अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
तीर्थमन्यत्तथा वक्ष्ये शक्तिभेदमिति स्मृतम् ॥
स्कंदस्य च जटाभद्रं चक्रे यत्र पुरा शिवः ॥१॥
तारकं च तथा दैत्यं हत्वा यत्र सुरद्विषम् ॥
शक्तिं स्कंदः स्वयं क्रुद्धो निश्चिक्षेप महीतले ॥२॥
॥ व्यास उवाच ॥
भगवन्ब्रूहि यत्नेन संशयो मे महामुने ॥
कथं स्कंदः समुत्पन्न एतदिच्छामि वेदितुम् ॥३॥
॥ सनत्कुमार उवाच ॥
पुरा देवासुरे युद्धे निर्जिता दानवैः सुराः ॥
दिवं त्यक्त्वा दिशो याताः शक्राद्या भयविह्वलाः ॥४॥
तत्र तु देव राजेन तपसोग्रेण वै मुने ॥
आराधितो महादेवस्त्र्यंबकस्त्रिपुरांतकः ॥५॥
ततस्तुष्टो महादेवः शक्रस्याभिमुखः स्थितः ॥
उवाच वचनं श्लक्ष्णं वरमिष्टं ददामि ते ॥६॥
॥ शक्र उवाच ॥
यदि तुष्टोऽसि भगवन्कारुण्यान्मम शंकर ॥
महासेनापतिं देव प्रयच्छ परमेश्वर ॥७॥
॥ हर उवाच ॥
उत्पादयामि देवेषु स्ववीर्यादूर्जितं सुतम् ॥
सेनान्यां च महासेनं सुराणां भयहारकम् ॥८॥
॥ सनत्कुमार उवाच ॥
इत्युक्त्वांतर्दधे देवः सर्वभूतपतिर्हरः ॥
सुतचिंतापरो देवो जगाम च हिमालयम् ॥९॥
देवदारुवने तस्थौ ज्ञानध्यानपरोऽभवत् ॥
ब्रह्मादयोऽपि यं देवं योगिनो ध्यानचिंतकाः ॥१०॥
ध्यायंति नियतात्मनः प्राणायामपरा मुने ॥
लिंगमूर्तिश्च यो नित्यं पूज्यते सर्वजंतुभिः ॥११॥
स ध्यायति किमर्थं तन्न विद्मः परमार्थिनः ॥
वं ध्यानपरे देवे देवी हिमवतो गृहे ॥१२॥
मध्ये वयसि वर्तंती यासीद्दाक्षायणी सती ॥
पितुर्गेहे निजो देहो यया योगाद्विसर्जितः ॥१३॥
निमंत्रितो न मे भर्ता इति कोपं चकार या ॥
तां देवीं हिमवान्पूर्वं श्रुत्वा देवर्षिनारदात् ॥१४॥
भवभार्या भवित्रीति नान्यं वरमचिंतयत् ॥
तपस्यति च रुद्राय सा सखीभ्यां समन्विता ॥१५॥
कथं हि शंकरो देवो मम भर्ता भविष्यति ॥
यावदेवं गतो देवो देवी हिमवतः सुता ॥१६॥
ततः समागता देवाः कृत्वाग्रे बलसूदनम् ॥
जग्मुर्ब्रह्मसदः पुण्यं द्रष्टुं ब्रह्माणम व्ययम् ॥१७॥
ते सुरास्तत्स्तुति कृत्वा वाक्यमेतत्समैरयन् ॥
शरणं भव देवानां दानवैर्विजितात्मनाम् ॥१८॥
ततोऽवोचत्सुरान्ब्रह्मा ज्ञातं कार्यं समाहितम् ॥
नैतच्छंभोर्विना वीर्यात्कार्यसिद्धिर्भविष्यति ॥१९॥
तथा यतध्वं देवेशं यथा वांछति पार्वतीम् ॥
इत्युक्त्वांतर्दधे ब्रह्मा स्वप्ने लब्धं धनं यथा ॥२०॥
ततो मेरुं समागत्य पुनर्मंत्रं प्रचक्रिरे ॥
तेषामाहेदृशं शक्रस्तुष्टः शंभुः पुरा मम ॥२१॥
प्रतिपन्नं च देवेन स्वांगात्सेना पतिं प्रति ॥
तस्मादेवं गते कार्ये कारणं मकरध्वजः ॥२२॥
इति संचित्य देवेशः काममाहूय सत्वरम् ॥
उवाच वचनं हृद्यं देवाना मनुकंपया ॥२३॥
यथा देवो भजेद्देवीं तथा काम विधीयताम् ॥
कारणं महदेतद्वै देवानां समुपस्थितम् ॥२४॥
कामो वाक्यं हरेः श्रुत्वा प्रहस्येदमुवाच ह ॥
करिष्ये सर्वमेवं हि सखा मे चेद्भवेन्मधुः ॥२५॥
तस्मिन्क्षणेऽथ शक्रेण कामवाक्यादनंतरम्॥
समादिष्टो मधुः क्षिप्रं कामस्यानुचरो भव ॥२६॥
लब्ध्वा कामो मधुं मित्रं प्रतस्थे भार्यया सह ॥
कृत्वा सज्यं धनुर्बाणं पौष्पं पाणौ समाहितः ॥२७॥
यत्र देवाधिदेवेशो देवदारुवने स्थितः ॥
नन्दीश्वरः प्रतीहारः कृतध्यानोऽवतिष्ठति ॥२८॥
चूतवृक्षाश्रितः कामो यावद्बाणं सुमोहनम् ॥
संदधात्यंतरे चास्मिन्देवी प्राप भवाश्रमम् ॥२९॥
त्यक्तध्यानव्रतो देवो हृष्टश्चाह्रादचेतनः ॥
ततो विलोकयामास दिशः सर्वाः प्रयत्नतः ॥३०॥
चूतवृक्षाश्रितं काममपश्यच्च रुषान्वितः ॥
भस्मीकृतस्तृतीयाक्ष्णा वह्निज्वालावता ततः ॥३१॥
देवोऽप्यन्तर्दधे तस्मात्स्थानादाशु गणैः सह ॥
पार्वती विस्मिता साध्वी लज्जिता दुःखिताऽभवत् ॥३२॥
हिमवांस्तां समुत्थाप्य निनायाशु निजं गृहम् ॥
गते देवे च देव्यां च कामपत्नी सुदुः खिता ॥२३॥
भस्मीकृतं पतिं दृष्ट्वा विललाप सुदुःखिता ॥
दृष्ट्वा रतिं सुदुःखार्ता वागुवाचाशरीरिणी ॥३४॥
आश्वासयंतीं कृपया सखीमिव सुदुः खिताम् ॥
मा रोदीस्त्वं शुभापांगि तव भर्ता करिष्यति॥३५॥
सर्वकार्याण्यनंगोपि मित्रकार्यं विधानतः ॥
यदा चायं महादेवः परिणेष्यति पार्वतीम् ॥३६॥
ततः शंभोरनुध्यानात्थास्यति न संशयः ॥
द्वापरांते यदा कृष्णो द्वारकायां निवत्स्यति ॥३७॥
तत्पुत्रो भविता देही प्रद्युम्नोनाम ते पतिः ॥
इत्युक्ता साऽजहाच्छोकमाकाशाज्जातया गिरा॥ ३८॥
अचिंतयत्तदा देवी उमापि हिमवद्गृहे ॥
कामस्य दहनं तेजः शंभोर्यत्तदनुत्तमम् ॥३९॥
कथं भर्त्ता भवेद्देवः कामस्योत्थापनं कथम् ॥
नैतत्तपो विना कार्यं क्वचित्कस्यापि सिध्यति ॥४०॥
एवं संचिंतयित्वाथ सखीभिः सहिता ततः ॥
तपश्चकार सुमहत्पित्रादेशाच्छुभव्रता ॥४१॥
वर्षास्वभ्रावकाशस्था हेमंते जलशायिनी॥
ग्रीष्मे पंचाग्नितप्तांगी तपस्युग्रे समा स्थिता ॥४२॥
तां दृष्ट्वा तपसोपेतां ब्रह्मचारिवया हरः ॥
आजगामाश्रमं देव्याः कृतातिथ्योऽब्रवीदिदम् ॥४३॥
कृशमध्ये कृशापांगि किमर्थं नवयौवने ॥
तपः करोषि कल्याणि कस्यार्थे कारणं वद ॥४४॥
उवाच चोत्तरं सा वै सत्यं च मधुरं तथा ॥
बटो तपःसमारंभः क्रियते शंकरा प्तये ॥४५॥
विचार्य च हरः श्रुत्वाऽनंदयत्कार्यमात्मनः ॥
उमाभक्तिपरीक्षार्थं शिवं वाचा निनिन्द वै ॥४६॥
तस्य तद्वचनं श्रुत्वा न सेहे सा गिरेः सुता ॥
गंतुकामामुमां मत्वा तस्मात्स्थानान्महेश्वरः ॥
स्वं वपुर्दर्शयामास त्रिनेत्रं शूलपाणिनम् ॥४७॥
लज्जिताभूद्भवानीशं दृष्ट्वा तस्थावधोमुखी ॥
विजयाथाह योगीन्द्रं प्रार्थ्या चाभिजने त्वियम् ॥
पार्वतीहरणार्थाय यत्नं च प्रकरोम्यहम् ॥४८॥
इत्युक्त्वांतर्दधे देवो देव्यागाच्च पितुर्गृहम् ॥
देवीलाभाय सप्तर्षीन्सस्मार स्मरशासनः ॥४९॥
प्रणेमुस्तेप्यथागम्य संस्मृताः परमेश्वरम् ॥
ऊचुश्च प्रांज लिपुटाः कुर्म किं शाधि नो भृशम् ॥५०॥
ततोऽब्रवीन्मुनीनीशः समस्तांश्च गिरेर्गृहम् ॥
गत्वा तथा कुरुध्वं मे पार्वती स्याद्यथा प्रिया ॥५१॥
तथेति ते प्रतिज्ञाय संकेतं शंभुना समम् ॥
कृत्वा जग्मुः सपत्नीका गिरींद्रस्य निवेशनम् ॥५२॥
दत्तार्घा भूधरेंद्रेण कृतासन परिग्रहाः ॥
ऊचुरद्रिमुमां यच्छ शंकरायार्थिने प्रियाम् ॥५३॥
दत्तेत्युक्ता गिरींद्रेण निरूप्योद्वाहवासरम् ॥
लब्ध्वानुज्ञां समायाता यत्रास्ते स महेश्वरः ॥५४॥
ऊचुस्ते शंकरं सर्वे दत्ता हिमवता शिवा ॥
कृतकार्याश्च सर्वेऽपि वव्रजुस्ते यथागतम् ॥५५॥
चक्रुर्विवाह सामग्रीं ब्रह्मेन्द्रादिसुरास्तदा ॥
वृषासनो जगामाथ नंदीशप्रमुखैर्गणैः ॥५६॥
शंखदुंदुभिनादैश्च ब्रह्माद्यैरमरैः सह ॥
प्राप्यागेंद्रालयं हीशः कृतकौतुकमंगलः ॥५७॥
विवाह्येमां विधानेन जगाम स्वालयं पुनः ॥
तत्रैकांतरतिर्देवो यावत्तिष्ठति कामवान् ॥५८॥
तावत्त्रस्तैः सुरैरग्निः प्रेषितोऽगान्महेश्वरम् ॥
अग्नौ तत्र गते देवो रतिं कृत्वा महेश्वरः ॥५९॥
निचिक्षेप मुखे वह्नेः स्वरेतो व्रीडितो भृशम् ॥
रेतसा तेन तप्तो ऽग्निर्गंगातोये निक्षिप्तवान् ॥६०॥
हररेतोऽग्निनोद्गीर्णं गंगामध्ये पपात ह ॥
तया तु स्वतटे न्यस्तं दग्धया रुद्ररेतसा ॥६१॥
सप्तर्षीणां च षट्पत्न्यः स्नानार्थं जाह्नवीं ययुः ॥
शीतार्तास्ताः कृतस्नाना दृष्ट्वा तेजस्तटे ज्वलत् ॥६२॥
मत्वाग्निमिति ताः सर्वास्तपंति स्म यथेच्छया ॥
तपंतीनां च वै तासां तद्बीजसंभव मुने ॥६३॥
षडाननं समारूढं श्रोणिद्वारेण सत्वरम् ॥
यदान्योन्यमुत्पतितुं शक्ता नाग्निपुरोगमात् ॥६४॥
चिंतां जग्मुस्तदा सर्वा मुनित्रासात्ततो भयात् ॥
ततश्च तपसो वीर्यान्निष्कृष्य स्वोदरात्ततः ॥६५॥
षड्भिरेकत्वमापद्य श्वेतपर्वतमस्तके ॥
मध्ये शराणां वै कृत्य निक्षिप्तं वीर्यमुत्तमम् ॥६६॥
शुक्लायां प्रतिपद्यासीद्द्वितीयायां समीकृतः ॥
तृतीयायां च साकारः सर्वलक्षणलक्षितः ॥६७॥
चतुर्थ्यां परिपूर्णांगः षण्मुखो द्वादशेक्षणः ॥
अलंकृतस्तु पंचम्यां षष्ठ्यां च स समुत्थितः ॥६८॥
तेजसा श्वेतताम्रेण तताप स जगत्त्रयम् ॥
जातमित्थं समाकर्ण्य सर्वे शक्रमुखाः सुराः ॥६९॥
समागत्यास्य संस्कारं ब्रह्मा चक्रे यथाविधि ॥
तुष्टेन पार्वतीशेन शक्तिर्दत्ता दृढा शुभा ॥७०॥
ततो गौर्या मयूरश्च वाहने परिकल्पितः ॥
छागश्चैवाग्निना दत्तः कुक्कुटं सरितां पतिः ॥७१॥
शूलेन कृत्तिकाभिश्च वर्धितः पुत्रकाम्यया ॥
ततस्तु प्राप्तसंस्कारो ब्रह्माद्यैरभिनंदितः ॥७२॥
शक्तिहस्तोऽभिषिक्तस्तु देवसेनासमादृतः ॥
वित्ताधिपेन साह्येन पावकिः पण्मुखों ऽशतः ॥७३॥
गांगेयः कार्तिकेयश्च गुहः स्कंद उमासुतः ॥
देवसेनापतिः स्वामी सेनानीश्च शिखिध्वजः ॥७४॥
कुमारः शक्तिधारी च तस्य नामानि षोडश ॥
यः पठेन्मानवो भक्त्या बाधा तस्य न जायते ॥७५॥
एवं जातो महासेनो दानवानां क्षयकरः ॥
कुशस्थल्यां समानीतः शंभुना स्थानकारणात् ॥७६॥
अभिषिक्तः स तेनासौ भद्रितः स जटाः पुरा ॥
तेन भद्रजटंनाम देवतीर्थं च कथ्यते ॥७७॥
कृताभिषेकं लब्धास्त्रं महासेनं महेश्वरः ॥
तमुवाच समधुरं सर्वदेवसमागमे ॥७८॥
रक्षा कार्या त्वया पुत्र सामरस्य शतक्रतोः ॥
देवानां बाधकाः सर्वे निहंतव्याः सुरद्विषः ॥७९॥
इत्थं महोत्सवे जाते दृप्तप्रमथसागरे ॥
मातरोऽन्वागताः सर्वाः पातालतलसंस्थिताः ॥८०॥
तासामाहारसंज्ञाभिश्चक्रे नामानि शंकरः ॥
यानि तानि प्रवक्ष्यामि शृणु त्वं मुनिपुंगव ॥८१॥
वटभोजनकामा या ज्ञेयास्ता वटमातरः ॥
भुञ्जते चर्पटान्यास्तु ता वै चर्पटमातरः ॥८२॥
क्रीडार्थं शंभुना चाथ प्राप्ता याः पौलभोजने ॥
षण्णवतिमातरः सत्याः सर्वास्ताः पौलमातरः ॥८३॥
सर्वासां दर्शनं पुण्यं ग्रहभूतविनाशनम् ॥
प्रयत्नतः सदा देव्यो द्रष्टव्या मानवैर्मुने ॥८४॥
लब्ध्वा शक्तिं महासेनो देवसेनो महाव्रतः ॥
जघान दानवेंद्रं तं तारकं तरसा तदा ॥८५॥
दत्त्वा राज्यं तथेंद्राय स्फीतं निहतकंटकम् ॥
कुशस्थलीं समागम्य तत्र वासं समाचरत् ॥८६॥
एवं निहत्य दैत्येंद्रं स गांगेयो महाब लः ॥
शक्तिं शिप्राजले मुक्त्वा पातालं च बिभेद सा ॥८७॥
ततो भोगवती व्यास शक्तिभेदेन निर्गता ॥
वंदिता सर्वदेवैश्च मुनिभिश्च तपोधनैः॥८८॥
पृथिव्यां यानि तीर्थानि समुद्रादिगतानि च ॥
शक्तिभेदे तु न्यस्तानि शतकोटिसहस्रशः ॥८९॥
अतोऽतिपुण्यं त्रैलोक्ये कोटितीर्थमुदाहृतम् ॥
ब्रह्मणा स्थापितस्तत्र कोटितीर्थेश्वरः शिवः ॥९०॥
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगः ॥९१॥
श्राद्धं करोति यस्तत्र पितृभक्तो नरो मुने ॥
दशानामश्वमेधानां प्राप्नोति सकलं फलम् ॥९२॥
पितॄनुद्दिश्य यत्किञ्चित्कोटितीर्थे प्रदीयते ॥
तत्सर्वं कोटिगुणितं जायते नात्र संशयः ॥९३॥
तत्र तीर्थे नरो यस्तु गां ददाति पयस्विनीम् ॥
सर्वलोकानतिक्रम्य स गच्छेत्प रमां गतिम् ॥९४॥
यावन्त्यंगेषु रोमाणि तत्प्रसूतिकुलेषु च ॥
तावद्युगसहस्राणि शिवलोके महीयते ॥९५॥
पौर्णमास्याममावास्यां पश्येच्छक्तिधरं तु यः ॥
नापुत्रो नाधनो रोगी सप्तजन्मसु जायते ॥९६॥
जलप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तमः ॥
सोऽक्षयं लभते लोकं यावच्चन्द्र दिवाकरौ ॥९७॥
वृषोत्सर्गं तु यः कुर्यात्पितृभक्तो नरो मुने ॥
सोऽक्षयं लभते स्थानं यत्सुरैरपि दुर्लभम् ॥९८॥
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शक्तिभेदतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥।छ॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP