अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
अथातः संप्रवक्ष्यामि तीर्थ त्रैलोक्य विश्रुतम्॥
स्वयंभूतं महेशस्य विख्यातं कुटुंबिकेश्वरम्॥ १॥
मुच्यते सर्वपापैस्तु सप्तजन्मकृतैरपि ॥
शुचिः पश्यति यो देवं कृत्वा श्राद्धं यथा विधि ॥२॥
सर्वाँल्लोकानतिक्रम्य शिवलोकं स गच्छति ॥
यस्तु सर्वाणि शाकानि कन्दानि विविधानि च ॥३॥
तीरे तस्य प्रयच्छेत स प्राप्नोति परां गतिम् ॥
पौषे प्रतिपदि सिते अष्टम्यां वा समाहितः ॥४॥
एकेनैवोपवासेन अश्वमेधफलं लभेत् ॥
आश्विन्यां पौर्णमास्यां च शुचिः पश्यति मानवः ॥५॥
पट्टबंधं महेशस्य स विपाप्मा दिवं व्रजेत् ॥
चैत्रे मासि सिते पक्षे पञ्चम्यां समुपोषितः ॥६॥
कर्पूरं कुङ्कुमं चैव मृगनाभि सचन्दनम्॥
निवेदयति देवाय नैवेद्यं घृतपायसम् ॥७॥
स्वरूपं चैव विप्रेन्द्र सभार्यं भोजयेद्द्विजम् ॥
रुद्रलोकमवाप्नोति यावदिंद्राश्चतु र्दश ॥८॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुटुम्बिकेश्वरमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : November 30, 2024
TOP