संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ४३ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४३ Translation - भाषांतर ॥ सनत्कुमार उवाच ॥एकस्मिन्नंतरे व्यास यथोज्जयनी स्मृता पुरी ॥तथाहं संप्रवक्ष्यामि शृणुष्व त्वं समाहितः ॥१॥त्रिपुराख्यो महादैत्यः सर्वदैत्यजनेश्वरः ॥तपस्तेपे सुदुर्धर्षं ब्रह्मणस्तुष्टिकारणात्॥ २॥आतपे चाग्निसेवां वै प्रावृषि मेघडंबरम् ॥दमयित्वा तदात्मानं शीतकाले जलाशये ॥३॥शीर्णपत्र जलाहारो वायुभक्षी निराश्रयः ॥गायत्रीव्रतमास्थाय त्यक्तसर्वपरिग्रहः ॥४॥एवं वर्षसहस्रं तु तपस्तप्तं सुदुश्चरम् ॥पूर्णे वर्षसहस्रे तु ब्रह्मा प्रीततमो ऽब्रवीत्॥५॥व्रियतां भोऽसुरश्रेष्ठ वरं मत्तोभिवांछितम्॥तत्सर्वं सांप्रतं लोके वरं तुभ्यं ददामि वै॥६॥एवमुक्तः स विधिना दैत्यस्त्रिपुरसंज्ञितः॥उवाच वचनं सद्यो ब्रह्माणं संशितव्रतम्॥त्रिपुर उवाच॥यदि तुष्टमना ब्रह्मन्वरं मे दातुमिच्छसि॥देवदानगंधर्वपिशाचोरगराक्षसैः ॥अवध्योऽहं सदा भूयां वरमेतद्वृणोम्यहम् ॥८॥॥ ब्रह्मोवाच ॥एवं भवतु भो वत्स विचरस्वाकुतोभयः ॥इत्युक्त्वा सहसा ब्रह्मा तत्रैवांतरधीयत ॥९॥तदारभ्य महादैत्यो देवानां कदनं महत् ॥चकार कोपपूर्णो वै पूर्ववैरमनुस्मरन् ॥१०॥वासयित्वा यत्र तत्र त्रिपुराणि चराणि च ॥अत्र वासकृतः सर्वे वर्णाश्रमपरा जनाः ॥११॥तेषां वै कदनं चक्रे नानोपायेन पापधीः ॥तस्मिन्पुरे दुष्टवासे ब्राह्मणा वेदपारगाः ॥१२॥न जुहुयुश्चाग्निहोत्रं सोमपानं न कर्हिचित् ॥कुतश्चित्सुकृतं कर्म जनाः कुर्वंति नो मुने ॥१३॥स्वाहाकारस्वधाकारवषट्कारविवर्जिताः ॥नोत्सवो दृश्यते गेहे कस्यचिद्भुवि विस्तृतः ॥१४॥देवतायतनं नास्ति तथा नो शिवपूजनम् ॥नास्ति यज्ञो न दानानि न गोब्राह्मणपूजनम् ॥१५॥सदाचारजनो नास्ति दया मानविवर्जिता ॥न दानी नोपकारी च तपस्वी नैव दृश्यते ॥१६॥एवं व्यास पुरे तस्मिन्नष्टप्रायमिदं जगत् ॥प्रजानां ब्राह्मणा मूलं वेदमूला हि ब्राह्मणाः ॥१७॥वेदमूलपरा यज्ञा यज्ञमूला हि देवताः ॥तस्माद्व्यास हतं सर्वं कृतं तेन दुरात्मना ॥१६॥तेन देवगणाः सर्वे हतप्राया हतौजसः ॥विचरंति यथा मर्त्या भुवि तेन पराजिताः ॥१९॥अन्योन्यकृतसंधाना मंत्रं कृत्वा समा हिताः ॥जग्मुस्ते तत्र यत्रास्ते प्रजापतिरकल्मषः ॥२०॥त्रिदशाः कथयामासुरात्मव्यसनकारणम् ॥तज्ज्ञात्वा सहसोत्थाय ब्रह्मा लोकपिता महः ॥२१॥जगाम त्रिदशैः सार्धं महाकालवनोतमम् ॥यत्रास्ते सततं देव उमया सहितः शिवः ॥२२॥यत्रावंती पुरी दिव्या सर्वतीर्थनिषेविता ॥तत्रागत्य सुरैः साकं स्वयंभूश्चतुराननः ॥२३॥स्नानं दानं जपं होमं कृत्वा रुद्रसरे तदा ॥पूजयित्वा महाकालं ब्रह्मा वचनमब्रवीत् ॥२४॥॥ ब्रह्मोवाच ॥देवदेव महादेव भक्तानामभयंकर ॥श्रूयतां भोः सुरश्रेष्ठ देवकार्यमनुत्तमम् ॥२५॥त्रिपुरोनाम दैत्येंद्रो देवानां कदनं महत् ॥करोति सततं दैत्यो देवब्राह्मणनिंदकः ॥२६॥वासयित्वा पुरस्तिस्रो विस्तीर्णा विचरत्यथ ॥तत्र स्थितानि भूतानि नाशं यांति दुरात्मना ॥२७॥एवं कृत्वा प्रजाः सर्वाः क्षयं नीताश्चराचराः ॥उद्वासितानि द्वीपानि ग्रामाश्च नगराणि च ॥२८॥ऋषीणामाश्रमाः सर्वे यतीनामायतनानि च ॥एवं कृत्वा सुराः सर्वे भ्रष्टराज्याः पराजिताः ।ऽ। २९॥विचरंति यथा मर्त्यास्त्रिपुरेण दुरात्मना ॥मत्तो लब्धवरो नित्यं व्रजत्येवाकुतोभयः ॥३०॥तस्मात्सर्वप्रयत्नेन वधस्तस्य विचिंत्यताम् ॥३१॥इति श्रुत्वा वचस्तस्य ब्रह्मणः संशितात्मनः ॥चिरं ध्यात्वा महादेवो ब्रह्माणं तमुवाच ह ॥३२॥॥ महादेव उवाच ॥श्रूयतां भोः सुरश्रेष्ठा ब्रह्मशक्रपुरोगमाः ॥जयोपायं करिष्यामि दैत्यस्यास्य दुरात्मनः ॥३३॥तपश्चरत यूयं वा आत्मनो जयकांक्षिणः ॥अवंत्यां यद्धुतं दत्तं तत्सर्वं चाक्षयं भवेत् ॥३४॥इत्युक्त्वा सर्वदेवानां तत्रैवांतर्हितः शिवः ॥गत्वा स्मशाननिलये भूतप्रेतनिषेविते ॥३५॥जयार्थं तस्य दैत्यस्य त्रिपुरस्य दुरात्मनः ॥उपासांचक्रिरे तत्र चामुण्डायाः सुरेश्वराः॥३६॥महिषैश्च महामेध्यैः पशुपुष्पार्घतर्पणैः ॥बलिभिर्विविधैर्दानैर्धूपदीपाग्नितर्पणैः ॥पूजयित्वा तदा देवीं तामीडे वृषभध्वजः ॥३७॥दुर्गां भगवतीं भद्रां दुर्गसंसारतारणीम् ॥त्रिपुरांतकारिणीं कृत्यां चंडमुंडवधोद्यमाम् ॥३८॥दैत्यमेदोमदोन्मत्तां रक्ताख्यां रक्तदंतिकाम् ॥रक्तांबरधरां धीरां रक्तपुष्पावतीं सतीम् ॥३९॥महिषवाहिनीं श्यामां यक्षासनपरिग्रहाम् ॥द्वीपिचर्मपरीधानां शुष्कमांसाति भैरवाम् ॥४०॥पूजयित्वा प्रसन्नात्मा ध्यानमास्थाय संस्थितः ॥तदा भगवती भद्रा ययेदं धार्यते जगत् ॥प्रसन्नवदना भूत्वा प्रत्यक्षं प्राह चंडिका ॥४१॥॥ देव्युवाच ॥व्रियतां भोः सुरश्रेष्ठ वरं मत्तोऽभिवांछितम् ॥सर्वं त्वयोक्तं यच्छामि जगतामुपकारकम् ॥४२॥॥ श्रीहर उवाच ॥यदि तुष्टासि वै देवि देहि मे वरमुत्तमम् ॥येन हन्मि महादैत्यं त्रिपुरं देवकंटक म् ॥४३॥॥ श्रीदेव्युवाच ॥जय ह्येनं महादेव गृहाण पाशुपतं परम् ॥मया दत्तं सुरश्रेष्ठ दैत्यनाशकरं परम् ॥४४॥महापाशुपतं शस्त्रं करे कृत्वा च शंकरः ॥४५॥उज्जहार तदा शंभुर्दैत्यनाशाय सत्वरः ॥महाडंबरिको भूत्वा सर्वप्राणिभयंकरः ॥४६॥स्तुतिं कृत्वा ययौ वाग्भिः पृष्ठतोऽनुययुः सुराः ॥शरेणैकेन वै रुद्रो जघान तं महासुरम् ॥४७॥मायिनं तं त्रिधा भित्त्वा मायायुद्धेन शंकरः ॥पुनरागात्पुरीमेतामवंतीममरसेविताम् ॥४८॥जयाशिषा प्रयुंजाना ऋषयः सिद्धचारणाः ॥तुष्टुवुश्च तदा देवा जयशब्देन हर्षिताः ॥४९॥अप्सरा ननृतुस्तत्र गंधर्वा ललितं जगुः ॥ववौ तदा पुण्यतमो वायुः सुखप्रदो नृणाम् ॥५०॥जयशब्दस्तदा जातः प्राणिनां च गृहेगृहे ॥जज्वलुश्चाग्नयः शांताः शांता दिग्ज नितस्वनाः ॥५१॥प्रवर्तंते तदा यज्ञा महोत्सवसदक्षिणाः ॥देवाः प्रपेदिरे स्थानं स्वकीयं पुनरादृतम् ॥५२॥उज्जितो दानवो यस्मात्त्रैलोक्ये स्थापितं यशः ॥तस्मात्सर्वैः सुरश्रेष्ठैर्ऋषिभिः सनकादिभिः ॥५३॥कृतं नाम ह्यवंत्या वा उज्जयिनी पापनाशिनी ॥अवंती च पुरा प्रोक्ता सर्वकामवरप्रदा ॥५४॥अद्यप्रभृति पुरी व्यास उज्जयिनी समाश्रिताः ॥येऽस्यां च स्नानदानादि भुवि कुर्वंति मानवाः ॥५५॥न तेषां दुष्कृतं किंचिद्देहे तिष्ठति पापजम् ॥५६॥विद्यार्थी गिरीशं धनार्थी धनेशं सुतार्थी सुतेशं दिनेशं सुखार्थी ॥धियोर्थी गणेशं प्रियार्थी वसेद्वै गिरां ग्राह्य मानी जनश्चोज्जयिन्याम् ॥५७य एतस्यां महाभाग सदा वसति मानवः ॥भुक्त्वा कामान्मनोऽभीष्टान्मृतः शिवपुरं व्रजेत् ॥५८॥तत्रैव वसते नित्यं कल्पकोटिशताधिकम् ॥५९॥य एतां वै कथां पुण्यां पठते शृणुतेऽथ वा ॥मुच्यते सर्वपापेभ्यो गोसहस्रफलं लभेत् ॥६०॥।इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये उज्जयिन्यभिधानकथनंनाम त्रिचत्वारिंशो ऽध्यायः ॥४३॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP