अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
अथान्यत्संप्रवक्ष्यामि केदारेश्वरमुत्तमम् ॥
प्रवरं सर्वतीर्थानां त्रिषु लोकेषु विश्रुतम् ॥१॥
तत्र स्नात्वा शुचिर्भूत्वा यः पश्यति महेश्वरम् ॥
केदारे यत्फलं प्रोक्तं तदत्रापि लभेन्नरः ॥२॥
सर्वपापविनिर्मुक्तः स्वकीयकुलसंयुतः ॥
विमानेनार्कवर्णेन शिव लोके स मोदते ॥३॥
जटाशृंगे नरः स्नात्वा शुचिर्भूत्वा जितेंद्रियः ॥
दृष्ट्वा जटेश्वरं देवं ततः पापाद्विमुच्यते ॥४॥
महातपनमादौ च कृत्वा गच्छेच्छिवं प्रति ॥
मातृकं पितृकं चैव कुलानां तारयेच्छतम् ॥५॥
इंद्रतीर्थे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम् ॥
विमुक्तः सर्वपापेभ्यः शक्रलोके महीयते ॥६॥
कुंडेश्वरं तु यः पश्येच्छिवध्यानपरायणः ॥
लभते स नरो व्यास शिवदीक्षाफलं शिवम् ॥७॥
गोपतीर्थे नरः स्नात्वा दृष्ट्वा गोपेश्वरं शिवम् ॥
शिवलोकं नरो याति ह्यमृतादमरो यथा ॥८॥
स्नात्वा तु चिपिटातीर्थे शिवं देवं प्रणम्य च ॥
तिर्यग्योनिं नरो नैव प्रयाति मुनिपुंगव ॥९॥
विजये च नरः स्नात्वा आनंदेश्वरपूजनात् ॥
विमुक्तः सर्वपापेभ्यः स्वर्लोके विजयी भवेत् ॥१०॥
अथान्यं संप्रवक्ष्यामि कुशस्थल्यां विनिर्मितम् ॥
देवं रामेश्वरं व्यास भुक्तिमुक्तिप्रदायकम् ॥११॥
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च ॥
समन्वितः समागत्य पप्रच्छ मुनिसत्तमम् ॥१२॥
॥ राम उवाच ॥
कानि तीर्थानि पुण्यानि किं वा क्षेत्रं महामुने ॥
यत्र गत्वा न चाप्नोति वियोगं सह बांधवैः ॥१३॥
अनेन वनवासेन मरणेन पितुः प्रभो ॥
भरतस्य वियोगेन प्रतप्येऽहं त्रिभिर्मुने ॥१४॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा ॥
ध्यात्वा तु सुचिरं कालमिदं वचनमब्रवीत् ॥१५॥
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन ॥
मम पित्रा कृतं क्षेत्रं प्रयाच्य शिवमादरात ॥१६॥
अवंतीविषये राम पुरी तस्मिन्कुशस्थली ॥
उज्जयिनीति वै नाम्ना ख्यातिं लोके गता विभो ॥१७॥
तस्यां गत्वा दशरथं पिंडदानेन तर्पय ॥
सुरासुरगुरुस्तत्र महाकालो व्यवस्थितः ॥१६॥
देवः स वै सदा राजन्वांछितार्थफलप्रदः ॥
दृष्टे तस्मिञ्जगन्नाथे वियोगो नैव जायते ॥१९॥
तत्र गच्छंति ये विप्रा राजा चैव महावलः ॥
लभंते परमं स्थानं यत्र देवो महेश्वरः ॥२०॥
तीर्थानामपि तत्तीर्थं प्रविष्टोऽवंतिमंडले ॥
आजगाम ततोवंतीं सा शिप्रा यत्र पुण्यदा ॥२१॥
तस्यां स्नात्वा ततो रामस्तर्पयामास पूर्वजान् ॥
महाकालं यदा द्रष्टुं प्रतस्थे रघुनंदनः॥२२॥
वाण्या ततोऽशरीरिण्या देवदेवेन भाषितम् ॥
भो भो राघव भद्रं ते स्वनाम्ना स्थापयस्व माम् ॥२३॥
अत्र स्थानं मया दत्त मा विचारय राघव ॥
ततो द्दृष्टमना रामो लक्ष्मणं वाक्यमब्रवीत् ॥२४॥
अनुगृहीताः सौमित्रे देवदेवेन शंभुना ॥
तस्मात्स्थापय तीर्थेऽस्मिँल्लिंगं रामेश्वरं शुभम्॥ २५॥
वाक्यं तल्लक्ष्मणः श्रुत्वा स्थापयामास शंकरम् ॥
दृष्ट्वा देवं पुरा रामो लक्ष्मणं वाक्यमब्रवीत् ॥२६॥
एहि लक्ष्मण शीघ्रं त्वं शिप्राया जलमानय ॥
करिष्यामि यतोऽत्राहं देवस्य स्नपनं शुभम् ॥२७॥
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतया किं करिष्यसि ॥
राम नाहं सर्वकालं दासभावं करोमि ते ॥२८॥
इयं च पुष्टा सुदृढा पीवरा च ममाग्रतः ॥
वद राघव सत्येन अनया किं करिष्यसि ॥२९॥
श्रुत्वा रामो हि तद्वाक्यं लक्ष्मणेन प्रभाषितम्॥
विमना राघवस्तस्थौ सीता चापि वरानना ॥३०॥
यदुक्तं लक्ष्मणेनाथ तच्च सीता चकार ह ॥
स्नात्वा भुक्त्वा च तौ वीरौ महाकालमुपागतौ ॥३१॥
नीत्वा विभावरीं तत्र गमनाय मनो दधे ॥
उत्तिष्ठ वत्स सौमित्रे व्रजामो दक्षिणां दिशम्॥३२॥
सौमित्रिरब्रवीद्वाक्यं नाहं गन्ता कथंचन ॥
व्रज त्वमनया सार्धं भार्यया कमलेक्षण ॥३३॥
नाहमग्रे वनं यामि न वायोध्यां कथं चन ॥
एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः ॥३४॥
कथं पूर्वमूयोध्याया निर्गतोऽसि मया सह ॥
वने वसाम्यहं राम नव वर्षाणि पंच च ॥३५॥
प्रमादः क्रियतां मह्यं नय मामपि राघव ॥
इदानीं त्वमर्धपथे कथं स्थातासि शत्रुहन् ॥३६॥
लक्ष्मणस्त्वब्रवीद्राम नाहं गन्ता वनं पुनः ॥
लक्ष्मणं विकृतं ज्ञात्वा रामो वचनमब्रवीत् ॥३७॥
मा माऽनुव्रज सौमित्रे ह्येको यास्यामि काननम् ॥
द्वितीयापि त्वियं सीता उक्तो रामेण लक्ष्मणः ॥३८॥
धनुः संगृह्य विमना उत्तस्थौ लक्ष्मणस्तदा ॥
प्राप्तौ प्राकारमर्यादां क्षेत्रसीमां परंतपौ ॥
क्षेत्रसीमां समुल्लंघ्य रामो लक्ष्मणमब्रवीत् ॥४०॥
निवर्तयस्व सौमित्रे समर्पय च मे धनुः ॥
रामवाक्यमुपश्रुत्य सीतां वै लक्ष्मणोऽब्रवीत् ॥४१॥
किमर्थं हि परित्यक्तः कोऽपराधः कृतो मया ॥
रामेण हि परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम् ॥४२॥
रामं ततोऽब्रवीत्सीता किमर्थं लक्ष्मणस्त्वया ॥
देव संत्यज्यते वीरः सुमित्रानंदिवर्धनः ॥४३॥
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् ॥
न कदाचिदपि स्वप्ने लक्ष्मणसदृशं प्रियम् ॥४४॥
श्रुतपूर्वं तु सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् ॥
अस्मिन्क्षेत्रे न सौभ्रात्रं सर्वो हि स्वार्थतत्परः ॥४५॥
परस्परं न मन्यंते स्वार्थनिष्ठैकहेतवः ॥
न शृण्वंति पितुः पुत्राः पुत्राणां वा तथा पिता ॥४६॥
न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यकर्म च ॥
अर्थानुबंधिनी प्रीतिर्न कश्चित्कस्यचि त्प्रियः ॥४७॥
एवमुक्त्वा ययौ रामो लक्ष्मणो जानकी तथा ॥
लिंगं तत्र प्रतिष्ठाप्य स्वनाम्ना रघुनंदनः ॥४८॥
रामतीर्थे नरः स्नात्वा दृष्ट्वा रामेश्वरं शिवम्॥
विमुक्तः सर्वपापेभ्यः शिवलोकं स गच्छति ॥४९॥
इति रामेश्वरमाहात्म्यम् ॥
॥ सनत्कुमार उवाच ॥
तीर्थे सौभाग्यके स्नात्वा दृष्ट्वा सौभाम्यमीश्वरम् ॥
सर्वपापविनिर्मुक्तः सौभाग्यं परमं लभेत् ॥५०॥
घृततीर्थे नरः स्नात्वा घृतेन स्नापयेच्छिवम् ॥
घृतमग्नावथो हुत्वा रुद्रलोके महीयते॥५१॥
देवीं योगीश्वरीं पूज्य सुरासुरनमस्कृताम् ॥
सर्वपापविनिर्मुक्तः परं योगमवाप्नुयात्॥५२॥
शंखावर्ते नरः स्नात्वा सर्वपापविवर्जितः ॥।
धनधान्यसमायुक्तो जायते निर्मले कुले ॥५३॥
सुधोदके चतुर्दश्यां मुक्त्यर्थं स्नापयेन्नरः॥
शिवं सुधेश्वरं दृष्ट्वा ततो मोक्षगतिर्भवेत् ॥५४॥
तथान्य त्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ॥
किं पुनेति च विख्यातं ब्रह्महत्याविमोचनम् ॥५५॥
पूर्वं त्रेतायुगे व्यास सुनेत्रो नाम वै द्विजः॥
तस्य पुत्रः समु त्पन्नो विश्वावसुरिति स्मृतः ॥५६॥
यवक्रीतस्य शापेन स्वपिता तेन घातितः ॥
ब्रह्महत्यान्वितो व्यास तीर्थात्तीर्थं परिभ्रमन् ॥५७॥
तीर्थे किंपुनके स्नात्वा धारातीर्थे गतो द्विजः ॥
ततः कपिलधारायां चिंतयत्यात्मना स्वयम् ॥५८॥
कथं मे पतिता धारा अनृता वा श्रुतिस्तथा ॥
एवं ह्यचिंत यत्सोऽथ पुनरायादवंतिकाम् ॥५९॥
अत्र तीर्थे पुनः स्नाति यावद्वाणीं ततोऽशृणोत् ॥
किं पुनर्ध्यायसि ब्रह्मन्येन जातो द्विजोत्तमः ॥६०॥
न तेऽस्ति ब्रह्महत्या वै तीर्थस्नानेन नाशिता ॥
गच्छ शीघ्रं गृहं विप्र पापहीनो यथासुखम् ॥६१॥
॥ इति किंपुनामाहात्म्यम् ॥
॥ सनत्कुमार उवाच ॥
पुनरन्यत्प्रवक्ष्यामि पत्तनेश्वरमुत्तमम् ॥
तत्र स्थित्वा महेशेन पुनः पत्तनमीक्षितम् ॥६२॥
पत्तनेश्वर इत्याख्यो देवदेवो महेश्वरः ॥
यस्तु गंधैश्च पुष्पैश्च धूपैर्दीपैर्मनोरमैः ॥६३॥
भावयुक्तो नरो व्यास पूजयेद्विधिवत्सदा ॥
यथावत्तिष्ठते लिंगं वंशच्छेदो न जायते ॥६४॥
हंसयुक्तेन यानेन शिवलोकं स गच्छति ॥
तथान्यत्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ॥६५॥
दुर्धर्षमिति विख्यातं ब्रह्महत्याविमोचनम् ॥
पुरा दिवाकरो व्यास चक्रे दुर्धर्षनामतः ॥६६॥
तीर्थमासीन्नदीतीरे विख्यातं सूर्यसंस्कृतम् ॥
तेजःपुंजं भवेल्लिंगं गणगं धर्वपूजितम् ॥६७॥
सप्तम्यामथवाष्टम्यां संक्रातौ रविवासरे ॥
तत्र स्नात्वा शुचिर्भूत्वा दिनमेकमुपोषितः ॥६८॥
दृष्ट्वा महेश्वरं तत्र शिप्राकूले व्यवस्थितम् ॥
पूजयित्वा तु भावेन यत्फलं तच्छ्रणुष्व मे ॥६९॥
पितृमातृकुलं सर्वं समुद्धृत्य शिवं व्रजेत् ॥
तत्र यच्छति यो दानं गोहेमादि विशेषतः ॥७०॥
तावत्तदक्षयं लोके यावच्चंद्रदिवाकरौ ॥
तथान्यत्संप्रवक्ष्यामि गोपींद्रं तीर्थमुत्तमम् ॥७१॥
गौतमेन पुरा यत्र इन्द्रः शापाद्भ गीकृतः ॥
भगव्रीडायुतः शक्रः प्रविश्य वनमुत्तमम् ॥७२॥
अतोषयत्तदोग्रेण तपसा शंकरं पुरा ॥
तुष्टेन शंभुना विप्र ये भगास्तच्छरीरगाः ॥। ॥७३॥
गोसहस्रीकृतास्तेन गोपींद्रस्तेन कथ्यते ॥
तत्र स्नात्वा दिवं याति शक्रतुल्यपराक्रमः ॥७४॥
ये मृतास्ते पुनर्जन्म नाप्नुवंति महीतले ॥।
गंगातीर्थे नरः स्नात्वा पुण्यमाप्नोति पुष्कलम् ॥७५॥
ज्येष्ठशुक्लदशम्यां तु गंगायां फलमादिशेत् ॥
स्नात्वा पुष्पकरंडे च दृष्ट्वा पुष्पकरण्डकम् ॥७६॥
पुष्पकेन विमानेन प्रयातो दिवि मोदते ॥
नरकादुद्धरत्याशु नरः स्नात्वोत्तरेश्वरे॥७७॥
इष्टभोगसमापन्नो याति स्वर्गं न संशयः ॥
भूतेश्वरे नरः स्नात्वा भूतेश्वरमथार्चयेत् ॥७८॥
गंधपुष्पादिनैवेद्यैर्मृतो रुद्रपुरं व्रजेत् ॥
शिप्रायां तु नरः स्नात्वा कैलासं तु नमस्यति ॥७९॥।
सूर्याऽऽहतं तमो यद्वत्तद्वत्पापं प्रणश्यति ॥
अंबालिकां च यः पश्येत्समाधिनियमेन च ॥८०॥
स मुक्तः सर्वपापेभ्यः कंचुकेन फणी यथा ॥
घण्टेश्वरं प्रवक्ष्यामि यत्सुरैरपि पूजितम् ॥८१॥
यत्र कूपोदकं पीत्वा सौभाग्यमतुलं लभेत् ॥
अर्चयेद्यस्तु देवेशं गंधपुष्पैरनुक्रमात् ॥८२॥
शिवलोके वसेत्तावद्यावदिंद्राश्चतुर्दश ॥
पुण्येश्वरं तु यः पश्येच्छुचिः स्नातो जितेंन्द्रियः ॥८३॥
स गाणपत्यमाप्नोति यत्सुरैरपि दुर्लभम् ॥
लंपेश्वरे नरः स्नात्वा समभ्यर्च्य महेश्वरम्॥८४॥
न याति नरकं मर्त्यः स्वर्गलोके महीयते॥
तथान्यत्संप्रवक्ष्यामि यत्सुरैरपि दुर्लभम् ॥८५॥
पूजितं ब्रह्मणा पूर्वं स्थविराख्यं विनायकम् ॥
तत्र स्नात्वा शुचिर्भूत्वा पूजयेद्यो विनायकम्॥८६॥
गंधैर्धूपैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैः फलं शृणु ॥
समीहिता भवेत्सिद्धिर्मृतः शिवपुरं व्रजेत्॥८७॥
नवनद्याः समीपे तु पार्वतीं पूजयेद्बुधः॥
गंधपुष्पैश्च धूपैश्च सौभाग्यमतुलं लभेत्॥८८॥
कामोदके नरः स्नात्वा दृष्ट्वा कामं रतिप्रियम् ॥
स्वर्गे च देवगंधर्वस्पृहणीयवपुर्भवेत् ॥८९॥
प्रयागे तु नरः स्नात्वा प्रयागेशं तु पश्यति ॥
सर्वलोकानतिक्रम्य शिवलोके मही यते ॥९०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सौभाग्येश्वरादिनानातीर्थमाहात्म्य वर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP