संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ४२

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
पुरा चैशानकल्पे तु स्मृतावंती यथा पुरी ॥
तथा शृणु सुरैः पूर्वं दैत्यसैन्यपराजितैः ॥१॥
आश्रितं मेरुशिखरं वनकंदगुहावृतम्॥
तत्र गत्वा द्विजश्रेष्ठ मंत्रं च चक्रुरुद्यताः ॥२॥
अन्योन्यं च समासाद्य समभ्यर्च्य परस्परम्॥
जग्मुः सर्वे सुरगणा यत्र ब्रह्मा प्रजापतिः ॥३॥
निवेदयांचक्रिरे सर्वं तत्रागमनकारणम्॥
तेषां तद्वचनं श्रुत्वा देवानां स प्रजेश्वरः ॥४॥
जगाम त्रिदशैः साकं देवदेवं महेश्वरम्॥
स चापि ह्यगमत्तत्र वैकुठं धाम यत्र वै ॥५॥
ऋद्धिसिद्धिप्रदं नित्यं मुनिचारणसेवितम् ॥
किन्नरैर्गीयमानं च अप्सरोगणसेवितम् ॥६॥
ऋषिभिर्भार्गवादिभिर्देवर्षिनारदोत्तमैः ॥
सिद्धगंधर्वमुख्यैश्च कुमारैः सनकादिभिः ॥७॥
प्रजापतिगणाकीर्णं मानवैश्च चतुर्दशैः ॥
वसुभिर्विश्वेदेवैश्च पितॄणामुत्तमैर्गणैः ॥८॥
संसेव्यं च सदाचारैः पुण्यवद्भिर्जनैस्तथा ॥
दिव्यं दिव्यैश्च प्रासादैर्दिव्यपादपशोभितम् ॥९॥
मणिरत्नैश्च सोपानै र्दिव्यं सरसशोभितम् ॥
हंसकारंडवाकीर्णं मणिभाभिः सुभास्वरम् ॥१०॥
षडूर्मिरहितं स्थानं यत्र तिष्ठन्ति पक्षिणः ॥
तत्र गत्वा सुराः सर्वे वासु देवदिदृक्षया ॥
स्तुतिमारेभिरे कर्तुं देवदेवजगत्पतेः ॥११॥
॥ देवा ऊचुः ॥
नमोऽनंताय बृहते कूर्माय वै नमोनमः ॥१२॥
नृसिंहरूपायोग्राय नमो वाराहरूपिणे ॥
राघवाय च रामाय ब्रह्मणेऽनंतशक्तये ॥१३॥
वासुदेवाय शांताय यदूनां पतये नमः ॥
नमो बुद्धाय शुद्धाय कल्कये म्लेच्छनाशिने ॥१४॥
इति स्तवाभियुक्तानां वागुवाचाशरीरिणी ॥
शृणुध्वं भोः सुराः सर्वे भूत्वा चैकाग्रमानसाः ॥१५॥
महाकालवने रम्ये ब्रह्मर्षिगणसेविते ॥
तत्र पुण्या पुरी ह्येका सर्वकामफलप्रदा ॥१६॥
नाम्ना कुशस्थली रम्या सिद्धगंधर्वसेविता ॥
कल्पादौ कल्पमध्ये वा यत्र संनिहितो हरः ॥१७॥
कल्पक्षये क्षयं यांति स्थावराणि चराणि च ॥
तीर्थानि चैव सर्वाणि पुण्यान्यायतनानि च ॥१८॥
सरितः सागराः सर्वे सरांस्युपवनानि च ॥
औषधीर्वृक्षवल्लीश्च यंत्रं मंत्रं शुभाशुभम् ॥१९॥
ज्योतींषि चंद्रसूर्यौ च सर्वं विष्णुमयं जगत् ॥
तेषां बीजं च पुण्यं च जीवकर्माशय तथा ॥२०॥
सर्वमादाय भगवाञ्छंकरस्तत्र तिष्ठति ॥
सर्वतीर्थमयी गंगा सर्वदेवमयो हरिः ॥२१॥
सर्वयज्ञमयो वेदः सर्वधर्ममयी दया ॥
रेवा च सरितां श्रेष्ठा भुवि पुण्यकृताधिका ॥२२॥
तस्माद्धितकरं क्षेत्रं कुरूणां वै सुरोत्तमाः ॥
तस्माद्दशगुणं मन्ये प्रयागं तीर्थमुत्तमम् ॥२३॥
तस्माद्दशगुणा काशी काश्या दशगुणा गया ॥
ततो दशगुणा प्रोक्ता कुशस्थली च पुण्यदा ॥२४॥
उपरागसहस्राणि व्यतिपातायुतानि च ॥
अमालक्षं तु एतस्याः कलां नार्हंति षोडशीम् ॥२५॥
लक्षमिंदुक्षये दानं सहस्रं चायनद्वये ॥
व्यतीपाते च कोटिः स्याद्रा कायां च ह्यनंतकम् ॥२६॥
तस्माद्धितकरा देवा पुरी ह्येषा कुशस्थली ॥
अनंताऽनंतसंख्यातं दानं किंचित्कृतं नरैः ॥२७॥
तत्सर्वं भोः सुरश्रेष्ठाः सर्वं तच्चाक्षयं भवेत् ॥
तस्मात्सर्वप्रयत्नेन यूयं यात हि मा चिरम् ॥२८॥
क्षीणपुण्या भवंतो वै बाधंते तेन वः सुराः ॥
महाकालवने रम्ये पुरी ह्येषा कुशस्थली ॥२९॥
तत्र गत्वा भवंतो वै स्नानदानादिकं भुवि ॥
आचरध्वं सुविधिना पुण्यात्स्वर्गमवाप्स्यथ ॥३०॥
एतच्छुत्वा वचस्तस्या वाण्याश्चाकाशगं तदा ॥
प्रणम्य शिरसा तस्यै ब्रह्मेशानपुरोगमाः ॥३१॥
पुनर्जग्मुः सुराः सर्वे यत्र माहेश्वरं वनम् ॥
पुरीं चैव द्विजश्रेष्ठ सर्वकामफलप्रदाम् ॥३२॥
चातुर्वर्ण्यसमाकीर्णामृषिगंधर्वसेविताम् ॥
पुण्यवद्भिर्जनैः पूर्णां सिद्धचारणसेविताम् ॥३३॥
दरिद्रो न जडो मूर्खो न रोगी न च मत्सरी ॥
न व्याधितो नापकारी जनः क्वचित्प्रदृश्यते ॥३४॥
दाता शांताः सुशीलाश्च जरारोगविवर्जिंताः ॥
स्वधर्मनिरता नित्यं सदाचारातिथिप्रियाः ॥३५॥
नरा यत्र निवसंति नार्यश्चैव पतिव्रताः ॥
महोत्सवाः सुगीतानि हव्यं कव्यं गृहेगृहे ॥३६॥
ईदृशीं च पुरीं दृष्ट्वा देवा हर्षं परं गताः ॥
तत्र तीर्थं समाख्यातं नाम्ना पैशाचमोचनम् ॥३७॥
पुण्यवद्भिः सदा सेव्यं सर्वतीर्थनिषे वितम् ॥
तस्मिन्स्नात्वा च जप्त्वा च हुत्वा दत्त्वा च देवताः ॥३८॥
पुण्यं चाथाक्षयं लब्ध्वा पुनर्याताः सुरालयम् ॥
जित्वाऽसुरान्महादुष्टान्स्थानं प्राप्ताः स्वकंस्वकम्॥ ३९॥
येऽस्यां कुर्युर्महाभागाः स्नानं दानं तथार्चनम् ॥
हवनं तर्पणं पितॄंस्तत्सर्वं स्याद्ध्यनंतकम् ॥४०॥
तस्मात्सर्वप्रयत्नेन एतत्कार्यं सदा बुधैः॥
देवतीर्थोषधीबीजभूतानां चैव पालनम् ॥४१॥
कल्पेकल्पे च यस्यां वै तेनावंती पुरी स्मृता ॥
अद्यप्रभृति पुरी ह्येषा नाम्नावंती कुशस्थली ॥४२॥
इत्युक्त्वा वै तदा देवाः स्वधाम परमं गताः ॥
तदारभ्य द्विजश्रेष्ठ ह्यवंती भुवि विश्रुता ॥४३॥
य एतां सुकथां दिव्यां पुण्यां च पापहारिणीम्॥
शृणुयाच्छ्रावयेद्यो वै सर्वपापैः स मुच्यते ॥४४॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ॥
वाजपेयसहस्राणां राजसूयशताधिकम् ॥४५॥
पुण्यं लब्ध्वा नरो नित्यं शिवलोके महीयते ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽवंत्यभिधानकथावर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP