अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
कथं तन्माहिषं कुण्डं मातॄणामाकृतिः कथम्॥
रुद्रस्यैव कथं क्षेत्रे महिषो दानवो हतः ॥१॥
॥ सनत्कुमार उवाच ॥
कपालखंडमादायं महादेवोऽप्यतिप्रभम् ।
ब्रह्मतेजो मयं दिव्यं ज्वलंतमिव चार्चिषा ॥२॥
क्रीडमानो जगन्नाथो मोहयामास वै सुरान्॥
निमेषात्स इमं लोकं योगात्मा योगलीलया॥३॥
प्राप्य पुण्यतमं क्षेत्रं यत्रातिष्ठन्महाप्रभुः ॥
तत्रतत्र महद्दिव्यं कपालं देवताधिपः ॥४॥
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥
त्वत्स्थापितमथो दृष्ट्वा गताः सर्वे महौजसः ॥५॥
विनदत्समहानादं नादयंत दिशो दश ॥
क्षोभार्णवाशनिप्रख्यं नभो येन विदीर्यते ॥६॥
तेन शब्देन घोरेण दानवो देवकंटकः ॥
हालाहल इति ख्यातो देशं तमभिधावितः ॥७॥
अमृष्यमाणः क्रोधार्तो दुरात्मा दुर्जयः सुरैः ॥
ब्रह्मदत्तवरश्चैव माहिषं वपुरास्थितः ॥८॥
दैत्यैः परिवृतो घोरै कोटिभिश्चोद्यतायुधैः ॥
तमायांतं तु सक्रोधं महिषं देवकंटकम् ॥९॥
समावेक्ष्याह वै देवो गणान्सर्वा न्पिनाकधृक् ॥
मायावी गणपा दैत्यस्त्रैलोक्यस्यापि कंटकः ॥१०॥
आयाति त्वरितो यूयं तस्मादेनं विनिघ्नथ ॥
कपालस्य गतिं सर्व आश्रिता गणनायकाः ॥११॥
ततो देवगणा दृष्ट्वा तमायांतं महासुरम् ॥
गर्जमानं महानादं भ्रममाणं महाभुजम् ॥१२॥
बिभिदुः शलसंघातैरसिभि र्मुसलैस्तथा ॥
संमुह्य शरजालेन ततो भूमौ न्यपातयन् ॥१३॥
हते तस्मिन्महादेवो देवान्प्रोवाच वै तदा ॥
अहो दर्पातिमूढः स दर्पेण निधनं गतः ॥१४॥
एतस्मिन्नंतरे व्यास तत्कपालात्सुभैरवाः ॥
दीप्तास्या मातरः सर्वाः प्रचंडास्त्रा महाबलाः ॥१५॥
अभ्यधावंस्तमुद्देशं महादेवं निवेद्य वै ॥
दैत्यं ता भक्षयंति स्म भित्त्वा भित्त्वा महाबलाः ॥१६॥
कपालमातरस्तस्मात्ख्याताः क्षेत्रे महाबलाः ॥
महाकपालस्तस्माद्वै तादृशः परि कीर्तितः ॥१७॥
स्थापितस्य कपालस्य भित्त्वा समभवत्पुरा ॥
ख्यातं शिवतडागं च सर्वपापप्रणाशनम् ॥१८॥
तदद्यापि महद्दिव्यं सरस्तत्र प्रकाशते ॥
त्रिषु लोकेषु विख्यातं गणगंधर्वसेवितम् ॥१९॥
पात्रस्थमुद्धुतं वापि शीतोष्णं क्वथितं जलम् ॥
रौद्रं सरः पुनातीहाश्वमेधावभृथो यथा ॥२०॥
प्रागाद्ब्रह्मापि तं देशं देवतानां शतैर्वृतः ॥
स्वर्गलोकस्य निःश्रेणी कीर्तिता ब्रह्मणा स्वयम् ॥२१॥
अत्र त्यजंति ये प्राणान्रुद्र लोकं व्रजंति ते ॥
धन्या व्यास नरा मर्त्ये महाकालवने स्थिताः ॥२२॥
रौद्रे सरसि ये स्नांति जलं वापि पिबंति ये ॥
स्वधर्माचारनिरताः पश्यंतीशानमीश्वरम् ॥२३॥
इति स्वर्गगता देवाः स्पृहां कुर्वंति नित्यशः ॥२४॥
इदं शुभं दिव्यमधर्मनाशनं महाकपालं सुरदैत्यपूजितम् ॥
महाप्रभं पापहरं सनातनं सुरेशलोकादपि दुर्लभं सदा ॥२५॥
तपोरतैः सिद्धगणैरभिष्टुतं यथा नभःस्थं दिननाथमंडलम् ॥
य एकचित्तः शृणुयात्प्रसादतस्त्रिविष्टपं गच्छति सोऽभिनंदितः ॥२६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां पंचम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये महिषकुण्डरुद्रसरोमाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : November 30, 2024
TOP