अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
दशाश्वमेधिके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मान वः ॥१॥
मनुना मानवेन्द्रेण राज्ञा चैव ययातिना ॥
रघुणोशनसा चैव लोमशेन महर्षिणा ॥२॥
अत्रिणा भृगुणा व्यास दत्तात्रेयेण धीमता ॥
पुरूरवसा पुण्येन नहुषेण नलेन च ॥३॥
अत्र स्नानेन संप्राप्तं दशाश्वमेधिकं फलम् ॥
संप्राप्ते द्वापरस्यांते राज्ञा बाष्कलिना तथा ॥४॥
दशानामश्वमेधानां फल प्राप्तं द्विजोत्तम ॥
कृष्णवर्णं तथा लिंगं पूजितं भक्तितः सदा ॥५॥
दृष्ट्वा स्पृष्ट्वा च तं देवं प्रागुक्तं लभते फलम् ॥
चैत्रे मासि सिताष्टम्यां देवं संपूज्य भक्तितः ॥६॥
अश्वं दद्याच्च विप्राय सुरूपं च गुणान्वितम् ॥
यावंति तस्य रोमाणि गण्यंते संख्यया द्विज ॥७॥
तावद्वर्षसहस्राणि शिवलोके महीयते ॥
शिवलोकात्परिभ्रष्टः सार्वभौमो भवेद्भुवि ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP