अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
अमरावती यथा जाता पुरी ह्येषा कुशस्थली ॥
शृणु व्यास महाभाग यथा ब्रह्माब्रवीत्सुरान् ॥१॥
तथाहं संप्रवक्ष्यामि विस्तरेण तपोधन ॥
एकदा ब्रह्मणादिष्टः प्रजार्थमृषिसत्तमः ॥२॥
मारीचः कश्यपस्तेपे तपः परमदुष्करम् ॥
महाकालवने रम्ये दिव्ये स हि महानृषिः ॥३॥
शीर्णपत्रानिलाहारो वायुभक्षी जितेन्द्रियः ॥
पूर्णे वर्षसहस्रे तु वागुवाचाशरीरिणी ॥४॥
श्रूयतां भो द्विजश्रेष्ठ मम वाक्यमनुत्तमम् ॥
यस्मात्तपसि तपस्तीव्रं फलमुद्दिश्य सुव्रत ॥५॥
तस्मात्ते संततिस्तात यावच्चंद्रदिवाकरौ ॥
तावत्तिष्ठतु मेदिन्यां यशसा पुत्रपौत्रकैः ॥६॥
अदितिस्ते सती भार्या त्वया सहाचरत्तपः ॥
तस्मात्सर्वेषु कालेषु छायाभूता यशस्विनी ॥७॥
भविष्यंति सुताः सर्वे विष्णुश्चेंद्रपुरोगमाः ॥
अमरा निर्जरा देवा दिवि ख्याताः सदैव हि ॥८॥
त्वं चापि च ऋषिश्रेष्ठः प्रजापतिरकल्मषः ॥
भविष्यसि न संदेहो ममवाक्याद्द्विजोत्तम ॥९॥
इत्युक्त्वा च पुन र्देवी तत्रैवांतरधीयत ॥
तदारभ्य पुरीं व्यास कुशस्थलीमनुत्तमाम् ॥१०॥
कश्यपः सह दाक्षिण्या साग्निकः समुपाश्रितः ॥
प्रजापि ववृधे तस्मा त्सदेवासुरमानुषा ॥११॥
मरीचेः कश्यपो जज्ञे ततः सर्वं प्रतिष्ठितम् ॥
सुधापानकृतो देवाः शश्वत्तेनामराः कृताः ॥१२॥
नंदनं चापि तत्रैव महाकालवनोत्तमे ॥
कामधेनुः समाख्याता मनोरथवरप्रदा ॥१३॥
सा सिषेवे सदा तत्र महाकालं महेश्वरम् ॥
पारिजाततरुश्रेष्ठस्तथा चाम्लानपंकजम्॥१४॥
बिंदुसरः समाख्यातं मानसं सर उत्तमम्॥
हंससारससमाकीर्णं सुरसिद्धनिषेवितम्॥ १५॥
मुक्तामणिगणाकीर्णं रत्नशोभनशोभितम् ॥
निधिरेष महापद्मः कह्लारकुमुदोज्ज्वलः॥ १६॥
यानि यानि च दिव्यानि संति ब्रह्माण्डगोलके॥
तानि सर्वाणि तिष्ठंति महाकालवने शुभे ॥१७॥
तेनतेनात्मयोगेन मानवाश्चात्र संस्थिताः ॥
तदाहारास्तदाचारास्तद्रूपास्तत्पराक्रमाः ॥१८॥
अन्योन्यं च समाकीर्णा सर्वे चामरसंनिभाः ॥
विचरंति यथा देवाः पुरीमेतां जना भुवि ॥१९॥
अमरांगनासमा नार्यः सदैव स्थिरयौवनाः ॥
ईदृशी च पुरी दृष्टा भुवि व्यास सनातनी ॥२०॥
देवदानवगन्धर्वैः किन्नरोरगराक्षसैः ॥
भुक्तिमुक्तिप्रदा नित्या बहुकालफलप्रदा ॥२१॥
अमराणां कटकं ह्यत्र तस्माजातामरावती ॥
य एतस्यां महाभागाः प्रसंगेन समागताः ॥२२॥
स्नानदानादिकं कृत्वा पश्यत्येव महेश्वरम् ॥
न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा ॥२३॥
सर्वभोगानवाप्नोति मृतः शिवपुरं व्रजेत् ॥
पठनाच्छ्रवणाद्वापि शतरुद्रियफलं लभेत् ॥२४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽमरावतीनामकथनंनाम षट्चत्वारिंशोऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP