अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
अथातः संप्रवक्ष्यामि हरसिद्धिं सुसिद्धिदाम् ॥
पार्वत्या हरणे यत्र सिद्धिः प्राप्ता हरेण च ॥१॥
बलिनौ दानवौ जातौ नाम्ना चण्डप्रचंडकौ ॥
उत्खाय त्रिदिवं सर्वं गिरिं कैलासमागतौ ॥२॥
दृष्ट्वा तत्र गिरीशं तु उद्यताक्षाक्षहस्तकम् ॥
नागेशं शशिखट्वांगं गृहीत्वा दक्षिणे करे ॥३॥
देविदेवीति जल्पंतं दासस्तेऽस्मीति वादिनम् ॥
यावदेकं तु फलकं तावद्द्यूतं प्रवर्तताम् ॥४॥
रागीभूते तदा देवे तौ प्राप्तौ देवकंटकौ ॥
उत्सादिताः शिवगणा नंदिना प्रतिषेधितौ ॥५॥
ततस्ताभ्यां तदा नंदी शूलाभ्यां प्रविदारितः ॥
समं सव्यदक्षिणं वै सुस्राव रुधिरं बहु ॥६॥
नंदिनं ताडितं दृष्ट्वा तदा शिलादनंदनम् ॥
ध्याता हरेण सा देवी प्रणता साऽग्रतः स्थिता ॥७॥
वध्यतां तौ महादैत्यौ वधामीति वचोऽब्रवीत् ॥
गृहीत्वा मुद्गरं घोरमतिक्रोधादताडयत् ॥८॥
यदा तया हतौ दृष्टौ दानवौ बलगवितौ ॥
हरस्तामाह हे चंडि संहृतौ दुष्टदानवौ ॥९॥
हरसिद्धिरतो लोके नाम्ना ख्यातिं गमिष्यसि ॥
ततः प्रभृति सा देवी हरसिद्धि प्रदायिनी ॥
हरसिद्धिरिति ख्याता महाकाले बभूव ह ॥१०॥
यः पश्येत्परया भक्त्या हरसिद्धिं नरोत्तमः ॥
सोऽक्षयाँल्लभते कामान्मृतः शिवपुरं व्रजेत् ॥११॥
आदिसिद्धिं महादेवीं नित्यां व्योमस्वरूपिणीम् ॥
हरसिद्धिं प्रपश्येद्यः सोऽभीष्टं लभते फलम् ॥१२॥
यः स्मरेद्धरसिद्धीति मंत्रं च चतुरक्षरम् ॥
न वैरिणो भयं तस्य दारिद्र्यं नैव जायते ॥१३॥
नरो महानवम्यां यो हरसिद्धिं प्रपूजयेत् ॥
महिषं च बलिं दद्यात्स भवेद्भूपतिर्भुवि ॥१४॥
नवम्यां पूजिता देवी हरसिद्धिर्हरप्रिया ॥
तुष्टा नृणां सदा व्यास ददात्यनवमं फलम् ॥१५॥
सा पुण्या सा पवित्रा च सर्वत्र सुखदायिनी ॥
स्मृता संपूजिता दृष्टा धनपुत्रसुखप्रदा ॥१६॥
महानवम्यां ये व्यास हन्यंते महिषादयः ॥
सर्वे ते स्वर्गतिं यांति घ्नतां पापं न विद्यते ॥१७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये हरसिद्धिमाहात्म्य वर्णनंनामैकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP