संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ३

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
 छिन्ने वक्त्रे ततो ब्रह्मा क्रोधेन तमसा वृतः ॥
ललाटे स्वदमुत्पन्नं गृहीत्वाऽताडयद्भुवि ॥१॥
तत्स्वेदात्कुंडली जज्ञे सधनुः समहेषुधिः ॥
सहस्रकवचो वीरः किं करोमीत्युवाच ह ॥२॥
तमुवाच विरंचिस्तु दर्शयन्रुद्रमोजसा ॥
वध्यतामेष दुर्बुद्धिर्जायते न यथा पुनः ॥३॥
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः ॥
स प्रतस्थे महेशस्य बाणहस्तोऽतिरोषभृत् ॥४॥
स दृष्ट्वा पुरुषं चोग्रमगमद्विस्मितो भवः ॥
दिव्यबाणधनुर्हस्तं वेगविक्रांतगामिनम् ॥५॥
मया न वध्योऽतिबलः सखा विष्णोर्भविष्यति ॥
अनुग्राह्यो ह्यहं तेन सख्यार्थं तपसि स्थितः ॥६॥
चिंतयन्नित्थमीशोऽपि विष्णोराश्रममभ्यगात् ॥
हुंकारध्वनिना ब्रह्मन्मोहयित्वा ततो नरम् ॥७॥
प्रपात्य च तदा हृष्टः क्रीडां कुर्वञ्जगत्स्थितौ ॥
यत्र नारायणः श्रीमांस्तपस्तेपे प्रतापवान् ॥८॥
अदृश्यः सर्वभूतानां विश्वात्मा विश्वसृग्विभुः ॥
तत्र प्राप्तो विरूपाक्षो ददर्श मधुसूदनम् ॥९॥
एकांगुष्ठस्थितं भूमौ तपोऽत्यंतमनातुरम् ॥
युगांतार्कसहस्रस्य तेजसा वृतमद्भुतम् ॥१०॥
पुण्या धारसमायुक्तं पुराणपुरुषोत्तमम् ॥
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह ॥११॥
कपालं दर्शयित्वाग्रे ज्वलज्ज्वलनसोत्कटम् ॥
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिंतयत् ॥१२॥
कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम् ॥
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत् ॥१३॥
तं बिभेदांतर्गतज्ञः शूलेन शशिशेखरः ॥
ततः प्रवाह उत्पन्नः शोणितस्य विभोर्भुजात् ॥१४॥
जांबूनदरसाकारा वह्निज्वालेव निर्मला ॥
निष्पपात कपालांते शंभुना संप्रतीच्छिता ॥१५॥
ऋज्वी वेगवती शिप्रा दीधितीवांबरे रवेः ॥
पंचाशद्योजना दीर्घा विस्तारे दशयोजना ॥१६॥
दिव्यं वर्षसहस्रं सा समुवाह हरेर्भुजात् ॥
कियंतं कालमीशो हि भिक्षां जग्राह भावितः ॥१७॥
दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे ॥
ततो नारायणः प्राह हरं परमिदं वचः ॥१८॥
संपूर्णं तव पात्रं हि ततो वै परमेश्वरः ॥
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः ॥१९॥
शशिसूर्याग्नि नयनः शशिशेखरशोभितः ॥
कपाले दृष्टिमावेश्य त्रिनेत्रैश्च जनार्दनम् ॥२०॥
अंगुल्या घटयन्प्राह कपालं चातिपूरितम् ॥
श्रुत्वा हरिरिदं वाक्यं रक्तधारां समाहरत् ॥२१॥
पार्श्वतोथ हरेरीशः स्वांगुल्या रुधिरं तदा ॥
दिव्यं वर्षसहस्रं च दृष्टिपातं ममंथ वै ॥२२॥
मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात् ॥
बभूव च ततः पश्चात्किरीटी सशरासनः ॥२३॥
सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः ॥
बभूव तूणीरगलो वृषस्कंधोंऽगुलित्रवान् ॥२४॥
पुरुषोऽर्जुनसंकाशः कपाले संप्रकाशयन् ॥
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः ॥२५॥
कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः ॥
उक्तिं श्रुत्वा हरेरीशस्तमुवाच हरे शृणु ॥२६॥
नरो नामेति पुरुषः परमास्त्रविदांवरः ॥
यस्त्वयोक्तो नर इति नरस्तस्माद्भ विष्यति ॥२७॥
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः ॥
संग्रामे देवकार्येषु लोकानां परिपालने ॥२८॥
एष नारायण सखा नरस्तव भविष्यति ॥
तव एकाकिनः संख्ये तपसश्च महामुनिः ॥२९॥
विज्ञानस्य परीक्षायै तेजो लोके भविष्यति ॥
तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः ॥३०॥
तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात् ॥
मम दृष्टिनिपाताच्च त्रीणि तेजांसि यान्यतः ॥३१॥
तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति ॥
अवध्या ये भविष्यंति दुर्जयास्तव चापरे ॥३२॥
शक्रस्य चामरारीणां तेषामेव भयंकरः ॥
एवमुक्तवतः शंभोर्विस्मितस्तस्य तेजसा ॥३३॥
हरिरपि स तत्रैव तुष्टाव हरकेशवौ ॥
नमो हर हरे तुभ्यं नमः शंकर विष्णवे ॥३४॥
नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये ॥
नमोनमस्ते मेध्याय हृषीकेश नमोऽस्तु ते ॥३५॥
नमोऽस्तु वाचां पतये श्रीधराय नमोनमः ॥
एवं स्तुवन्तं तं भक्त्या कृतांजलि पुटं नरम्॥ ३६॥
तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम्॥
उद्धृत्याथ कपालात्तु पुनर्वचनमब्रवीत् ॥३७॥
य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः ॥
मम हुंकारशब्देन मोहनिद्रामुपागतः ॥३८॥
निबोध तं च त्वरितमित्युक्त्वांतर्हितो हरः ॥
नारायणस्य प्रत्यक्षं बोधयित्वा द्रुतं हि तम्॥ ३९॥
वामपादेन हत्वा च समुत्तस्थौ नरो रुषा ॥
तयोर्युद्धं समभवत्स्वेदरक्तजयोर्महत् ॥४०॥
विस्फारितधनुःशब्दैर्नादिताशेषभूत लम्॥
कवचं स्वेदजस्यैकं रक्तजस्य तथा भुजौ ॥४१॥
एवं समेन वै युद्धं दिव्यं जातं तु भूतले ॥
त्रिवर्षोनानि वर्षाणां शतानि दश सुद्विज॥४२॥
युध्यतो समतीतानि स्वेदरक्तजयोर्मुने ॥
रक्तजो द्विभुजो दृष्ट्वा कवचैकेन स्वेदजम् ॥४३॥
बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम् ॥
ससंभ्रममु वाचेदं ब्रह्माणं मधुसूदनः ॥४४॥
मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः ॥
श्रुत्वा तदाकुलो ब्रह्मा बभाषे मधुसूदनम् ॥४५॥
हरेऽन्यजन्मनि नरो मदीयो यदि हीयते ॥
तेन तुष्टेन संप्रोक्तं हरिणैवं भविष्यति ॥४६॥
कृत्वा तयो रणमपि निवार्य तावुवाच ह ॥
अथान्यजन्मनि नरो मदीयो भविता कलौ ॥४७॥
ततो महारणे जाते तत्राहं योजयामि तम् ॥
विष्णुनाथ समाहूय महेश्वरसुरेश्वरौ ॥४८॥
उक्ताविमौ नरौ रुद्रौ पालनीयौ स्वशक्तितः ॥
स्वेदजातासृग्जातौ तु स्वकीयांशौ धरातले ॥
स्वांशभूतौ द्वापरांते नियोज्यौ भूतले त्वया ॥४९॥
ततोऽब्रवीत्तदा विष्णुं सुरेशो दुःखितं वचः ॥५०॥
अस्मिन्मन्वंतरे देव त्रेतायुगं तदा यदा ॥
त्वद्रूपेणेह महता सूर्यपुत्रहितार्थिना ॥
वालीनाम महाबाहुः सुग्रीवार्थे निपातितः ॥५१॥
तेन दुःखेन तप्तोऽहं नाहं गृह्णामि ते नरम् ॥
अगृह्णमानं देवेशं कारणांतरवादिनम् ॥५२॥
विष्णुः प्रोवाच मघवन्भुवो भारावतारणे॥
अवतारं करिष्यामि मर्त्यलोकेऽप्यहं विभो॥५३॥
ततो हृष्टोऽभवच्छक्रो विष्णुवाक्येन तेन वै॥
प्रतिगृह्य नरं हृष्टः सत्यमस्तु वचस्तव ॥५४॥
इत्युक्त्वा तु रवीन्द्रौ स प्रेषयित्वा च तौ पुनः ॥
गत्वा च पुण्डरीकाक्षो ब्रह्माणं ब्रह्मवेश्मनि ॥५५॥
कृतं जुगुप्सितं कर्म ब्रह्मन्नीशं जिघांसता ॥
यत्त्वया देवदेवेश पुमान्कोपेन भाषितः ॥५६॥
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु ॥
गृह्णन्वह्नित्रयं ब्रह्मन्नग्नि होत्रमुपास्व ह ॥५७॥
एको वै गार्हपत्योऽस्तु द्वितीयाहवनीयकः ॥
दक्षिणाग्निस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय ॥५८॥
वर्तुले तर्पयात्मानं मामथो धनुषाकृतौ ॥
चतुष्कोणे हरं देवमृग्यजुःसामनामभिः ॥५९॥
हुत्वा त्वग्निं च तपसा हरमेवार्च्य तत्क्षणात् ॥
दिव्यं वर्षसहस्रं तु हुत्वाग्निं सिद्धिमाप्स्यसि ॥६०॥
प्रायश्चित्तविशुद्धात्मा प्रतिपद्य महेश्वरम्॥
ततो निष्कल्मषो भूत्वा विषादस्ते गमिष्यति ॥६१॥
इत्येवमुक्त्वा हरिरुग्रतेजा गतः स्वकीयं निलयं महात्मा ॥
ब्रह्मापि चित्तं तपसे निधाय समादधे सर्वमथाच्युतोक्तम् ॥६२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाह स्र्यां संहितायां पंचम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्ये ब्रह्मणः प्रायश्चित्तवर्णनंनाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP