संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ६० अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६० Translation - भाषांतर ॥ व्यास उवाच॥पुरुषोत्तमं परं तीर्थं त्वया प्रोक्तं पुरानघ॥माहात्म्यं तस्य तीर्थस्य विस्तराद्वद मे प्रभो॥एतत्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥१॥॥सनत्कुमार उवाच॥शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम् ॥२॥यस्याः श्रवणमात्रेण महापापक्षयो भवेत् ॥पुराकल्पेषु वै ब्रह्मन्वैकुण्ठे विमले शुभे ॥३॥समासीनो रमानाथः पार्षदैः सनकादिभिः ॥महर्षिभिः सदाचारैः पितामहपुरोगमैः ॥४॥ऋदिसिद्धिगुणोपेतैस्तत्त्वैस्तैर्महदादिभिः ॥गणगंधर्वसंघैश्च सेव्यमानः समं ततः ॥५॥किन्नरोद्गानसन्मानैर्नृत्यद्भिरप्सरोगणैः ॥चिंतामणिगृहोद्गारललितांगणभूमिषु॥६॥कल्पद्रुमकृतच्छाय आसीनो हि मुरुद्विषः ॥धर्मवादरताः सर्वे ब्रह्ममार्गसुनिश्चिताः ॥७॥तेषां मध्ये परा भाषा ह्यपृच्छत्कमलापतिम् ॥८॥॥ लक्ष्मीरुवाच ॥पुण्यकानां विधिं नाथ श्रोतुमिच्छामि तत्त्वतः ॥सर्वज्ञोसि महाप्राज्ञ वाच्यतां यदि रोचते ॥९॥॥ श्रीभगवानुवाच ॥दानं स्नानं तपः श्राद्धं सदा शस्तं हि शोभने ॥तथापि विधिना प्राप्तं तत्सर्वं चाक्षयं भवेत् ॥१०॥देशे काले पर्वणि च तीर्थे चायतने पदे ॥दानं स्नानं तपः श्राद्धं मुनिभिः परिकीर्तितम्॥ ११॥पूर्णमास्याममावास्यां संक्रांतौ ग्रहणे तथा ॥वैधृतौ च व्यतीपाते दानवृद्धिः परा स्मृता ॥१२॥गंगायां भास्करक्षेत्रे कुरुक्षेत्रे च पुष्करे ॥गोदावर्यां गयायां च तीर्थे चामरकंटके ॥१३॥अवंत्यां च हुतं दत्तं तत्सर्वं चाक्षयं भवेत् ॥तस्मात्सर्वप्रयत्नेन पर्वे तीर्थं समाचरेत् ॥१४॥कुचैलो दुर्भगो मूर्खो जडो रोगसमन्वितः ॥तीर्थपर्वपरिभ्रष्टो नरो भवति निश्चितम् ॥१५॥के योगाः सुकृतानां च कर्तव्याश्च विशेषतः ॥१६॥॥ श्रीकृष्ण उवाच ॥साधु पृष्टः प्रिये प्रश्रः पुण्यकानां त्वयाऽनघे ॥मलमासे समायाते ये नरा व्रतवर्जिताः ॥जन्मजन्मनि दारिद्र्यं तेषां भवति शोभने ॥१७॥॥ श्रीरुक्मिण्युवाच ॥कीदृशो हि मलो मासः केन योगेन जायते ॥कदा काले समायाति एतन्नो वद विस्तरात् ॥१८॥॥ श्रीकृष्ण उवाच ॥युक्तमुक्तं त्वया देवि प्रश्नः कालेऽयमीदृशः ॥देवतापितृकार्याणि विधिना हि मलिम्लुचे ॥१९॥क्षौरं मौंजी विवाहश्च व्रतोपवासकं तथा ॥विशेषेण गृहस्थानां वर्ज्यं मुनिवरोत्तमैः ॥२०॥संवत्सरत्रयांते च मासोऽयमधिगच्छति ॥असंक्रमे रवेरस्मिंस्तस्मादधिकमासकः ॥२१॥अधिमासाधिपत्योऽहं सदैव पुरुषोत्तमः ॥ममाभिधानं तीर्थं च महाकालवने शुभम् ॥२२॥पुरुषोत्तमाख्यं मे धाम सदैवात्र प्रति ष्ठति ॥तस्मात्सर्वप्रयत्नेन गंतव्यं हि त्वया सह ॥.२३॥महाकालवने तत्र यत्र तीर्थं ममाभिधम् ॥प्राणिनो ये समायांति मज्जनार्थं प्रिये ध्रुवम्॥२४॥तेषामिह ममादेयं न कदापि भविष्यति॥धनधान्यकलत्रादि पुत्रसौख्यं सदैव हि॥२५॥असंक्रांतेऽपि संप्राप्ते मामुद्दिश्य व्रतं चरेत् ॥अधिमासाधिपत्योऽहं सदा वै पुरुषोत्तमः ॥२६॥स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥देवतार्चां च मध्याह्ने ये कुर्वंति नरोत्तमाः ॥२७॥अक्षयं च भवेत्सर्वं तेषां वै कमले धुवम् ॥मलमासो गतः शून्यो येषां देवि प्रमादतः ॥२८॥दारिद्र्यं च सदा तेषां शोकरोगविवर्धनम् ॥अधिमासे समायाते अवंत्यां व्रतमाचरेत् ॥२९॥तेषां ददाम्यहं प्रीत्या त्वामेव च न संशयः ॥स्वल्पं दानमलं कार्यं यत्किं चिदिह यत्कृतम् ॥तत्सर्वं मत्प्रसादेन ह्यनंतं प्रियदर्शने ॥३०॥॥ श्रीरुवाच ॥ईदृशो हि त्वया प्रोक्तो ह्यधिमासस्य सुव्रत ॥३१॥महिमा ह्यपि लोकानां सर्वकामवरप्रदः ॥अधिमासव्रतं पुण्यं कथयस्व प्रसादतः ॥३२॥॥ श्रीकृष्ण उवाच ॥असंक्रातो यदा मासः प्राप्यते मानवैः प्रिये ॥महोत्सवस्तदा कार्य आत्मनो हितकांक्षिभिः ॥३३॥कृष्णपक्षे चतुर्दश्यां नवम्यां वा सुरेश्वरि ॥अष्टम्यां चाथ कर्तव्यं व्रतं शोकविनाशनम् ॥३४॥यथालाभोपहारेण मासे चापि मलिम्लुचे ॥पुण्याहे प्रातरुत्थाय कृत्वा पौर्वाह्णिकीं क्रियाम् ॥३५॥गृहीत्वा नियमं पश्चाद्वासुदेवं हृदि स्मरन् ॥उपवासं च नक्तं च एकभुक्तं च मानिनि ॥३६॥एकस्य निश्चयं कृत्वा ततो विप्रान्निमंत्रयेत् ॥सपत्नीका न्सदाचारान्कुलीनाञ्ज्ञातिसंभवान् ॥३७॥ततो मध्याह्नसमये लक्ष्मीयुक्तं सनातनम् ॥स्थापयेदव्रणे कुंभे वेदमंत्रैर्द्विजातिभिः ॥३८॥पूजयेत्परया भक्त्या गोत्रिभिः सपितामहम् ॥गंधतोयेन संस्थाप्य पंचामृतैस्तथैव च ॥३९॥मिष्टान्नैर्नवभिश्चैव नैवेद्यैर्धूपदीपकैः ॥आच्छादनैश्च वस्त्रैश्च पीतकौशेयकैस्तथा ॥४०॥घंटामृदंगनिर्ह्रादैर्घोषध्वनिसमन्वितैः ॥आरार्तिकं व्रती कुर्यात्कर्पूरागरुचंदनैः ॥४१॥अलाभे तूल्मुकै श्चापि फलस्यानंत्यहेतवे ॥ताम्रपात्रस्थिते तोये चंदनाक्षतपुष्पकैः ॥४२॥अर्घ्यं दद्यात्सपत्नीकः प्रहृष्टेनांतरात्मना ॥पंचरत्नैः समायुक्तैर्जा नुनी कृत्य भूतले ॥समादाय च पाणिभ्यां सर्वभक्तिसमन्वितः ॥४३॥अर्घ्यमन्त्रः ॥कृपावन्सर्वभूतेषु जगदानंदकारक ॥गृहाणार्घ्यमिमं देव संपूर्णफलदो भव ॥४४॥प्रार्थनामंत्र ॥स्वयंभुवे नमस्तुभ्यं ब्रह्मणेऽमिततेजसे ॥नमोस्तु ते श्रियानंद ब्रह्मानंद कृपाकर ॥४५॥एवं संप्रार्थ्य गोविंदं पूजयेद्ब्राह्मणात्स्वयम् ॥सपत्नीकाच्छुचीन्स्नाताल्लँक्ष्मीनारायणौ स्मरन् ॥४६॥पूजयित्वा विधानेन भोजयेद्धृतपायसैः ॥४७॥भोजयित्वा विधानेन सपत्नीकं यथोचितम् ॥विद्याविनयसंपन्नं तथा पत्न्या समन्वितम् ॥४८॥पूजयित्वा यथाशक्त्या वस्त्रालंकारकुंकुमैः ॥गोस्तन्याम्रकपित्थैश्च खर्जूरैः कदलीफलैः ॥४९॥पनसैर्नारिकेलैश्च नारंगैर्दाडिमैस्तथा ॥घृतपक्वान्नगोधूमैः शुभैः सोमालिकैर्वटैः ॥५०॥शर्कराघृतपूरैश्च कर्णिकैः खंडमंडकैः ॥उर्वारुकर्कटीशाकैः शृंगबेरैः समूलकैः ॥५१॥अन्यैश्च विविधैः शाकैराम्रैः पक्वैः पृथक्पृथक् ॥भक्ष्यभोज्यलेह्यपेयकंदकानि विशेषतः ॥५२॥सुवासितान्गोरसांश्च परिवेष्य मृदु ब्रुवन् ॥इदं स्वादु रसं भोज्यं भवदर्थे प्रकल्पितम् ॥५३॥याच्यतां रोचते यच्च यन्मया पाचितं प्रभो ॥धन्योस्म्यनुगृहीतोस्मि कृतं सार्थं च मंदिरम् ॥५४॥विसर्जयेत्ततो विप्रान्दत्त्वा तांबूलदक्षिणाः ॥चतुर्भिर्मिंलितैर्देवि तांबूलं मम वल्लभम् ॥५५॥यो ददाति द्विजश्रेष्ठे स भवेत्सुभगो नरः ॥सुभगा च सदाचारा वल्लभा स्वजने सदा ॥५६॥पुत्रसौभाग्ययुक्ता च तांबूलैर्जायते प्रिये ॥पत्रैस्तु केशवः प्रीतः पूगैरीशः सहोमया ॥५७॥चूर्णकेनानलः प्रीतः खदिरेण तु मन्मथः ॥चतुर्भिर्विश्वरूपोऽसौ यः पुष्णाति जगत्त्रयम् ॥५८॥परितोष्य सपत्नीकान्हस्ते दत्त्वा च मोदकान् ॥आ सीमांतमनुव्रज्य भुंजीत सह बंधुभिः ॥५९॥असंक्रांते व्रतं नारी या करोतीह सुप्रिये ॥दारिद्र्यं पुत्रशोकं च वैधव्यं नाप्नुयात्क्वचित् ॥६०॥नरो वा यदि वा नारी यः कुर्याच्च मलिम्लुचे ॥स सर्वसुखभोक्ता च भवेन्नास्त्येव संशयः ॥६१॥मलिम्लुचे प्राप्य न पूजितो यैर्नारायणोऽहं परयेह भक्त्या ॥कथं भवेयुः सुखपुत्रसंपत्सुहृत्सुभार्याः सुगुणैरुपेताः ॥६२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखंडे ऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तममाहात्म्ये दानादिमाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP