अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सनत्कुमार उवाच॥
उत्तरे तु प्रवक्ष्यामि मर्कटेश्वरमुत्तमम्॥
तत्र तीर्थं च विख्यातं सर्वकामप्रदायकम् ॥१॥
तस्मिंस्तीर्थे नरः स्नात्वा गोशतस्य फलं लभेत्॥
विस्फोटानां प्रशांत्यर्थं बालानां चैव कारणे ॥२॥
मापेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत् ॥
शीतलायाः प्रभावेन बालाः संतु निरामयाः ॥३॥
ये पश्यंति नरा भक्त्या शीतलां दुरितापहाम् ॥
न तेषां दुष्कृतं किंचिन्न दारिद्र्यं द्विजोत्तम ॥४॥
न च रोगभयं तेषां ग्रहपीडा तथैव च ॥५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शीतला माहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : November 30, 2024
TOP