संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय २५

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
शुक्रेश्वरं समभ्यर्च्य सितपुष्पैर्विलेपनैः ॥
प्रणिपत्य ततो भक्त्या रुद्रलोके महीयते ॥१॥
भीमेश्वरं नरो दृष्ट्वा भक्त्या संपूज्य यत्नतः ॥
न भयं लभते व्यास रणे रात्रौ जलेऽनले ॥२॥
गर्गेश्वरं स्नापयित्वा तिलतैलेन मानवः ॥
बिल्वपत्रैस्तु संपूज्य धर्मवृद्धिमवाप्नुयात् ॥३॥
उपोषितश्चतुर्दश्यां तिलप्रस्थतिलांभसा ॥
स्नापयित्वा तिलैरिष्ट्वा सदा सौख्यमवाप्नुयात् ॥४॥
गोसहस्रं नरो दत्त्वा भावं कृत्वा विशेषतः ॥
भवबंधविनिर्मुक्तो रुद्रलोकं स गच्छति ॥५॥
कामेश्वरं समभ्यर्च्य कुंकुमादिविलेपनैः ॥
कामिकेन विमानेन याति स्वर्गं न संशयः ॥६॥
चूडामणिं नमस्कृत्य नवम्यां कार्तिके सिते ॥
न वियोनिं नरो याति धर्मबुद्धिः स जायते ॥७॥
चंडीश्वरं समभ्यर्च्य कृष्णाष्टम्यामुपोषितः ॥
निर्माल्योल्लंघनोत्थेन न शोकेनापि लिप्यते ॥८॥
इत्यादितीर्थानि महेश्वरस्य पुण्यानि सर्वाणि नरोऽभिगम्य ॥
विशुद्धचित्तो भुवि भावितात्मा प्रयाति शंभोर्भुवनं सुरम्यम्॥ ९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शुक्रेश्वरभीमेश्वर गर्गेश्वरकामेश्वर चूडामणीश्वर चण्डीश्वरादितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः ॥२५॥।

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP