संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीक्षेत्रमाहात्म्यम्| अध्याय ६५ अवन्तीक्षेत्रमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ विषयानुक्रमणिका अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६५ Translation - भाषांतर ॥ व्यास उवाच ॥नागतीर्थं त्वया ब्रह्मन्पुरा प्रोक्तं यशस्विना ॥तस्य तीर्थवरस्याऽपि महिमानं च सत्तम ॥१॥भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥कियत्काले समाख्यातमेतद्विस्तरतो वद ॥२॥॥ सनत्कुमार उवाच॥शृणु ब्रह्मन्प्रवक्ष्यामि तवाग्रे नागतीर्थजाम् ॥कथां पुण्यतमां तुभ्यं भुवि पापहरां पराम् ॥३॥यस्याः श्रवणमात्रेण शापमुक्तो भवेन्नरः ॥पुरा नागाः परिभ्रष्टा मातुः शापात्परंतप ॥४॥जनमेजयेन दग्धास्ते मोक्षिता ह्यास्तिकेन च ॥पप्रच्छुस्ते द्विजश्रेष्ठ जरत्कार्वात्मजं तदा ॥५॥॥ नागा ऊचुः ॥ब्रह्मंस्तव प्रसादेन मोक्षिता हव्यवाहनात् ॥जनमेजयस्य यज्ञेस्मिन्देवराजस्य संनिधौ ॥६॥अस्माकं भूतिमन्विच्छन्वासस्यार्थं परंतप ॥यस्मिन्स्थाने सदा ब्रह्मन्निवासो जायतेऽभयः ॥७॥॥ आस्तीक उवाच ॥श्रूयतां मातुलश्रेष्ठा युष्माकं हितमुत्तमम् ॥महाकालवने रम्ये या वै कुशस्थली स्मृता ॥८॥तस्यां हि दक्षिणे भागे पूर्वतीर्थं सना तनम्॥नागालयं पुरा प्रोक्तं यत्र सन्निहितो हरिः ॥९॥योगनिद्रां समासाद्य शेते ब्रह्म सनातनम् ॥शेषशायीति विख्यातः सर्वलोकेषु गीयते ॥१०॥कल्पदोषो न तत्रैव बाधते सवदेहिनाम्॥बकदाल्भ्य ऋषिस्तत्र तपस्तेपे धृतव्रतः ॥१०॥लोमशश्च महातेजास्तत्रैव प्रतितिष्ठति ॥दीर्घायुष्ट्वं समापन्नो मार्कंडेयो महामुनिः ॥१२॥न वर्तते कालचक्रं महाकालप्रतापतः ॥कपिलः सिद्धिमापन्नो यत्र तीर्थवरोत्तमे ॥१३॥हरिश्चंद्रो विमुक्तोऽभूद्गर्ह्यचण्डालयोनितः॥सप्तर्षिप्रवरा ये ते निर्वाणपदवीं गताः ॥१४॥एतस्मात्कारणात्सर्वैस्तत्र विश्रम्यतां सदा॥मातुः शापोद्भवो दोषो युष्माकं नैव बाधते॥१५॥एतत्ते वचनं श्रुत्वा महर्षेरास्तिकस्य च॥आगच्छंस्तत्र ते शीघ्रं वासार्थं पन्नगोत्तमाः॥१६॥एलापत्रः कंबलश्च कर्कोटकधनंजयौ॥वासुकिः पन्नगश्रेष्ठस्तक्षको नील एव च॥१७॥पद्मकश्चार्बुदश्चैव नागास्ते सर्व एव हि॥अत्रागत्य स्वस्वस्थानानि चक्रुस्ते सुचिरव्रताः॥१८॥तत्र रम्याणि तीर्थानि जातानि परमाणि च॥ नवानि चक्रुः कुंडानि तीर्थभूतानि सत्तम॥१९॥महापुण्यप्रदान्याहुर्महापापहराणि च ॥यत्र सिद्धाश्च गंधर्वा ऋषयः संशितव्रताः ॥२०॥अप्सरोगणसंघैश्च सेव्यंते च सदा वरैः ॥यत्र शेषो महानागः पुरा प्रोक्तो महर्षिणा ॥२१॥शेषशायी ह्यलं विष्णुर्भगवान्कमलेक्षणः ॥तत्र सर्वाणि तीर्थानि तिष्ठंति भुवि सर्वदा ॥२२॥श्वेतद्वीपेति विख्याता मणिविक्रांतभूमिका ॥यत्र पुण्याश्च वै वृक्षाः पुष्पिताश्चैव सर्वशः ॥२३॥हंसकारंडकाकादि पिककोकिलसारसाः ॥पद्मखंडगणास्तत्र नृत्यंति च शिखंडिनः ॥२४॥निधिरेष महापद्मो नीलोत्पलसुगंधिना ॥वासितो वायुना शुभ्रः किन्नरोद्गारनादितः ॥२५॥यत्र सुसंस्कृता नार्यो विहरंति सुरांगनाः॥नागकन्याभी रम्याभिर्मंडितं परमाद्भुतम् ॥२६॥यत्र स्नात्वा नरो याति वैकुंठं धाम शोभनम् ॥शेषशायी हरिर्यत्र शेते हि च रमापतिः ॥२७॥तत्र रमासरो नाम तीर्थं परमशोभनम् ॥यत्र स्नात्वा नरो नित्यं श्रीमान्भवति नाऽन्यथा ॥२८॥एवं व्यास परं स्थानं सर्वपापहरं परम् ॥अत्रैव च परं तीर्थं बलेराश्रममद्भुतम् ॥२९॥अत्र स्नानादिकं कार्यं यत्र संनिहितो हरिः ॥सर्वपापविशुद्धात्मा नरो भवति तत्क्षणात् ॥३०॥कियत्प्रमाणमात्रां च ये ददति वसुंधराम् ॥तनूरुहाणि यावन्ति तावत्कालसुसंख्यया ॥३१॥अक्षय्या लभ्यते वृद्धिस्तेषां लोकाः सनातनाः ॥श्रावणे मासि दर्शे च पंचम्यां सोमवासरे ॥३२॥नागानां पूजनं कार्यं श्राद्धं दर्शे विधीयते ॥अक्षयं जायते श्राद्धं वांछितार्थं भवेत्ततः ॥३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये तीर्थयात्रायां नागतीर्थमहिमवर्णनंनाम पंचषष्टितमोऽध्यायः ॥६५॥ N/A References : N/A Last Updated : December 01, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP