संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ६९

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
भूयः शृणु परं तीर्थं सर्वतीर्थफलप्रदम् ॥
कीर्तितं ब्रह्मणा पूर्वं मार्कंडेयस्य पृच्छतः ॥१॥
शृणु वत्स महीपृष्ठे शिप्रा दिव्यतरा नदी ॥
तस्यास्तीरे वरं तीर्थं कर्कराजेतिविश्रुतम् ॥२॥
यस्य दर्शनमात्रेण महापापक्षयो भवेत् ॥
विकारा मानसाः सर्वे चंद्रो मानससंभवः॥३॥
तस्य स्थाने गतो भानुर्याम्यायनकरः परः॥
ऋतुत्रयं समाख्यातं विधूम्रार्चिस्तदुच्यते ॥४॥
तत्र मृताः प्रवर्तंते योगिनोऽपि परंतप॥
चातुर्मास्ये हरौ सुप्ते ये नरा व्रतवर्जिताः ॥५॥
न तेषां सद्गतिर्वत्स सत्यमेव ब्रवीमि ते ॥
चातुर्मास्ये मृता ये च ये मृता दक्षिणायने ॥६॥
तेषामुद्धरणार्थाय तीर्थमेतद्विनिर्मितम् ॥
कर्कराज इति ख्यातं सर्वलोकेषु गीयते ॥७॥
॥ मार्कण्डेय उवाच ॥
भगवन्भवता सर्वं निर्मितं विश्वमूर्तिना ॥
चराचरमिदं विश्वं जगत्सर्वं जगत्पते ॥८॥
चातुमास्ये हरौ सुप्ते धर्माऽऽचारविधिः स्मृतः ॥
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥९॥
॥ ब्रह्मोवाच ॥
शृणु वत्स परं पुण्यं चातुर्मास्यफलं शुभम् ॥
यच्छुत्वा भारते खण्डे नृणां मुक्तिर्न दुर्लभा ॥१०॥
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणः ॥
यस्य स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥११॥
मानुष्यं दुर्लभं लोके तत्राऽपि च कुलीनता ॥
तत्राऽपि संयमित्वं च तत्र सत्संगमः शुभः ॥१२॥
सत्संगमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि न ॥
चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः ॥१३॥
चातुर्मास्ये ऽव्रती यस्तु तस्य पुण्यं निरर्थकम्॥
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च ॥१४॥
विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते ॥
स विष्णुराश्रितो नित्यं कर्कराजं सुतीर्थकम्॥ १५॥
सुपुष्टेन च देहेन जीवितं तस्य शोभनम् ॥
चातुर्मास्ये समायाते हरिर्येनाऽर्चितस्तदा ॥१६॥
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः ॥
संप्राप्य मानुषं देहं चातुर्मास्ये पराङ्मुखः ॥१७॥
तस्य पापशतान्याहुर्देहस्थानि न संशयः ॥
मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा॥१८॥
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने॥
चातुर्मास्ये नरः स्नात्वा कर्करात्रे द्विजोत्तम ।
देहशुद्धिं विधायाऽऽदौ मुक्तिमार्गमवाप्नुयात्॥ १९॥
तत्राऽपि निर्झरे कूपे तडागे वा सरस्यपि॥
तस्मात्तदधिकं पुण्यं समाख्यातं सुरासुरैः॥२०॥
तेषु यः स्नाति वै नित्यं तस्य पापक्षयो भवेत्॥ २२॥
तस्मान्नद्यधिका पुण्या समाख्याता सुरासुरैः ॥
पुष्करे च प्रयागे च यत्र क्वाऽपि महाजले ॥२३॥
चातुर्मास्ये तु यः स्नाति पुण्यसंख्या ततोऽधिका॥
रेवायां भास्करे क्षेत्रे प्राच्यां सागरसंगमे ॥२४॥
एकाहमपि यः स्नाति चातुर्मास्ये न दुःखभाक्॥
दिनत्रयं च यः स्नाति नर्मदायां समाहितः॥२५॥
सुप्ते देवे जगन्नाथे पापं याति सहस्रधा॥
पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये॥२६॥
स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम्॥
अवंत्यां कर्कराजे तु साक्षाद्विष्णुर्भवेन्नरः॥
क्षणमेकं क्षणार्धं वा चातुर्मास्ये ऽतिलंघयेत् ॥२७॥
तिलोदकेनामलसंयुतेन बिल्वोदकेनापि च मज्जयेद्यः ॥
न तस्य जानामि फलाधिकं वै किं तस्य कीदृङ्मुनिभिः प्रणीतम् ॥२८॥
गंगां स्मरति यो नित्यमुदपानसमीपतः ॥
तद्गांगेयजलं जातं तेन स्नानं समाचरेत् ॥२९॥
गंगाऽपि देवदेवस्य चरणांऽगुष्ठवाहिनी ॥
पापहा सा सदा प्रोक्ता चातुर्मास्ये विशेषतः॥ ३०॥
चातुर्मास्ये जलगतो देवो नारायणो भवेत् ॥
सर्वतीर्थाऽधिकं स्नानं विष्णुतेजोंऽशसंगतम् ॥३१॥
स्नानं दशविधं कार्यं विष्णुनाम्ना महाफलम् ॥
सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात् ॥३२॥
विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभ म् ॥
क्रियते विफलं ब्रह्मंस्तद्गृह्णन्ति हि राक्षसाः ॥३३॥
स्नानेन सत्यमाप्नोति सत्ये धर्मः सनातनः ॥
धर्मान्मोक्षपथं प्राप्य पुनर्नैवावसीदति ॥३४॥
ये चाध्यात्मविदः पुण्या ये च वेदांतपारगाः ॥
सर्वदानप्रदाने च तेषां स्नानेन शुध्यति ॥३५॥
कृतस्नानस्य हि हरिर्देहमाश्रित्य तिष्ठ ति ॥
सर्वक्रियाफलं येषु संपूर्णफलदं भवेत् ॥३६॥
सर्वपापविनाशाय देवतातोषणाय च ॥
चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम् ॥३७॥
निशायां चैव न स्नायात्संध्यायां ग्रहणं विना ॥
उष्णोदकेन न स्नायाद्रात्रौ शुद्धिर्न जायते ॥३८॥
भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु ॥
चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी ॥३९॥
अशक्त्यां तु शरीरस्य भस्मस्नानेन शुध्यति ॥
मंत्रस्नानेन विप्रेंद्र विष्षुपादोदकेन वा ॥४०॥
नारायणाऽग्रतः स्नानं क्षेत्रे तीर्थे नदीषु च ॥
विशेषतोऽपि शिप्रायां तीर्थे कर्काभिधे वरे ॥४१॥
यश्च स्नाति नरो नित्यं स याति वैष्णवं पदम्॥
तस्मात्त्वं भार्गवश्रेष्ठ तत्र गच्छस्व मा चिरम् ॥४२॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥
तानि सर्वाणि तिष्ठंति कर्कराजजले सदा ॥४३॥
कर्कस्थे च दिवानाथे स्नानं कुर्वंति ये नरा ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥४४॥
चातुर्मास्यं समासाद्य तत्रैव निवसाम्य हम् ॥
नास्ति रेवासमा पुण्या नदी ब्रह्मांडभूतले ॥४५॥
महेशान्नाऽपरो देवो मुक्तिदो न जनार्दनात् ॥
उज्जयिनीसमा नास्ति पुरी कामवर प्रदा ॥४६॥
कर्कराजसमं तीर्थं नास्ति वत्स महीतले ॥
यस्य दर्शनमात्रेण मुक्तिभागी भवेन्नरः ॥४७॥
एवं व्यास समाख्यातं ब्रह्मणा भार्ग वाय च ॥
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रज ॥४८॥
अस्माकं चाऽपि तत्रैव स्थानं परमशोभनम् ॥
चातुर्मास्ये हरौ सुप्ते यावद्यायात्प्रबो धिनी ॥४९॥
तावत्कालं हि तत्रैव मुक्तिरेव न संशयः ॥
चातुर्मास्ये हरौ सुप्ते जहाति चेत्कलेवरम् ॥५०॥
यमलोके चिरं वासो जायते नाऽत्र संशयः ॥
तस्मात्तुलसिकाभागे शालिग्रामे सुरालये ॥५१॥
आत्मानं हि पणीकृत्य तत्रैव संनियोजयेत् ॥
यावत्प्रबोधिनी चैति द्वादशी द्विज्सत्तम ॥५२॥
पश्चाद्घृतसुवर्णेन मोचयित्वा स्वकं नयेत् ॥
चातुर्मास्योद्भवं दोषं बाधते न च मानवम् ॥५३॥
यस्य शिप्रोदके स्नानं कर्कराजेऽनुजायते ॥
एवं व्यास वरं तीर्थं सर्वतीर्थफलप्रदम् ॥५४॥
पृथिव्यां यानि तीर्थानि सरितः सागराश्च ये ॥
ते सर्वे च समायांति चातुर्मास्ये द्विजोत्तम॥ ५५॥
तस्माच्च तद्वरं तीर्थं कर्कराज इति स्मृतम् ॥५६॥
य एतां वै कथां पुण्यां शृण्वंति श्रावयंति च ॥
न तेषां जायते दोषश्चातुर्मा स्योद्भवः कदा ॥५७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कर्कराजतीर्थ महिमवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP