संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ४१

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
शृणु व्यास यथेयं तु प्रोच्यते हि कुशस्थली ॥
कल्पे तत्पुरुषे पूर्वं वेदविद्भिर्मनीषिभिः ॥१॥
वेधसा सृजितं विश्वं दैत्यदानवरा क्षसम् ॥
अन्योन्यमदसंमत्तमन्योन्यद्वेषि वै रणे ॥२॥
देवाश्च दानवाः संख्ये नित्यं स्पर्धासमन्विताः ॥
मनुष्या मनुजैः सार्धं सिद्धविद्याधरैः सह ॥३॥
चारणाः किंनरैः सार्धमेवं ते द्वेषतत्पराः ॥
युद्धं कुर्वंति सततमविस्पष्टार्थया गिरा ॥४॥
सर्वे चैव च बलिनो दुर्बलैर्मनुजैः सह ॥
पशवः पशुभिः सार्धं पक्षिणः सह पक्षिभिः ॥५॥
एवमन्योन्यमन्यैश्च निर्मर्यादमिदं जगत् ॥
दृष्ट्वा विश्वस्य कर्तारं विष्णुं विश्वेश्वरं परम् ॥६॥
व्रजामि शरणं देवं शरणार्त्तिहरं हरिम् ॥
एवं मनसि संधाय दध्यौ ध्यानेन माधवम् ॥७॥
ततो ध्यातो महायोगी विश्वरूपधरो हरिः ॥
लोहदण्डधरः श्रीमानिदमाह पितामहम् ॥८॥
ब्रह्मन्ध्यातस्त्वया सम्यग्ध्यानयोगेन पश्य माम् ॥
समायांतं तथा ध्यातं जगतां पातुमुद्यतम् ॥९॥
ततो धाता निशम्यैतत्त्यक्त्वा ध्यानमवेक्ष्य तम् ॥
समुत्थायैकमनसा नमश्चक्रेऽर्चयत्पुनः ॥१०॥
पाद्येनाचमनीयेन मधुपर्केण केशवम् ॥
पूजयित्वा पुनर्वाक्यमुवाचाच्युतमब्जजः ॥११॥
॥ ब्रह्मोवाच ॥
देवदेव जगन्नाथ जगत्सृष्टमिदं त्वया ॥
ऋते त्वया जगद्विष्णो नैवावस्थातु मर्हति ॥१२॥
शास्ता त्वमस्य विश्वस्य विशुद्धस्य च नापरः ॥
त्वत्तोस्तीदं जगत्सर्वं तस्मात्त्वमनुशासय ॥१३॥
देवदानवगंधर्वाः सयक्षो रगराक्षसाः ॥
त्वामृते पुण्डरीकाक्षं व्यापिताशेषविग्रहाः ॥
परस्परं विनिघ्नंति तांश्च त्वं रक्षितुं क्षमः ॥१४॥
त्वमस्य विश्वस्य चराचरस्य स्थितेः सदा प्राणभृदात्मरूपिणी ॥१५॥
त्वया धृतं सर्वमिदं जगद्वै यतस्ततोऽसि त्वमुपेन्द्रसंज्ञः ॥
प्रवेशनं व्याप्तमिदं स्वधाम यत्त्वमुच्यसे विष्णुरतो मुनींद्रैः ॥१६॥
निवासितं विश्वमिदं त्वयाद्य वासश्च धातोरिति वासुदेवः ॥
तवानुगं विश्वमिदं विभुस्त्वमशेषविश्वस्य विभासि राजा ॥१७॥
सेनानुरूपं जगदेव यस्मादतः स्मृतस्त्वं किल विश्वसेनः ॥
विलेखनादस्य चराचरस्य कृतेश्च धातोस्त्वमतोऽसि कृष्णः ॥१८॥
जितं त्वया देव जगत्त्रयं यज्जितेश्च धातोस्त्वमतोऽसि जिष्णुः ॥
तस्मात्समस्तग्रहलोकपालं जगद्विभो पालय सर्वकालम् ॥१९॥
त्वमस्य सर्वस्य भवादिराजस्तवास्तु भद्रासनमद्वितीयम॥
प्रदक्षिणावर्तनकस्तु शंखः करस्थितः शोभति पूरुषस्य ॥२०॥
सुदर्शनं नाम तवास्ति चक्रमतो हि गीतः कविभि स्तु चक्री ॥
ध्वजोऽस्ति ते देव सुपर्णसेवितस्तथासुपर्णश्च तवास्ति वाहनम् ॥२१॥
तुरंगमाः संतु तवारिसंहरे तथा हृषीकेश सुदन्तदन्तिनः॥
किरीटनिष्कांगदकर्णपूरकेयूरहारोत्तमहेमसूत्रैः ॥२२॥
विचित्रवस्त्रोत्तमरक्तमाल्यैर्विभूषितस्त्वं भव भीमसेनः ॥
श्रिया कदाचिच्च न मुच्यते भवान्भवं ति ते नित्यमनंतसंपदः ॥२३॥
तवानुगा भक्तिरिहास्तु वै सती मुकुन्द भक्ते त्वमतः प्रसीद मे ॥२४॥
॥ सनत्कुमार उवाच ॥
स एवमुक्तस्तु पुरो दिवौकसां विभुः प्रसन्नस्त्विदमब्रवीद्धरः ॥
विरिंच मे दर्शय तस्य मंडलं त्वया विमुक्तं च सदाशिवं विभो ॥२५॥
स्थिरं स्थि यत्र जगत्करोम्यहं ततो विरंचिः कुशमुष्टिमाददे ॥
पवित्रदेशस्य निदर्शनाय जगाम पुण्यं च्यवनाश्रमं तदा ॥२६॥
ततः स्थलीमुच्चतरामवाप्य पितामहः केशवमाह चादरात् ॥
त्वदुद्भवं चात्र पवित्रमंडलं त्वया विमुक्तं च सदा शिवं विभो ॥२७॥
त्वमेव विष्णुर्विबुधार्चितः सदा स्मृतो मुनींद्रैः स च विष्टरश्रवाः ॥
निषीद विश्वेश कुशस्थलं यदा तदाश्रितो माधवमासरूपवान् ॥२८॥
कुशस्थलीं संस्थित एव देव इत्थं विधात्रा पुरुषोत्तमः स्तुतः ॥
स्थलीं कुशैरास्तरितामुपाविशत्कुशस्थलीं देवमुनीन्द्रसेविताम् ॥२९॥
समंततो योजनसं ख्ययावृतां ततो विधाता पुरुषोत्तमस्तथा ॥
कुशस्थलीति प्रथितं जगत्त्रये प्रचक्रतुर्नाम च तावुभावपि ॥३०॥
तत्र विश्वपतिः श्रीमान्विश्वेशो विश्वकृद्विभुः ॥
विश्वं शशास विश्वात्मा सर्वविश्वस्य नायकः ॥३१॥
एवं कुशस्थली ख्याता हेमशृङ्गेति या पुरा ॥
स्तीर्णा कुशैर्यतो धात्रा कुशस्थली ततः स्मृता ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे कुशस्थलीनामहेतुकथावर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥.

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP