संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय २० अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २० Translation - भाषांतर ॥ सनत्कुमार उवाच ॥मासमेकं नरो भक्त्या पश्येद्वा वटयक्षिणीम् ॥पूजयेत्स्वर्णपुष्पैश्च तस्य सिद्धिर्न हीयते ॥१॥इति वटयक्षिणीमाहात्म्यम् ॥पिशाचके नरः स्नात्वा चतुर्दश्यां विशेषतः ॥तिलान्ददाति यो भक्त्या न पिशाचः प्रजायते ॥२॥यं समुद्दिश्य यद्दत्तं तदक्षयतरं भवेत् ॥तत्कुलं हि पिशाचत्वान्मुच्यते नात्र संशयः ॥३॥यस्य नाम्ना नरः स्नाति पिशाचत्वात्स मुच्यते ॥कुंभान्वा करकान्वापि योऽत्र दद्यात्समंडकान् ॥४॥तस्य वै शाश्वती मुक्तिः कुले प्रेतो न जायते ॥शिप्रागुंफेश्वरं दृष्ट्वा रुद्रभक्तो जितेंद्रियः ॥५॥मुच्यते सर्वपापेभ्यः कंचुकेन फणी यथा ॥स्नात्वागस्त्येश्वरं पश्येद्योऽतिभक्त्या च मानवः ॥६॥त्यक्त्वा यमगृहं व्यास रुद्रलोकं स गच्छति ॥शिप्रायां यो नरः स्नात्वा पश्येड्ढुंढेश्वरं शिवम् ॥७॥सोऽश्वमेधफलं व्यास लभते नात्र संशयः ॥देवेनात्र पुरा व्यास वादितो डमरुर्यतः ॥८॥देवस्तेन समाख्यातो नाम्ना डमरुकेश्वरः ॥भक्त्या पश्येन्नरो यस्तु देवं डमरुकेश्वरम् ॥९॥नैव व्याधिभयं तस्य मृतः शिवपुरं व्रजेत् ॥अनादिकल्पेश्वरं यस्तु भक्त्या पश्यति मानवः ॥१०॥राज्यं स लभते स्वर्गं यथा देवः पुरंदरः ॥देवानामप्यसौ व्यास स्पर्धनीयः सदा भवेत् ॥११॥कल्पकोटिशतं साग्रं भोगयुक्तस्तु मोदते ॥पश्येत्सिद्धेश्वरं यस्तु वीरभद्रं च चंडिकाम्॥१२॥सोत्रैव लभते सिद्धिं जयं सर्वत्र मानवः ॥स्वर्णजालेश्वरं दृष्ट्वा स्नातस्तीर्थे त्रिविष्टपे ॥१३॥स्वर्णेन पूजयेद्देवं सर्वपापैः प्रमुच्यते ॥स्नात्वा पश्येन्नरो भक्त्या यः कर्कोटेश्वरं शिवम् ॥१४॥सर्पतो न भयं तस्य दारिद्यं नैव जायते ॥यः पश्येत्परया भक्त्या महामायां सनातनीम् ॥१५॥विष्णुमायाविनिर्मुक्तः स याति परमं पदम् ॥अर्चयेत्परया भक्त्या यः कपालेश्वरं नरः ॥१६॥स मुच्येत महापापैर्यद्यपि ब्रह्महा भवेत् ॥स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ॥१७॥दर्शनात्तस्य देवस्य शतयज्ञफलं भवेत् ॥१८॥इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये चतुर्दशतीर्थयात्रावर्णनंनाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP