संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय २१

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
अथान्यत्संप्रवक्ष्यामि देवं त्रिदशपूजितम् ॥
हनुमत्केश्वरंनाम भुक्तिमुक्तिफलप्रदम् ॥१॥
शैवे सरसि यः स्नात्वा पश्येद्धनुमत्केश्वरम् ॥
कल्पकोटिसहस्राणि वायुलोके स मोदते ॥२॥
॥ व्यास उवाच ॥
हनुमत्केश्वरो यस्तु ह्युक्तः पूर्वं त्वयाऽनघ ॥
कथां कथय ह्येतस्य वृत्तपूर्वां सनातनीम् ॥३॥
॥ सनत्कुमार उवाच ॥
त्रैलोक्यकण्टकः पूर्वं रावणो नाम राक्षसः ॥
विष्णुना रामरूपेण लंकायां विनिपातितः ॥४॥
घातयित्वा तु तं दुष्टं सीतामादाय जानकीम् ॥
वानरैः सह ऋक्षैश्च नगरीं स्वामुपागतः ॥५॥
तत्र राज्यमनुप्राप्य ऋषिभिः परिवारितः ॥
कथावसाने रामेण ह्यगस्त्यो मुनिसत्तमः ॥६॥
पप्रच्छ च द्वयोर्वीर्यं शंभुवातजयोस्तदा ॥
तदा दाशरथिं प्राह अग स्तिर्मुनिसत्तमः ॥७॥
अनौपम्यो यथा देवो युद्धे शौर्यं? महेश्वरः ॥
ज्ञेयो वायुसुतस्तद्वत्सत्यमेतद्ब्रवीमि ते ॥८॥
एतच्छुत्वाथ हनुमान्यद्धरेणो पमा मम ॥
कृता मुनिवरेणेह प्रत्यक्षं राघवस्य ह ॥९॥
गमिष्ये नगरीं लंकां लिंगमेकं प्रयाचितुम् ॥
राक्षसेन्द्रं महाभागं विभीषणमकल्म षम् ॥१०॥
ततो गतः स लंकायां विभीषणमुवाच ह ॥
देहि मे त्वं महाभाग लिंगमेकं च शोभनम् ॥११॥
उक्तं च राक्षसेन्द्रेण गृहाणैतद्यथा रुचि ॥
एतानि षट् च लिंगानि रावणस्थापितानि वै ॥१२॥
त्रैलोक्यविजयात्पूर्वं मम भ्रात्रा महात्मना ॥
एतेषु यदभीष्टं ते लिंगं कथय सुव्रत ॥
तत्प्रयच्छामि तेऽद्यैव सत्यमेतत्प्लवंगम ॥१३॥
ततो जग्राह हनुमाँल्लिंगं मौक्तिकसंनिभम् ॥
यदेतद्दृश्यते वीर तत्प्रयच्छ ममानघ ॥१४॥
श्रुत्वा हनुमतो वाक्यमथोवाच विभीषणः ॥
दत्तमेतन्महावीर लिंगं यद्धृतवानसि ॥१५॥
श्रूयते हि पुरावृत्तं लिंगमेतद्धनेश्वरः ॥
रुद्र भक्त्या समायुक्तस्त्रिकालमप्यपूजयत् ॥१६॥
रावणेन यदा बद्धस्तदानीं हि धनेश्वरः ॥
लिंगस्यास्य प्रभावेन विमुक्तः समपद्यत ॥१७॥
प्रसादात्तस्य लिंगस्य धनेशो धनरक्षकः ॥
गृहीत्वा तन्महालिंगं स्वस्थो जातोऽथ वानरः ॥१८॥
॥ सनत्कुमार उवाच ॥
गृहीत्वा तु ततो लिंगं प्रस्थितो विमलेंऽबरे ॥
सप्तमे दिवसे चैव संप्राप्तोऽवंतिकां पुरीम् ॥१९॥
तत्र रुद्रसरस्तीरे स्थाप्य स्नानमथाकरोत् ॥
महाकालस्य पूजार्थं गमनं प्रत्यचिंतयत् ॥२०॥
उद्धर्तुकामस्तल्लिगमुद्धर्तुं न शशाक सः ॥२१॥
ततो व्यवस्थितो देवः प्राह तं वायुनन्दनम् ॥
अस्मिन्क्षेत्रे हनूमन्मां त्वन्नाम्नैव प्रतिष्ठापय ॥२२॥
हनुमत्केश्वरं चाथ लोके ख्यातं भविष्यति ॥
शैलवच्चोन्नतं लिंगं स्थापितं वायुसूनुना ॥२३॥
शनौ पश्येन्नरो यस्तु हनुमत्केश्वरं शिवम् ॥
तस्य शत्रुभयं नास्ति संग्रामे जयमाप्नुयात् ॥२४॥
न च चौरभयं तस्य न दारिद्र्यं न दुर्गतिः ॥
तैलाभिषेकं यः कुर्याद्धनुमत्केश्वरे शिवे ॥२५॥
तस्य रोगाः प्रलीयन्ते ग्रहपीडा न जायते ॥
ये द्रक्ष्यंति नराः भक्त्या तेषां मोक्षो भविष्यति ॥२६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये हनुमत्केश्वरमाहात्म्यवर्णनंनामै कविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP