संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ६२

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
गोमतीकुण्डं त्वया प्रोक्तं पुरा ब्रह्मन्सनातनम् ॥
कस्मिन्काले कदा जातं तन्नो वद सुविस्तरात् ॥१॥
॥ सनत्कुमार उवाच ॥
शृणुष्व भो महाप्राज्ञ कथां पापहरां पराम् ॥
गोमतीकुण्डोद्भवां पुण्यां पुरा रुद्रेण भाषिताम् ॥२॥
नैमिषे च समासीना ऋषयः शौनकादयः ॥
कथयंति कथां पुण्यां सर्वतीर्थोद्भवां शुभाम् ॥३॥
तस्मिन्नवसरे पुण्ये काशीमाहात्म्यमुत्तमम् ॥
कथितं नारदेनैव पवित्रं पापहारकम् ॥४॥
ऊषरः पुण्य पापानां धन्या वाराणसी पुरी ॥
ध्रुवं लभंते मोक्षं च समं चंडालपंडिताः ॥५॥
असीवरुणयोर्मध्ये पंचक्रोशी महाफलम् ॥
अमरा मरणमिच्छन्ति का कथा इतरे जनाः ॥६॥
इति स्मृत्वा तदा व्यास स्वयंभूः प्रत्यभाषत ॥
शृण्वतां सर्वदेवानामृषीणां च परंतप ॥७॥
नदी न गोमतीतुल्या कृष्णतुल्या न देवता ॥
सर्वपातालभूमध्ये न द्वारकासमा पुरी ॥८॥
इति ते निश्चयं ज्ञात्वा ऋषयः शौनकादयः ॥
यत्र तत्र स्थिताः सर्वे प्रातःसंध्यामुपासितुम्॥ ९॥
तत्रैव गोमतीतीरे चक्रुस्ते ला धृतव्रताः ॥
सांदीपनोऽपि तत्रैव प्रातःसंध्यां समाचरत् ॥१०॥
एवं बहुतिथे काले चरतस्तस्य वै व्रतम्॥
सांदीपनस्य वै व्यास ह्यवंतीपुरवासिनः॥११॥
तस्यैव कामपूर्त्यर्थं विद्यार्थिनौ रामजनार्दनौ ॥
समायातौ सुकुमारांगौ सततं ब्रह्मचारिणौ ॥१२॥
निवासं चक्रतुस्तस्य गुरोर्गेहे परंतप ॥
तस्य पाठयतः सम्यग्विद्यां सर्वश्रुतीः परम् ॥१३॥
उषस्युषसि तत्रैव दृश्यते न तदा गुरुः ॥
विद्योपदेशकालोऽयं क्व गतो नौ गुरुर्वरः ॥१४॥
इति पृष्टे तयोरेवं गुरुपत्नी ह्युवाच ह ॥
सदैव कुरुते वत्स प्रातःसंध्याद्युपास नम् ॥१५॥
तत्रैव याति वै नित्यं गुरुस्ते स्नानकारणात् ॥
गोमती वै सरिच्छ्रेष्ठा द्वारकायां च पावनी ॥१६॥
इति श्रुत्वा तदा कृष्णो रामेण सह संयुतः ॥
किं कर्तव्यमिहास्माभिरात्मनो हितमुत्तमम् ॥१७॥
गुरोरागमनं कांक्षे अत्रैव स्थितिकांक्षया ॥
एतस्मिन्नेव काले तु सांदीपनिरगा द्गृहम्॥ १८॥
तत उत्थाय तौ वीरौ गुरोरावंदनं ततः ॥
प्रश्रयावनतौ कृत्वा ह्यब्रूतां वचनं गुरुम् ॥१९॥
श्रूयतां भो महायोगिन्नस्माकं वासकार णम्॥
विद्यार्थिनाविह प्राप्तौ युष्माकं च गृहोत्तमे ॥२०॥
प्रातःकाले च ते ब्रह्मन्समयो नास्ति नौ प्रभो ॥
एतच्छुत्वा वचस्तस्य कृष्णस्य च बलस्य च ॥२१॥
उवाच भगवान्व्यास आत्मनो व्रतकारणम् ॥
अस्माकं परमं वत्स व्रतं वै शाश्वतं मतम् ॥२२॥
गोमतीस्नानं कर्तव्यं प्रातःकाले सदा बुधैः ॥
तत्रैवोपासनं पुण्यं संध्याया इति निश्चितम् ॥२३॥
इति निश्चित्य युष्माभिर्यद्योग्यं क्रियतां तथा ॥
तच्छ्रुत्वा भगवान्विष्णुर्मायामानुषरूपवान् ॥२४॥
गोमत्याराधनं चक्रे कुशस्थल्यां द्विजोत्तम ॥
यत्र शिवेश्वरो देवो यज्ञकुण्डमनुत्तमम् ॥२५॥
कंथडेश्वरस्योत्तरे भागे गोमती सा समागता ॥
पातालतलमाभेद्य सरस्वत्या सहागता ॥२६॥
प्रातरुत्थाय ते सर्वे गोमतीं सरितां वराम् ॥
ददृशुः सुचिरापांगीं व्यास स्वाश्रमगामिनीम् ॥२७॥
॥ श्रीकृष्ण उवाच ॥
अत्रैव चागता ब्रह्मन्गोमती सरितांवरा ॥
स्नानदानादिकं सर्वमत्रैव समुपासय॥ २८॥
गोमत्यत्र समालीना यज्ञकुण्डे सरस्वती ॥
तदाप्रभृति लोकेऽस्मिन्गोमतीकुण्डमुच्यते ॥२९॥
सर्वेषामपि लोकानां मार्गोऽ त्रैव च विद्यते ॥
तस्माद्व्यास महापुण्यं भुवि तीर्थमनुत्तमम्॥ ३०॥
गोमतीकुण्डमाख्यातं सर्वपापप्रणानशनम् ॥
भाद्रे मास्यसिताऽष्टम्यां कृष्ण जन्मसमुद्भवम् ॥३१॥
तत्र स्नात्वा नरो नित्यं रात्रौ जागरणं चरेत् ॥
उपोष्य विधिवद्व्यास सशिष्यं व्यासमर्चयेत् ॥३२॥
वैष्णवांश्च नरांश्चैव कृष्णजन्मोत्सुकान्वरान्॥
नानासुगंधपुष्पाद्यैर्वस्त्रालंकारसंयुतैः ॥३३॥
गोब्राह्मणानां पूजाश्च क्रियते यैः समाहितैः ॥
न तेषां दुर्लभं किंचित्सर्वलोकेषु विद्यते ॥३४॥
गोमतीस्नानजात्पुण्याद्वासुदेवसमागमात् ॥
मनोरथफलप्राप्तिर्जायते नाऽत्र संशयः ॥३५॥
तथा चैत्रसिते पक्षे यावच्चैकादशी भवेत् ॥
तद्दिने च नरः स्नात्वा गोमत्यां च विशेषतः ॥३६॥
रात्रौ जागरणं कृत्वा विष्णुपूजां तथैव च ॥
आमलकीं ततो गत्वा प्रदक्षिणात्पदेपदे ॥३७॥
गोसहस्रफलं तेषां प्राप्यते नाऽत्र संशयः ॥
ये शृण्वंति कथां पुण्यां पवित्रां पापहारिणीम् ॥३८॥
सर्वपापविनिर्मुक्ता विष्णुलोकं प्रयांति ते ॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गोमतीतीर्थकुण्डमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP