संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ६४

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
अतः परं प्रवक्ष्यामि वीरेश्वरमथो शृणु ॥
तस्मिंस्तीर्थे नरः स्नात्वा वीरलोकमवाप्नुयात् ॥१॥
नागानां प्रवरं तीर्थं सर्वकामवरप्रदम् ॥
कालभैरवमित्याख्यं तच्च तीर्थं परं स्मृतम् ॥२॥
यस्य दर्शनमात्रेण सर्वदुःखातिगो भवेत् ॥३॥
॥ व्यास उवाच ॥
कस्मिन्काले हि विख्यातं कालभैरवसंज्ञितम् ॥
तीर्थं मुनिवरश्रेष्ठ एतद्विस्तरतो वद ॥४॥
॥ सनत्कुमार उवाच ॥
पुराऽयं भैरवो योगी योगिनीत्रासकारकः ॥
कालचक्रकृताः कृत्या योगिनीनां गणास्तदा ॥५॥
तासां कालीति विख्याता योगिनी परमोत्तमा ॥
तयायं पालितो नित्यं पुत्रवद्भैरवोऽमलः ॥६॥
तेनैते च विनिर्धूता दोषोत्पाताश्च सत्तम ॥
त्रिविधा भुवि विख्याताः सर्वविघ्नकराः पराः ॥७॥
कालकृत्यास्तदा तेन भ्रंशिताः परमात्मना॥
महामारी पूतना कृत्या शकुनी रेवती खला॥८॥
कोटरी तामसी माया नवैता मातृकाः स्मृताः॥
दुष्टदोषवहा दुष्टाः सर्वप्राणिभयंकराः ॥९॥
वशीचक्रे स धर्मात्मा सर्वकामवरप्रदाः ॥
शिप्रातीरे स्थितो नित्यं कूले चोत्तरतः शुभे ॥१०॥
ऊषरस्य परे पूर्वे सोऽपि तिष्ठति सर्वदा ॥
आषाढस्य सिते पक्षे रविवारे समाहितः ॥११॥
नवमीं चाऽष्टमीं प्राप्य चतुर्दश्यां विशेषतः ॥
पूजां कुर्वंति ये केचिन्नरा निश्चलमानसाः ॥१२॥
विवाहे पुत्रजनने मांगल्ये च शुभे परम् ॥
पत्रपुष्पार्कगंधैश्च नैवेद्यैर्विविधैस्तथा ॥१३॥
तांबूलवासगंधाद्यैः पूजयेद्वरद रूपिणम् ॥
विप्राणां भोजनैर्होमैस्तर्पयेत्सततं विभुम् ॥१४॥
एतत्परमकल्याणमेतत्परममंगलम् ॥
नत्वा स्तुत्वा च तं देवं सर्वकामार्थसिद्धये ॥१५॥
सकलकलुषहारी धूर्तदुष्टांऽतकारी सुचिरचरितचारी मुंडमौंजीप्रचारी ॥
करकलितकपाली कुण्डली दंडपाणिः स भवतु सुखकारी भैरवो भावहारी ॥१६॥
विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ॥
मदविघूर्णितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥१७॥
अमलकमलनेत्रं चारुचंद्रावतंसं सकलगुणगरिष्टं कामिनीकामरूपम् ॥
परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं भैरवं भूतनाथम् ॥। ॥१८॥
सबलबलविघातं क्षेत्रपालैकपालं विकटकटिकरालं ह्यट्टहासं विशालम् ॥
करगतकरवालं नागयज्ञोपवीतं भज जन शिवरूपं भैरवं भूतनाथम् ॥१९॥
भवभयपरिहारं योगिनीत्रासकारं सकलसुरगणेशं चारुचंद्रार्कनेत्रम् ॥
मुकुटरुचिरभालं मुक्तमालं विशालं भज जन शिवरूपं भैरवं भूतनाथम् ॥२०॥
चतुर्भुजं शंखगदाधराऽऽयुधं पीतांबरं सांद्रपयोदसौभगम् ॥
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं शीलप्रदं शंकररक्षणं भजे ॥२१॥
लोकाऽभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम् ॥
कीर्त्याभिरामं तपसाऽभिरामं तं भूतनाथं शरणं प्रपद्ये ॥२२॥
आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं सेव्यं भक्तिसमन्वितं हरिहरैः सृष्ट्यासहं साधुभिः ॥
योग्यं योगविचारितं युगधरं योग्याननं योगिनं वंदेहं सकलं कलंकरहितं सत्सेवितं भैरवम् ॥२३॥
भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ॥
दुःस्वप्ननाशनं तस्य वांछितार्थफलं भवेत्। ॥२४॥
राजद्वारे विवादे च संग्रामे संकटेतथा॥
राज्ञा कुद्धेन चाऽऽज्ञप्ते शत्रुबंधगते तथा ॥२५॥
दारिद्र्यदुःखनाशाय पठितव्यं समाहितैः ॥
न तेषां जायते किंचिद्दुर्लभं भुवि वांछितम् ॥२६॥
॥ इति भैरवाष्टकम् ॥
अस्मिंस्तीर्थे प्रकर्तव्यं स्नानदानादिकं नरैः॥
संसारभयभीतैश्च पूजितो भैरवो वरः ॥
तस्मात्सर्वप्रयत्नेन कर्तव्यं तीर्थमुत्तमम्॥ २७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये कालभैरवतीर्थयात्रावर्णनंनाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP