संगी कर्मी धर्मी च कर्मदः ॥२८॥
निष्कर्मा कामकामी च निःसंगः संगवर्जितः ॥
निर्लोभो निरहंकारी निष्किंचनजनप्रियः ॥२९॥
सर्वसंगकरो रागी सर्वत्यागी बहिश्चरः ॥
एकपादो द्विपादश्च बहु पादोऽल्पपादकः ॥१३०॥
द्विपदस्त्रिपदोऽपादी विपादी पदसंग्रहः ॥
खेचरो भूचरो भ्रामी भृंगकीटमधुप्रियः ॥३१॥
क्रतुः संवत्सरो मासो गणितार्को ह्यहर्निशः ॥
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥३२॥
दिवाकालकरः कालः कुलधर्मः सनातनः ॥
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥३३॥
युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ॥
कुलाचारः कुलकरः कुलदैवकरः कुली ॥३४॥
चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ॥
वनस्थो वनचारी च वानप्रस्थाऽऽश्रमोऽश्रमी ॥३५॥
बटुको ब्रह्मचारी च शिखासूत्री कमण्डली ॥
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥३६॥
हेमाद्रिप्रभवो हैमो हेमराशिर्हि माकरः ॥
महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥३७॥
नरनारायणोऽनागो केदारोदारविग्रहः ॥
गंगाद्वारतपःसारस्तपोवन तपोनिधिः ॥३८॥
निधिरेष महापद्मः पद्माकरश्रियालयः ॥
पद्मनाभः परीतात्मा परिव्राट्पुरुषोत्तमः ॥३९॥
परानंदः पुराणश्च सम्राड्राज विराजकः ॥
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥१४०॥
आयुर्वेदविदो वैद्यो धन्वंतरिश्च रोगहा॥
औषधीबीजसंभूतो रोगी रोगविनाशकृत॥४१॥
चेतनश्चेतकोऽचिंत्यश्चित्तचिंताविनाशकृत् ॥
अतींद्रियः सुखस्पर्शश्चरचारी विहंगमः ॥४२॥
गरुडः पक्षिराजश्च चाक्षुषो विनता त्मजः ॥
विष्णुयानविमानस्थो मनोमयतुरंगमः ॥४३॥
बहुवृष्टिकरो वर्षो ऐरावणविरावणः ॥
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥४४॥
प्रावृषो मेघमाली च गजरत्नपुरंदरः ॥
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥४५॥
शेषशायी जलेशायी व्यासः सत्यवतीसुतः ॥
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥४६॥
स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ॥
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥४७॥
सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ॥
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥४८॥
जटिलो भस्मरागी च दिव्यांबरधरः शुचिः ॥
अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥४९॥
समुद्रमाथको माथी सर्वरत्नहरो हरिः ॥
वज्रवैडूर्यको वज्री चिंतामणिमहामणिः ॥१५०॥
अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ॥
पिता माता शिशुर्बंधुर्धाता त्वष्टार्यमा यमः ॥५१॥
अंतःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ॥
पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥५२॥
भगवान्भगहा भागी भवभंजो भयंकरः ॥
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥५३॥
एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ॥
बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥५४॥
संजीवनो जीवकर्ता सजीवो जीवसंभवः॥
षड्विंशको महा विष्णुः सर्वव्यापी महेश्वरः ॥५५॥
दिव्यांगदो मुक्तमाली श्रीवत्सो मकरध्वजः ॥
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥५६॥
चीरवासा विवासाश्च भूतदानववल्लभः ॥
अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥५७॥
दिव्यदृष्टिः समदृष्टिर्देवदानववंचकः ॥
कबंधः केतुकारी च स्वर्भानुश्चंद्रतापनः ॥५८॥
ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ॥
दानमानजपो होमः सानुकूलः शुभग्रहः ॥५९॥
विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ॥
अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥१६०॥
सेवकः सामदानी च भेदी दंडी च मत्सरी ॥
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥६१॥
हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ॥
होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥६२॥
द्रव्यं पात्राणि संकल्पो मुशलो ह्यरणिः कुशः ॥
दीक्षितो मंडपो वेदिर्यजमानः पशुः क्रतुः ॥६३॥
दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ॥
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥६४॥
प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ॥
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥६५॥
वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ॥
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभामवित् ॥६६॥
राज्यभागविदो भागी सर्वभागविकल्पकः ॥
वाहनो वाहको वेगी पादचारी तपश्चरः ॥६७॥
गोपनो गोपको गोपी गोपकन्याविहारकृत्॥
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥६८॥
देवकीनंदनो नंदी नंदगोपगृहाऽऽश्रमी ॥
यशोदानंदनो दामी दामोदर उलूखली ॥६९॥
पूतनारिः पदाकारी लीलाशकटभंजकः ॥
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥१७०॥
वत्सरूपधरो वत्सी वत्सहा धेनुकांतकृत्॥
बकारिर्वनवासी च वनक्रीडाविशारदः ॥७१॥
कृष्णवर्णाऽऽकृतिः कांतो वेणुवेत्रविधारकः ॥
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥७२॥
मायावत्सकरो मायी ब्रह्ममायापमोहकः ॥
आत्मसारविहारज्ञो गोपदारकदारकः ॥७३॥
गोचारी गोपतिर्गोपो गोवर्धनधरो बली ॥
इन्द्रद्यु्म्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥७४॥
सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः॥७५॥
संकर्षणो बलश्लाघ्यो बलदेवो हलायुधः॥
लांगली मुसली चक्री रामो रोहिणिनंदनः॥७६॥
यमुनाकर्षणोद्धारो नीलवासा हलो हली॥
रेवती रमणो लोलो बहुमानकरः परः ॥७७॥
धेनुकारिर्महावीरो गोपकन्याविदूषकः ॥
काममानहरः कामी गोपीवासोऽपतस्करः ॥७८॥
वेणुवादी च नादी च नृत्यगीतविशारदः ॥
गोपीमोहकरो गानी रासको रजनीचरः ॥७९॥
दिव्यमाली विमाली च वनमालाविभूषितः ॥
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥१८०॥
चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ॥
मुरहा मोदका मोदी मदघ्नो नरकांतकृत ॥८१॥
विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ॥
सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥८२॥
विद्याशाली विशाली च पितृमातृविमोक्षकः॥
रुक्मिणी रमणो रम्यः कालिंदीपतिः शंखहा॥८३॥
पांचजन्यो महापद्मो बहुनायकनायकः॥
धुंधुमारो निकुंभघ्नः शंबरांतो रतिप्रियः॥ ८४॥
प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ॥
फाल्गुनश्च गुडाकेशः सव्यसाची धनंजयः ॥८५॥
किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥
शिखंडी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥८६॥
पांचालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति. ॥
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥८७॥
नकुलः सहदेव श्च कर्णो दुर्योधनो घृणी ॥
गांगेयोऽथ गदापाणिर्भीष्मो भागीरथीसुतः ॥८८॥
प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोथ गौतमः ॥
अश्वत्थामा विकर्णश्चजहु?र्युद्धविशारदः॥८९॥
सीमंतिको गदी गाल्वो विश्वामित्रो दुरासदः ॥
दुर्वासा दुर्विनीतश्च मार्कंडेयो महामुनिः ॥१९०॥
लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ॥
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥९१॥
त्रिकालोऽथ त्रिलिंगश्च त्रिनेत्रस्त्रिपदीपतिः ॥
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥९२॥
शल्यक्रीडी विक्रीडश्च यादवांतकरः कलिः ॥
सदयो हृदयो दायो दायदो दायभाग्दयी ॥९३॥
महोदधि र्महीपृष्ठो नीलपर्वतवासकृत ॥
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥९४॥
यज्ञनिंदी वेदनिंदी वेदबाह्यो बलो बलिः ॥
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥९५॥
भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ॥
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥९६॥
शालिग्रामः शिलायुक्तो विशालो गंडकाश्रयः ॥
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥९७॥
कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत्॥
कुंकुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥९८॥
किंकरः किन्नरः कण्वः केकी किंपुरुषाधिपः ॥
एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥९९॥
वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ॥
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥२००॥
व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ॥
असंख्येयोऽप्रमेयश्च संख्याकारो विसंख्यकः ॥१॥
मिहिकोत्तारकस्तारो बालचंद्रः सुधाकरः ॥
किंवर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥२॥
निर्लोकश्च निराकारी बह्वाकारैककारकः ॥
दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥३॥
द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥४॥
आधारोऽपि विधारश्च धरासूनुः सुमंगलः ॥
मंगलो मंगलाकारो मांगल्यः सर्वमंगलः ॥५॥
नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ॥
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥६॥
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥
यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ॥७॥
त्रिसंध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते॥
नंदते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥८॥
प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसंकटात् ॥
सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥९॥
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ॥
वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥२१०॥
रणे घोरे विवादे च व्यापारे पारतंत्रके ॥
विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥११॥
एकधा दशधा चैव शतधा च सहस्रधा ॥
पठते हि नरो नित्यं तथैव फलमश्नुते ॥१२॥
पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् ॥
मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसंचयम् ॥१३॥
कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि ॥
ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥१४॥
महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे ॥
महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥१५॥
अरण्ये प्रांतरे वाऽपि दावाग्निपरिवारिते ॥
सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥१६॥
राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह संगमे ॥
विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥१७॥
ग्रहपीडासु चोग्रासु वधबन्धगतावपि ॥
महार्णवे महानद्यां पोतस्थेषु न चापदः ॥१८॥
रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः ॥
पठनाच्छवणाद्वापि दिव्यकाया भवंति ते ॥१९॥
तुलसीवनसंस्थाने सरोद्वीपे सुरालये ॥
बद्रिकाश्रमे शुभे देशे गंगाद्वारे तपोवने ॥२२०॥
मधुवने प्रयागे च द्वारकायां समाहितः ॥
महाकालवने सिद्धे नियताः सर्वकामिकाः ॥२१॥
ये पठंति शतावर्तं भक्तिमंतो जितेंद्रियाः ॥
ते सिद्धाः सिद्धिदा लोके विचरंति महीतले ॥२२॥
अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् ॥
मोहनं मोहनानां च पवित्रं पापनाशनम् ॥२३॥
बालग्रहविनाशाय शांतीकरणमुत्तमम् ॥
दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ॥।२४॥
पतद्गर्भा च वंध्या च स्राविणी काकवन्ध्यका ॥
अनायासेन सततं पुत्रमेव प्रसूयते ॥२५॥
पयःपुष्कलदा गावो बहुधान्यफला। कृषिः ॥
स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ॥२६॥
अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने ॥
शांतिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥२७॥
यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ ॥
एकाकी च जिताहारो जितक्रोधो जितेंद्रियः ॥२८॥
गरुडारोहसंपन्नः पीतवासाश्चतुर्भुजः ॥
वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥२९॥
एकतः सकला विद्या एकतः सकलं तपः ॥
एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥२३०॥
यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः॥
सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥३१॥
सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः ॥
सहस्रनामानंताक्षः सहस्रबाहुर्नमोस्तु ते ॥३२॥
विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् ॥
पठितव्यं सदा भक्तैः सर्वमंगलमंगलम् ॥३३॥
इति स्तवाभियुक्तानां देवानां तत्र वै द्विज ॥
प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥३४॥
॥ श्रीभगवानुवाच ॥
व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवांछितः ॥
तत्सर्वं संप्रदास्यामि नाऽत्र कार्या विचारणा ॥३५॥
॥ देवा ऊचुः ॥
वरदोऽसि यदा विष्णो वरमेतं ददस्व नः ॥
अदितेर्गर्भसंभूतः शक्रस्याऽप्यनुजो भव ॥३६॥
इति संप्रार्थितो देवैर्ब्रह्मशक्रपुरोगमेः ॥
तथेत्युक्ता च भगवांस्तत्रैवांऽतरधीयत ॥३७॥
ततः कतिपये काले भगवानदितिनंदनः ॥
विष्णुरूपधरो ऽनंतो वामनत्वाच्च वामनः ॥३८॥
बलिर्वैरोचनो व्यास वाजिमेधशतेन च ॥
ईजे द्विजवरश्रेष्ठ इंद्रराज्यजिहीर्षया ॥३९॥
ऋत्विजं कश्यपं कृत्वा होतारं भृगुसत्तमम् ॥
ब्रह्मा तत्राभवच्चैव स्वयमेव पितामहः ॥२४०॥
अध्वर्युर्भगवानत्रिर्बभूव मुनिसत्तमः ॥
उद्गाता नारदश्चैव वसिष्ठश्च सभासदः ॥४१॥
ये यत्र विहिताः सर्वे तत्र तत्र मुनीश्वराः ॥
बलिस्तत्राऽभवद्व्यास दीक्षितो राजसत्तमः ॥४२॥
एवं प्रवर्तमानेषु यज्ञेषु मुनिसत्तम ॥
हूयतां भुज्यतां चैव दीयतां धीयतां तथा ॥४३॥
इति वाचः शुभास्तत्र श्रूयंते च द्विजोत्तम ॥
तस्मिन्काले सुचित्रेषु वामनोऽगाच्छुचिस्मितः ॥४४॥
पठमानो मुखाग्रेण चातुर्वेदिकमंत्रकान् ॥
द्वारे तिष्ठति राजेंद्र वामनो द्विजसत्तमः ॥४५॥
प्रतिहारेण वै व्यास सर्वं राज्ञे निवेदितम् ॥
उत्थाय च महाराजो बलिर्वैरोचनिस्तदा ॥४६॥
अर्घ्यमादाय तत्सर्वं जगाम स्वैः सभासदैः ॥
पूजयित्वा यथान्यायं वामनं लोकभावनम् ॥४७॥
आनयित्वा सभामध्ये दत्त्वाऽऽसनपरिग्रहम् ॥
कुतस्त्वागमनं ब्रह्मन्किं तेऽभीष्टं ददामि वै ॥४८॥
॥ वामन उवाच ॥
राजराजाखिला सृष्टिर्ब्रह्मणः परमेष्ठिनः ॥
ततोऽहमागतो भूमन्यज्ञं चैव दिदृक्षया ॥४९॥
वरुणस्य च यज्ञो वै दृष्टो मे वै पुरानघ ॥
यक्षाधिपतेर्नूनं च यज्ञं वै दृष्टवानहम् ॥२५०॥
धर्मस्याऽपि च यज्ञो मे प्रजापतेश्च सत्तम ॥
वायोर्यज्ञो महाराज दृष्टो मे विधिपूर्वकः ॥५१॥
राजर्षीणां च ये यज्ञा दृष्टास्तेऽपि महाव्रत ॥
यादृशं वै महाराज यज्ञं ते दृष्टवानहम् ॥५२॥
ईदृशो राजराजेंद्र न भूतो न भविष्यति ॥
तस्मादिहागतो राजन्याचनार्थं तवाऽनघ ॥५३॥
॥ बलिरुवाच ॥
याचस्व त्वं द्विजश्रेष्ठ किं तेऽभीष्टं ददाम्य हम् ॥५४॥
॥ वामन उवाच ॥
देहि मे राजराजेंद्र पदानि त्रीणि मेदिनीम् ॥
वासार्थं रोचते तेऽद्य यदि पार्थिवसत्तम ॥५५॥
॥ बलिरुवाच॥
किमिदं याचितं विप्र स्वल्पं ते नहि ते परम् ॥
गजवाजिरथाः क्षोणी रत्नानि विविधानि च ॥५६॥
दासदासीर्वरारोहाः स्त्रियो नाना वसूनि च ॥
द्रव्याणि वाससी शुभ्रे याचस्व त्वं द्विजोत्तम ॥५७॥
पात्रोऽसि कृतकृत्योऽसि वेदवेदांगपारग॥५८॥
॥ वामन उवाच ॥
न मे किंचित्स्पृहा राज न्विद्यते भुवि मानद ॥
देहि त्वं त्रिपदां भूमिं यदि श्रद्धाऽस्ति तेऽधुना ॥५९॥
इत्युक्ते वामनेनाथ बलिर्वचनमब्रवीत् ॥
गृहाण त्रिपदां भूमिं वासस्यार्थं हि मानद ॥२६०॥
इत्युक्त्वा स च राजर्षिर्ददौ भूमिं द्विजाय वै ॥
वारितोऽपि तदा व्यास भृगुणा दैवनोदितः ॥६१॥
दत्तमात्रे जले सद्यो ब्रह्माण्डं चाक्रमद्धरिः ॥
सार्धं पादद्वयं जाता सशैलवनकानना ॥६२॥
वसुधेयं तदा व्यास बलिना चार्पितं वसु ॥
जित्वाऽसुरगणान्त्सर्वा न्राज्यं दत्त्वा शतक्रतोः ॥६३॥
पश्चात्कुमुद्वतीं प्राप्तो विष्णुर्वामनरूपधृक् ॥६४॥
ऋद्धिसिद्ध्याश्रमे पुण्ये तीर्थं कृत्वाऽऽत्मसंभवम्॥
निवासमकरोद्व्यास तत्रैव स सुरोत्तमः ॥६५॥
वामनेन कृतं तीर्थं वामनं कुण्डमुच्यते ॥
भाद्रे मासि सिते पक्षे द्वादशी श्रवणान्विता ॥६६॥
वामन द्वादशी प्रोक्ता हत्याकोटिविनाशिनी ॥
अस्मिंस्तीर्थे नरः स्नात्वा ह्युपोष्यैकादशीं यदा ॥६७॥
रात्रौ जागरणं कुर्याद्ब्रह्मभूयाय कल्पते ॥
द्वादश्यां वै विशेषेण महादानानि कुर्वते ॥६८॥
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ॥
एवं वै वामनं तीर्थं पुरा प्रोक्तं महर्षिणा ॥६९॥
सर्वपापहरं पुण्यं सर्वकामवरप्रदम् ॥
प्राप्यते तेन सर्वं हि नात्र कार्या विचारणा ॥२७०॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये वामनकुण्डमहिमविष्णुसहस्रनामकथनंनाम त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP